नारदस्य मायादमयन्त्या सह विवाहवर्णनम्
नारद उवाच
तत्पुत्र्या वचनं श्रुत्वा राजा धात्रीमुखात्ततः ।
भार्यां प्रोवाच कैकेयीं समीपस्थां सुलोचनाम्
॥१॥राजोवाच
यदुक्तं वचनं कान्ते धात्र्या तत्तु त्वया श्रुतम् ।
वृतोऽयं नारदः कामं मुनिर्वानरवक्त्रभाक्
॥२॥किमिदं चिन्तितं पुत्र्या बुद्धिहीनं विचेष्टितम् ।
कथमस्मै मया देया कन्या हरिमुखाय सा
॥३॥क्वासौ भिक्षुः कुरूपः क्व दमयन्ती ममात्मजा ।
विपरीतमिदं कार्यं न विधेयं कदाचन
॥४॥तामेकान्ते सुकेशान्ते निवारय हठात्सुताम् ।
युक्त्या मुनिरतां मुग्धां शास्त्रवृद्धानुसारया
॥५॥इति भर्तृवचः श्रुत्वा जननी तामथाब्रवीत् ।
च ते रूपं मुनिः क्वासौ वानरास्योऽधनः पुनः
॥६॥कथं मोहमवाप्तासि भिक्षुके चतुरा पुनः ।
लताकोमलदेहा त्वं भस्मरूक्षतनुस्त्वयम्
॥७॥वार्ता वानरवक्त्रेण कथं युक्ता तवानघे ।
का प्रीतिः कुत्सिते पुंसि भविष्यति शुचिस्मिते
॥८॥वरस्ते राजपुत्रोऽस्तु मा कुरु त्वं वृथा हठम् ।
पिता ते दुःखमाप्नोति श्रुत्वा धात्रीमुखाद्वचः
॥९॥लग्नां बुबूलवृक्षेण कोमलां मालतीलताम् ।
दृष्ट्वा कस्य मनः खेदं चतुरस्य न गच्छति
॥१०॥दासेरकाय ताम्बूलीदलानि कोमलानि कः ।
ददाति भक्षणार्थाय मूर्खोऽपि धरणीतले
॥११॥वीक्ष्य त्वां करसंलग्नां नारदस्य समीपतः ।
विवाहे वर्तमाने तु कस्य चेतो न दह्यति
॥१२॥कुमुखेन समं वार्ता न रुचिं जनयत्यतः ।
आमृतेस्तु कथं कालः क्षपितव्यस्त्वयामुना
॥१३॥नारद उवाच
इति मातुर्वचः श्रुत्वा दमयन्ती भृशातुरा ।
मातरं प्राह तन्वङ्गी मयि सा कृतनिश्चया
॥१४॥किं मुखेन च रूपेण मूर्खस्य च धनेन किम् ।
किं राज्येनाविदग्धस्य रसमार्गाविदोऽस्य च
॥१५॥हरिण्योऽपि वने धन्या या नादेन विमोहिताः ।
मातः प्राणान्प्रयच्छन्ति धिङ्मूर्खान्मानुषान्भुवि
॥१६॥नारदो वेत्ति यां विद्यां मातः सप्तस्वरात्मिकाम् ।
तृतीयः कोऽपि नो वेद शिवादन्यः पुमान्किल
॥१७॥मूर्खेण सह संवासो मरणं तत्क्षणे क्षणे ।
रूपवान्धनवांस्त्याज्यो गुणहीनो नरः सदा
॥१८॥धिङ्मैत्रीं मूर्खभूपाले वृथा गर्वसमन्विते ।
गुणज्ञे भिक्षुके श्रेष्ठा वचनात्सुखदायिनी
॥१९॥स्वरज्ञो ग्रामवित्कामं मूर्च्छनाज्ञानभेदभाक् ।
दुर्लभः पुरुषश्चाष्टरसज्ञो दुर्बलोऽपि वै
॥२०॥यथा नयति कैलासं गङ्गा चैव सरस्वती ।
तथा नयति कैलासं स्वरज्ञानविशारदः
॥२१॥स्वरमानं तु यो वेद स देवो मानुषोऽपि सन् ।
सप्तभेदं न यो वेद स पशुः सुरराडपि
॥२२॥मूर्च्छनातानमार्गं तु श्रुत्वा मोदं न याति यः ।
स पशुः सर्वथा ज्ञेयो हरिणाः पशवो न हि
॥२३॥वरं विषधरः सर्पः श्रुत्वा नादं मनोहरम् ।
अश्रोत्रोऽपि मुदं याति धिक्सकर्णांश्च मानवान्
॥२४॥बालोऽपि सुस्वरं गेयं श्रुत्वा मुदितमानसः ।
जायते किन्तु ते वृद्धा न जानन्ति धिगस्तु तान्
॥२५॥पिता मे किं न जानाति नारदस्य गुणान् बत ।
द्वितीयः सामगो नास्ति त्रिषु लोकेषु तत्समः
॥२६॥तस्मादसौ मया नूनं वृतः पूर्वं समागमात् ।
पश्चाच्छापवशाज्जातो वानरास्यो गुणाकरः
॥२७॥किन्नरा न प्रियाः कस्य भवन्ति तुरगाननाः ।
गानविद्यासमायुक्ताः किं मुखेन वरेण ह
॥२८॥पितरं ब्रूहि मे मातर्वृतोऽयं मुनिसत्तमः ।
तस्मात्त्वमाग्रहं त्यक्त्वा देहि तस्मै च मां मुदा
॥२९॥नारद उवाच
इति पुत्र्या वचः श्रुत्वा राज्ञी राज्ञे न्यवेदयत् ।
आग्रहं सुन्दरी ज्ञात्वा सुताया नारदे मुनौ
॥३०॥विवाहं कुरु राजेन्द्र दमयन्त्याः शुभे दिने ।
मुनिना स च सर्वज्ञो वृतोऽसौ मनसानया
॥३१॥नारद उवाच
इति सञ्चोदितो राज्ञ्या सञ्जयः पृथिवीपतिः ।
चकार विथिवत्सर्वं विधिं वैवाहिकं ततः
॥३२॥एवं दारग्रहं कृत्वा वानरास्यः परन्तप ।
स्थितस्तत्रैव मनसा दह्यमानेन चान्वहम्
॥३३॥यदाऽऽगच्छद्राजसुता सेवार्थं मम सन्निधौ ।
अभवं दुःखसन्तप्तस्तदाहं वानराननः
॥३४॥दमयन्ती तु मां वीक्ष्य प्रफुल्लवदनाम्बुजा ।
शोकं वानरवक्त्रत्वान्न चकार कदाचन
॥३५॥एवं गच्छति काले तु सहसा पर्वतो मुनिः ।
कुर्वंस्तीर्थान्यनेकानि द्रष्टुं मां समुपागतः
॥३६॥मयातिमानितः प्रेम्णा पूजितश्च यथाविधि ।
आसीन आसने दिव्ये वीक्ष्य मां दुःखितो ह्यभूत्
॥३७॥कृतदारं वानरास्यं दीनं चिन्तातुरं भृशम् ।
दयावान्मामुवाचेदं पर्वतो मातुलं कृशम्
॥३८॥मया नारद कोपात्त्वं शप्तोऽसि मुनिसत्तम ।
निष्कृतिं तस्य शापस्य करोम्यद्य निशामय
॥३९॥भव त्वं चारुवदनो मम पुण्येन नारद ।
दृष्ट्वा राजसुतां चित्ते कृपा जाता ममाधुना
॥४०॥नारद उवाच
मयापि प्रवणं चित्तं कृत्वा श्रुत्वास्य भाषितम् ।
अनुग्रहः कृतः सद्यस्तस्य शापस्य तत्क्षणात्
॥४१॥भागिनेय तवाप्यस्तु गमनं सुरसद्मनि ।
शापस्यानुग्रहः कामं कृतोऽयं पर्वताधुना
॥४२॥नारद उवाच
जातोऽहं चारुवदनो वचनात्तस्य पश्यतः ।
राजपुत्री तु सन्तुष्टा मातरं प्राह सत्वरम्
॥४३॥मातस्ते सुमुखो जातो जामाता च महाद्युतिः ।
वचनात्पर्वतस्याद्य मुक्तशापो मुनेरभूत्
॥४४॥तच्छ्रुत्वा वचनं राज्ञ्या कथितं तत्तु राजनि ।
ययौ द्रष्टुं मुनिं तत्र सञ्जयः प्रीतिमांस्तदा
॥४५॥धनं समर्पितं राज्ञा सन्तुष्टेन तदा महत् ।
मह्यं च भागिनेयाय पारिबर्हं महात्मना
॥४६॥एतत्ते सर्वमाख्यातं वर्तनं यत्पुरातनम् ।
मायाया बलमाहात्म्यं ह्यनुभूतं यथा मया
॥४७॥संसारेऽस्मिन्महाभाग मायागुणकृतेऽनृते ।
तनुभृत्तु सुखी नास्ति न भूतो न भविष्यति
॥४८॥कामक्रोधौ तथा लोभो मत्सरो ममता तथा ।
अहङ्कारो मदः केन जिताः सर्वे महाबलाः
॥४९॥सत्त्वं रजस्तमश्चैव गुणास्त्रय इमे किल ।
कारणं प्राणिनां देहसम्भवे सर्वथा मुने
॥५०॥कस्मिंश्चित्समये व्यास वनेऽहं विष्णुना सह ।
गच्छन्हास्यविनोदेन स्त्रीभावं गमितः क्षणात्
॥५१॥राजपत्नीत्वमापन्नो मायाबलविमोहितः ।
पुत्राः प्रसूता बहवो गेहे तस्य नृपस्य ह
॥५२॥व्यास उवाच
संशयोऽयं महान्साधो श्रुत्वा ते वचनं किल ।
कथं नारीत्वमापन्नस्त्वं मुने ज्ञानवान्भृशम्
॥५३॥कथं च पुरुषो जातो ब्रूहि सर्वमशेषतः ।
कथं पुत्रास्त्वया जाताः कस्य राज्ञो गृहेऽञ्जसा
॥५४॥एतदाख्याहि चरितं मायाया महदद्भुतम् ।
मोहितं च यया सर्वमिदं स्थावरजङ्गमम्
॥५५॥न तृप्तिमधिगच्छामि शृण्वंस्तव कथामृतम् ।
सर्वग्रन्थार्थतत्त्वं च सर्वसंशयनाशनम्
॥५६॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदस्य मायादमयन्त्या सह विवाहवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥