मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय ६

3
षष्ठस्कन्धः · 6

छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणपूर्वकं वृत्रहननवर्णनम्

व्यास उवाच

एवं प्राप्तवरा देवा ऋषयश्च तपोधनाः ।

(जग्मुः सर्वे च सम्मन्त्र्य वृत्रस्याश्रममुत्तमम् ।

) ददृशुस्तत्र तं वृत्रं ज्वलन्तमिव तेजसा

॥१॥

धक्ष्यन्तमिव लोकांस्त्रीन्ग्रसन्तमिव चामरान् ।

ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः

॥२॥

देवकार्यार्थसिद्ध्यर्थं सामयुक्तं रसात्मकम् ।

ऋषय ऊचुः ।

वृत्र वृत्र महाभाग सर्वलोकभयङ्कर

॥३॥

व्याप्तं त्वयैतत्सकलं ब्रह्माण्डमखिलं किल ।

शक्रेण तव वैरं यत्तत्तु सौख्यविघातकम्

॥४॥

युवयोर्दुःखदं कामं चिन्तावृद्धिकरं परम् ।

न त्वं स्वपिषि सन्तुष्टो न चापि मघवा तथा

॥५॥

सुखं स्वपिति चिन्तार्तो द्वयोर्यद्वैरिजं भयम् ।

युवयोर्युध्यतोः कालो व्यतीतस्तु महानिह

॥६॥

पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः ।

संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः

॥७॥

न सुखं कृतवैरस्य भवतीति विनिर्णयः ।

संग्रामरसिकाः शूराः प्रशंसन्ति न पण्डिताः

॥८॥

युद्धं शृङ्गारचतुरा इन्द्रियार्थविघातकम् ।

पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः

॥९॥

युद्धे विजयसन्देहो निश्चयं बाणताडनम् ।

दैवाधीनमिदं विश्वं तथा जयपराजयौ

॥१०॥

दैवाधीनाविति ज्ञात्वा न योद्धव्यं कदाचन ।

कालेऽथ भोजनं स्नानं शय्यायां शयनं तथा

॥११॥

परिचर्यापरा भार्या संसारे सुखसाधनम् ।

किं सुखं युध्यतः संख्ये बाणवृष्टिभयङ्करे

॥१२॥

खड्गपातातिरौद्रे च तथारातिसुखप्रदे ।

संग्रामे मरणात्स्वर्गसुखप्राप्तिरिति स्फुटम्

॥१३॥

प्रलोभनपरं वाक्यं नोदनार्थं निरर्थकम् ।

छित्त्वा देहं व्यथां प्राप्य शृगालकरटादिभिः

॥१४॥

पश्चात्स्वर्गसुखावाप्तिं को वा वाञ्छति मन्दधीः ।

सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा

॥१५॥

अवाप्स्यसि सुखं त्वं च शक्रश्चापि निरन्तरम् ।

वयं च तापसाः सर्वे गन्धर्वाश्च निजाश्रमे

॥१६॥

सुखवासं गमिष्यामः शान्ते वैरेऽधुनैव वाम् ।

संग्रामे युवयोर्धीर वर्तमाने दिवानिशम्

॥१७॥

पीड्यन्ते मुनयः सर्वे गन्धर्वाः किन्नरा नराः ।

सर्वेषां शान्तिकामानां सख्यमिच्छामहे वयम्

॥१८॥

मुनयस्त्वं च शक्रश्च प्राप्नुवन्तु सुखं किल ।

मध्यस्थाश्च वयं वृत्र युवयोः सख्यकारणे

॥१९॥

शपथं कारयित्वात्र योजयामो मिथः प्रियम् ।

शक्रस्तु शपथान्कृत्वा यथोक्तांश्च तवाग्रतः

॥२०॥

चित्तं ते प्रीतिसंयुक्तं करिष्यति तु साम्प्रतम् ।

सत्याधारा धरा नूनं सत्येन च दिवाकरः

॥२१॥

तपत्ययं यथाकालं वायुः सत्येन वात्यथ ।

उदन्वानपि मर्यादां सत्येनैव न मुञ्चति

॥२२॥

तस्मात्सत्येन सख्यं वा भवत्वद्य यथासुखम् ।

एकत्र शयनं क्रीडा जलकेलिं सुखासनम्

॥२३॥

युवाभ्यां सर्वथा कार्यं कर्तव्यं सख्यमेत्य च ।

व्यास उवाच ।

महर्षिवचनं श्रुत्वा तानुवाच महामतिः

॥२४॥

अवश्यं भगवन्तो मे माननीयास्तपस्विनः ।

भवन्तो मुनयः क्वापि न मिथ्यावादिनो भृशम्

॥२५॥

सदाचाराः सुशान्ताश्च न विदुश्छलकारणम् ।

कृतवैरे शठे स्तब्धे कामुके च गतत्विषि

॥२६॥

निर्लज्जे नैव कर्तव्यं सख्यं मतिमता सदा ।

निर्लज्जोऽयं दुराचारो ब्रह्महा लम्पटः शठः

॥२७॥

न विश्वासस्तु कर्तव्यः सर्वथैवेदृशे जने ।

भवन्तो निपुणाः सर्वे न द्रोहमतयः सदा

॥२८॥

अनभिज्ञास्तु शान्तत्वाच्चित्तानामतिवादिनाम् ।

मुनय ऊचुः ।

जन्तुः कृतस्य भोक्ता वै शुभस्य त्वशुभस्य च

॥२९॥

द्रोहं कृत्वा कुतः शान्तिमाप्नुयान्नष्टचेतनः ।

विश्वासघातकर्तारो नरकं यान्ति निश्चयम्

॥३०॥

दुःखं च समवाप्नोति नूनं विश्वासघातकः ।

निष्कृतिर्ब्रह्महन्तॄणां सुरापानां च निष्कृतिः

॥३१॥

विश्वासघातिनां नैव मित्रद्रोहकृतामपि ।

समयं ब्रूहि सर्वज्ञ यथा ते चेतसि ध्रुवम्

॥३२॥

तेनैव समयेनाद्य सन्धिः स्यादुभयोः किल ।

वृत्र उवाच ।

न शुष्केण न चार्द्रेण नाश्मना न च दारुणा

॥३३॥

न वज्रेण महाभाग न दिवा निशि नैव च ।

वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः

॥३४॥

एवं मे रोचते सन्धिः शक्रेण सह नान्यथा ।

व्यास उवाच ।

ऋषयस्तं तदा प्राहुर्बाढमित्येव चादृताः

॥३५॥

समयं श्रावयामासुस्तत्रानीय सुरेश्वरम् ।

इन्द्रोऽपि शपथांस्तत्र चकार विगतज्वरः

॥३६॥

साक्षिणं पावकं कृत्वा मुनीनां सन्निधौ किल ।

वृत्रस्तु वचनैस्तस्य विश्वासमगमत्तदा

॥३७॥

बभूव मित्रवच्छक्रे सहचर्यापरायणः ।

कदाचिन्नन्दने चोभौ कदाचिद्गन्धमादने

॥३८॥

कदाचिदुदधेस्तीरे मोदमानौ विचेरतुः ।

एवं कृते च सन्धाने वृत्रः प्रमुदितोऽभवत्

॥३९॥

शक्रोऽपि वधकामस्तु तदुपायानचिन्तयत् ।

रन्ध्रान्वेषी समुद्विग्नस्तदासीन्मघवा भृशम्

॥४०॥

एवं चिन्तयतस्तस्य कालः समभिवर्तत ।

विश्वासं परमं प्राप वृत्रः शक्रेऽतिदारुणे

॥४१॥

एवं कतिचिदब्दानि गतानि समये कृते ।

वृत्रस्य मरणोपायान्मनसीन्द्रोऽप्यचिन्तयत्

॥४२॥

त्वष्टैकदा सुतं प्राह विश्वस्तं पाकशासने ।

पुत्र वृत्र महाभाग शृणु मे वचनं हितम्

॥४३॥

न विश्वासस्तु कर्तव्यः कृतवैरे कथञ्चन ।

मघवा कृतवैरस्ते सदासूयापरः परैः

॥४४॥

लोभान्मत्तो द्वेषरतः परदुःखोत्सवान्वितः ।

परदारलम्पटः स पापबुद्धिः प्रतारकः

॥४५॥

रन्ध्रान्वेषी द्रोहपरो मायावी मदगर्वितः ।

यः प्रविश्योदरे मातुर्गर्भच्छेदं चकार ह

॥४६॥

सप्तकृत्वः सप्तकृत्वः क्रन्दमानमनातुरः ।

तस्मात्पुत्र न कर्तव्यो विश्वासस्तु कथञ्चन

॥४७॥

कृतपापस्य का लज्जा पुनः पुत्र प्रकुर्वतः ।

व्यास उवाच ।

एवं प्रबोधितः पित्रा वचनैर्हेतुसंयुतैः

॥४८॥

न बुबोध तदा वृत्र आसन्नमरणः किल ।

स कदाचित्समुद्रान्ते तमपश्यन्महासुरम्

॥४९॥

सन्ध्याकाल उपावृत्ते मुहूर्तेऽतीव दारुणे ।

ततः सञ्चिन्त्य मघवा वरदानं महात्मनाम्

॥५०॥

सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसो न च ।

हन्तव्योऽयं मया चाद्य बलेनैव न संशयः

॥५१॥

एकाकी विजने चात्र सम्प्राप्तः समयोचितः ।

एवं विचार्य मनसा सस्मार हरिमव्ययम्

॥५२॥

तत्राजगाम भगवानदृश्यः पुरुषोत्तमः ।

वज्रमध्ये प्रविश्यासौ संस्थितो भगवान्हरिः

॥५३॥

इन्द्रो बुद्धिं चकाराशु तदा वृत्रवधं प्रति ।

इति सञ्चिन्त्य मनसा कथं हन्यां रिपुं रणे

॥५४॥

अजेयं सर्वथा सर्वदेवैश्च दानवैस्तथा ।

यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महाबलम्

॥५५॥

न श्रेयो मम नूनं स्यात्सर्वथा रिपुरक्षणात् ।

अपां फेनं तदापश्यत्समुद्रे पर्वतोपमम्

॥५६॥

नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा ।

अपां फेनं तदा शक्रो जग्राह किल लीलया

॥५७॥

परां शक्तिं च सस्मार भक्त्या परमया युतः ।

स्मृतमात्रा तदा देवी स्वांशं फेने न्यधापयत्

॥५८॥

वज्रं तदावृतं तत्र चकार हरिसंयुतम् ।

फेनावृतं पविं तत्र शक्रश्चिक्षेप तं प्रति

॥५९॥

सहसा निपपाताशु वज्राहत इवाचलः ।

वासवस्तु प्रहृष्टात्मा बभूव निहते तदा

॥६०॥

ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ।

हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः

॥६१॥

देवीं सम्पूजयामास यत्प्रसादाद्धतो रिपुः ।

प्रसादयामास तदा स्तोत्रैर्नानाविधैरपि

॥६२॥

देवोद्याने पराशक्तेः प्रासादमकरोद्धरिः ।

पद्मरागमयीं मूर्तिं स्थापयामास वासवः

॥६३॥

त्रिकालं महतीं पूजां चक्रुः सर्वेऽपि निर्जराः ।

तदाप्रभृति देवानां श्रीदेवी कुलदैवतम्

॥६४॥

विष्णुं त्रिभुवनश्रेष्ठं पूजयामास वासवः ।

ततो हते महावीर्ये वृत्रे देवभयङ्करे

॥६५॥

प्रववौ च शिवो वायुर्जहृषुर्देवतास्तथा ।

हते तस्मिन्सगन्धर्वा यक्षराक्षसकिन्नराः

॥६६॥

इत्थं वृत्रः पराशक्तिप्रवेशयुतफेनतः ।

तया कृतविमोहाच्च शक्रेण सहसा हतः

॥६७॥

ततो वृत्रनिहन्त्रीति देवी लोकेषु गीयते ।

शक्रेण निहतत्वाच्च शक्रेण हत उच्यते

॥६८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणमूर्वकं वृत्रहननवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥