कर्मणां गहनगतिवर्णनम्
जनमेजय उवाच
कथितं चरितं ब्रह्मञ्छक्रस्याद्भुतकर्मणः ।
स्थानभ्रंशस्तथा दुःखप्राप्तिरुक्ता विशेषतः
॥१॥यत्र देवाधिदेव्याश्च महिमातीव वर्णितः ।
सन्देहोऽत्र ममाप्यस्ति यच्छक्रोऽपि महातपाः
॥२॥देवाधिपत्यमासाद्य दुःसहं दुःखमन्वभूत् ।
मखानां तु शतं कृत्वा प्राप्तं स्थानमनुत्तमम्
॥३॥देवेशत्वं च सम्प्राप्य भ्रष्टः स्थानादसौ कथम् ।
एतत्सर्वं समाचक्ष्व कारणं करुणानिधे
॥४॥सर्वज्ञोऽसि मुनिश्रेष्ठ पुराणानां प्रवर्तकः ।
नावाच्यं महतां किञ्चिच्छिष्ये च श्रद्धयान्विते
॥५॥तस्मात्कुरु महाभाग मत्सन्देहापनोदनम् ।
सूत उवाच ।
इति पृष्टः स राज्ञा वै तदा सत्यवतीसुतः
॥६॥तमाहातिप्रसन्नात्मा यथानुक्रममुत्तरम् ।
व्यास उवाच ।
निबोध नृपतिश्रेष्ठ कारणं परमाद्भुतम्
॥७॥कर्मणस्तु त्रिधा प्रोक्ता गतिस्तत्त्वविदां वरैः ।
सञ्चितं वर्तमानं च प्रारब्धमिति भेदतः
॥८॥अनेकजन्मसञ्जातं प्राक्तनं सञ्चितं स्मृतम् ।
सात्त्विकं राजसं कर्म तामसं त्रिविधं पुनः
॥९॥शुभं वाप्यशुभं भूप सञ्चितं बहुकालिकम् ।
अवश्यमेव भोक्तव्यं सुकृतं दुष्कृतं तथा
॥१०॥जन्मजन्मनि जीवानां सञ्चितानां च कर्मणाम् ।
निःशेषस्तु क्षयो नाभूत्कल्पकोटिशतैरपि
॥११॥क्रियमाणं च यत्कर्म वर्तमानं तदुच्यते ।
देहं प्राप्य शुभं वापि ह्यशुभं वा समाचरेत्
॥१२॥सञ्चितानां पुनर्मध्यात्समाहृत्य कियान्किल ।
देहारम्भे च समये कालः प्रेरयतीव तत्
॥१३॥प्रारब्धं कर्म विज्ञेयं भोगात्तस्य क्षयः स्मृतः ।
प्राणिभिः खलु भोक्तव्यं प्रारब्धं नात्र संशयः
॥१४॥पुरा कृतानि राजेन्द्र ह्यशुभानि शुभानि च ।
अवश्यमेव कर्माणि भोक्तव्यानीति निश्चयः
॥१५॥देवैर्मनुष्यैरसुरैर्यक्षगन्धर्वकिन्नरैः ।
कर्मैव हि महाराज देहारम्भस्य कारणम्
॥१६॥कर्मक्षये जन्मनाशः प्राणिनां नात्र संशयः ।
ब्रह्मा विष्णुस्तथा रुद्र इन्द्राद्याश्च सुरास्तथा
॥१७॥दानवा यक्षगन्धर्वाः सर्वे कर्मवशा किल ।
अन्यथा देहसम्बन्धः कथं भवति भूपते
॥१८॥कारणं यस्तु भोगस्य देहिनः सुखदुःखयोः ।
तस्मादनेकजन्मोत्थसञ्चितानां च कर्मणाम्
॥१९॥मध्ये वेगः समायाति कस्यचित्कालपाकतः ।
तत्प्रारब्धवशात्पुण्यं करोति च यथा तथा
॥२०॥पापं करोति मनुजस्तथा देवादयोऽपि च ।
तथा नारायणो राजन्नरश्च धर्मजावुभौ
॥२१॥जातौ कृष्णार्जुनौ काममंशौ नारायणस्य तौ ।
पुराणपीठिकेयं वै मुनिभिः परिकीर्तिता
॥२२॥देवांशः स तु विज्ञेयो यो भवेद्विभवाधिकः ।
नानृषिः कुरुते काव्यं नारुद्रो रुद्रमर्चते
॥२३॥नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः ।
इन्द्रादग्नेर्यमाद्विष्णोर्धनदादिति भूपते
॥२४॥प्रभुत्वं च प्रभावं च कोपं चैव पराक्रमम् ।
आदाय क्रियते नूनं शरीरमिति निश्चयः
॥२५॥यः कश्चिद्बलवाँल्लोके भाग्यवानथ भोगवान् ।
विद्यावान्दानवान्वापि स देवांशः प्रपढ्यते
॥२६॥तथैवैते मयाख्याता पाण्डवाः पृथिवीपते ।
देवांशो वासुदेवोऽपि नारायणसमद्युतिः
॥२७॥शरीरं प्राणिनां नूनं भाजनं सुखदुःखयोः ।
शरीरी प्राप्नुयात्कामं सुखं दुःखमनन्तरम्
॥२८॥देही नास्ति वशः कोऽपि दैवाधीनः सदैव हि ।
जननं मरणं दुःखं सुखं प्राप्नोति चावशः
॥२९॥पाण्डवास्ते वने जाताः प्राप्तास्तु स्वगृहं पुनः ।
स्वबाहुबलतः पश्चाद्राजसूयं क्रतूत्तमम्
॥३०॥वनवासं पुनः प्राप्ता बहुदुःखकरं परम् ।
अर्जुनेन तपस्तप्तं दुष्करं ह्यजितेन्द्रियैः
॥३१॥सन्तुष्टैस्तु सुरैर्दत्तं वरदानं पुनः शुभम् ।
नरदेहकृतं पुण्यं क्व गतं वनवासजम्
॥३२॥नरदेहे तपस्तप्तं चोग्रं बदरिकाश्रमे ।
नार्जुनस्य शरीरे तत्फलदं सम्बभूव ह
॥३३॥प्राणिनां देहसम्बन्धे गहना कर्मणो गतिः ।
दुर्ज्ञेया सर्वथा देवैर्मानवानां तु का कथा
॥३४॥वासुदेवोऽपि सञ्जातः कारागारेऽतिसङ्कटे ।
नीतोऽसौ वसुदेवेन नन्दगोपस्य गोकुलम्
॥३५॥एकादशैव वर्षाणि संस्थितस्तत्र भारत ।
पुनः स मथुरां गत्वा जघानोग्रसुतं बलात्
॥३६॥मोचयामास पितरौ बन्धनाद्भृशदुःखितौ ।
उग्रसेनं च राजानञ्चकार मधुरापुरे
॥३७॥जगाम द्वारवत्यां स म्लेच्छराजभयात्पुनः ।
सर्वं भाविवशात्कृष्णः कृतवान्पौरुषं महत्
॥३८॥कृत्वा कार्याण्यनेकानि द्वारवत्यां जनार्दनः ।
देहं त्यक्त्वा प्रभासे तु सकुटुम्बो दिवं गतः
॥३९॥पुत्राः पौत्राश्च सुहृदो भ्रातरो जामयस्तथा ।
प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः
॥४०॥एवं ते कथिता राजन् कर्मणो गहना गतिः ।
वासुदेवोऽपि व्याधस्य बाणेन निधनं गतः
॥४१॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे कर्मणां गहनगतिवर्णनं नाम दशमोऽध्यायः ॥ १० ॥