मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय २०

3
षष्ठस्कन्धः · 20

एकवीराख्यानवर्णनम्

जनमेजय उवाच

संशयोऽयं महानत्र जातमात्रः शिशुस्तथा ।

मुक्तः केन गृहीतोऽसावेकाकी विजने वने

॥१॥

का गतिस्तस्य बालस्य जाता सत्यवतीसुत ।

व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः

॥२॥

व्यास उवाच

लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा ।

तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल

॥३॥

विमानवरमारूढः कामिन्या सहितो नृप ।

मदनालसया कामं क्रीडमानो यदृच्छया

॥४॥

विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् ।

देवपुत्रप्रतीकाशं रममाणं यथासुखम्

॥५॥

विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् ।

जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः

॥६॥

गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् ।

मदनालसायै तं बालं जातमात्रं मनोहरम्

॥७॥

सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया ।

मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम्

॥८॥

आलिङ्गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् ।

उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत

॥९॥

कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा ।

पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा

॥१०॥

कस्यायं बालकः कान्त त्यक्तः केन च कानने ।

पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना

॥११॥

चम्पक उवाच

प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै ।

देवो वा दानवो वापि गन्धर्वो वा शिशुः किल

॥१२॥

तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् ।

अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम्

॥१३॥

इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः ।

ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः

॥१४॥

प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् ।

निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः

॥१५॥

देवदेव मया लब्धस्तीर्थे परमपावने ।

कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः

॥१६॥

कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते ।

आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम्

॥१७॥

अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः ।

कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा

॥१८॥

इन्द्र उवाच

पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह ।

हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः

॥१९॥

उत्पादितो भगवता कार्यार्थं किल बालकः ।

दातुं नृपतये नूनं ययातितनयाय च

॥२०॥

हरिणा प्रेरितः सोऽद्य राजा परमधार्मिकः ।

आगमिष्यति पुत्रार्थं तीर्थे तस्मिन्मनोरमे

॥२१॥

तावत्त्वं गच्छ तत्रैव गृहीत्वा बालकं शुभम् ।

यावन्न याति नृपतिर्ग्रहीतुं हरिणेरितः

॥२२॥

गत्वा तत्र विमुञ्चैनं विलम्बं मा कृथा वर ।

अदृष्ट्वा बालकं राजा दुःखितश्च भविष्यति

॥२३॥

तस्माच्चम्पक मुञ्चैनं राजा प्राप्नोतु पुत्रकम् ।

एकवीरेति नाम्नायं ख्यातः स्यात् पृथिवीतले

॥२४॥

व्यास उवाच

इति तस्य वचः श्रुत्वा चम्पकस्त्वरयान्वितः ।

जगाम पुत्रमादाय स्थले तस्मिन्महीपते

॥२५॥

मुमोच बालकं तत्र यत्र पूर्वं स्थितो ह्यभूत् ।

आरुह्य स्वविमानं तु ययौ स्वाश्रममण्डलम्

॥२६॥

तदैव कमलाकान्तो लक्ष्म्या सह जगद्गुरुः ।

विमानवरमारूढो जगाम नृपतिं प्रति

॥२७॥

दृष्टस्तदा तेन नृपेण विष्णुः समुत्तरंस्तत्र विमानमुख्यात् ।

जहर्ष राजा हरिदर्शनेन पपात भूमौ खलु दण्डवच्च

॥२८॥

उत्तिष्ठ वत्सेति हरिः पतन्त- माश्वासयद्भूमिगतं स्वभक्तम् ।

सोऽप्युत्सुको वासुदेवं पुरःस्थं तुष्टाव भक्त्या मुखरीकृतोऽथ

॥२९॥

देवाधिदेवाखिललोकनाथ कृपानिधे लोकगुरो रमेश ।

मन्दस्य मे ते किल दर्शनं य- त्सुदुर्लभं योगिजनैरलभ्यम्

॥३०॥

ये निःस्पृहास्ते विषयैरपेता- स्तेषां त्वदीयं खलु दर्शनं स्यात् ।

आशापरोऽहं भगवन्ननन्त योग्यो न ते दर्शने देवदेव

॥३१॥

इति स्तुतस्तेन नृपेण विष्णु- स्तमाह वाक्येन सुधामयेन ।

वृणीष्व राजन् मनसेप्सितं ते ददामि तुष्टस्तपसा तवेति

॥३२॥

ततो नृपस्तं प्रणिपत्य पादयोः प्रोवाच विष्णुं पुरतः स्थितं च ।

तपस्तु तप्तं हि मया सुतार्थे पुत्रं ददस्वात्मसमं मुरारे

॥३३॥

श्रुत्वा नृपप्रार्थितमादिदेव- स्तमाह राजानममोघवाक्यम् ।

ययातिसूनो व्रज तत्र तीर्थे कलिन्दकन्यातमसाप्रसङ्गे

॥३४॥

मयाद्य पुत्रस्तु यथेप्सितस्ते तत्रैव मुक्तोऽस्त्यमितप्रभावः ।

लक्ष्म्याः प्रसूतो मम वीर्यजश्च कृतस्तवार्थेऽथ गृहाण राजन्

॥३५॥

श्रुत्वा हरेर्वाक्यमतीव मृष्टं सन्तुष्टचित्तः प्रबभूव राजा ।

हरिस्तु दत्त्वेति वरं जगाम वैकुण्ठलोकं रमया युतश्च

॥३६॥

गते हरौ सोऽथ ययातिसूनु- र्ययावनुद्धातरथेन राजा ।

प्रेमान्वितस्तत्र सुतोऽस्ति यत्र वचो निशम्येति जनार्दनस्य

॥३७॥

स तत्र गत्वातिमनोहरं तं ददर्श बालं भुवि खेलमानम् ।

मुखे निवेश्यैककरेण कृत्वा श्लक्ष्णं पदाङ्गुष्ठमनन्यसत्त्वः

॥३८॥

तं वीक्ष्य पुत्रं मदनस्वरूपं नारायणांशं कमलाप्रसूतम् ।

हरिप्रभावं हरिवर्मनामा हर्षप्रफुल्लाननपङ्कजोऽभूत्

॥३९॥

गृह्णन् सुवेगात् करपङ्कजाभ्यां बभूव प्रेमार्णवमग्नदेहः ।

मूर्धन्युपाघ्राय मुदान्वितोऽसौ ननन्द राजा सुतमालिलिङ्ग

॥४०॥

मुखं समीक्ष्यातिमनोहरं त- मुवाच नेत्राम्बुनिरुद्धकण्ठः ।

दत्तोऽसि देवेन जनार्दनेन मात्रा हि पुत्रावमदुःखभीतेः

॥४१॥

तप्तं मया पुत्र तपस्तवार्थे सुदुष्करं वर्षशतं च पूर्णम् ।

तेनैव तुष्टेन रमाप्रियेण दत्तोऽसि संसारसुखोदयाय

॥४२॥

माता रमा त्वां तनुजं मदर्थे त्यक्त्वा गता सा हरिणा समेता ।

धन्या तु सा या प्रहसन्तमङ्के कृत्वा सुतं त्वां मुदितानना स्यात्

॥४३॥

त्वमेव संसारसमुद्रनौका- रूपः कृतः पुत्र लक्ष्मीधरेण ।

इत्येवमुक्त्वा नृपतिः सुतं तं मुदा समादाय ययौ गृहाय

॥४४॥

पुरीसमीपे नृपमागतं त- माकर्ण्य सर्वे सचिवास्तु राज्ञः ।

ययुः समीपं नृपतेश्च लोकाः सोपायनास्ते सपुरोहिताश्च

॥४५॥

बन्दीजना गायनकाश्च सूताः समाययुः सम्मुखमाशु राज्ञः ।

नृपः पुरं प्राप्य पुरः समागतं जनं समाश्वास्य वाक्यैश्च दृष्ट्या

॥४६॥

सम्पूजितः पौरजनेन राजा विवेश पुत्रेण युतो नगर्याम् ।

मार्गेषु लाजैः कुसुमैः समन्ता- द्विकीर्यमाणो नृपतिर्जगाम

॥४७॥

गृहं समृद्धं सचिवैः समेतः सुतं समादाय मुदा कराभ्याम् ।

राज्ये ददौ चाथ सुतं मनोज्ञं सद्यःप्रसूतं च मनोभवाभम्

॥४८॥

राज्ञी गृहीत्वाभिनवं तनूजं पप्रच्छ राजानमनिन्दिता सा ।

राजन् कुतश्चैव सुतः सुजन्मा प्राप्तस्त्वया मन्मथतुल्यरूपः

॥४९॥

केनैष दत्तः कथयाशु कान्त चेतो मदीयं प्रहृतं सुतेन ।

नृपस्तदोवाच मुदान्वितोऽसौ प्रिये रमेशेन सुतो हि मह्यम्

॥५०॥

लोलाक्षि दत्तः कमलासमुत्थो जनार्दनांशोऽयमहीनसत्त्वः ।

सा तं गृहीत्वा मुदमाप राज्ञी राजा चकारोत्सवमद्भुतं च

॥५१॥

ददौ च दानं किल याचकेभ्यो गीतानि वाद्यानि बहूनि नेदुः ।

कृत्वोत्सवं भूपतिरात्मजस्य नामैकवीरेति चकार विश्रुतम्

॥५२॥

सुखं च सम्प्राप्य मुदान्वितोऽसौ ननन्द देवाधिपतुल्यवीर्यः ।

पुत्रं हरे रूपगुणानुरूपं सम्प्राप्य वंशस्य ऋणाच्च मुक्तः

॥५३॥

इति सकलसुराणामीश्वरेणार्पितं तं सकलगुणगणाढ्यं पुत्रमासाद्य राजा ।

विविधसुखविनोदैर्भार्यया सेव्यमानो व्यहरत निजगेहे शक्रतुल्यप्रतापः

॥५४॥

इति श्रीमद्देवीभागवतेमहापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे एकवीराख्यानवर्णनं नाम विंशोऽध्यायः ॥ २० ॥