मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय ५

3
षष्ठस्कन्धः · 5

देवीसमाराधनाय देवकृतस्तुतिवर्णनम्

व्यास उवाच

तथा चिन्तातुरान्वीक्ष्य सर्वान्मर्वार्थतत्त्ववित् ।

प्राह प्रेमभरोद्भ्रान्तान्माधवो मेदिनीपते

॥१॥

विष्णुरुवाच

किं मौनमाश्रिता यूयं ब्रुवन्तु कारणं सुराः ।

सदसद्वापि यच्छ्रुत्वा यतिष्ये तन्निवारणे

॥२॥

देवा ऊचुः

किमज्ञातं तव विभो त्रिषु लोकेषु वर्तते ।

सर्वं वेद भवान्कार्यं किं पृच्छसि पुनः पुनः

॥३॥

त्वया पूर्वं बलिर्बद्धः शक्रो देवाधिपः कृतः ।

वामनं वपुरास्थाय क्रान्तं त्रिभुवनं पदैः

॥४॥

अमृतं त्वाहृतं विष्णो दैत्याश्च विनिपातिताः ।

त्वं प्रभुः सर्वदेवानां सर्वापद्विनिवारणे

॥५॥

विष्णुरुवाच

न भेतव्यं सुरवरा वेद्म्युपायं सुसम्मतम् ।

तद्वधाय प्रवक्ष्यामि येन सौख्यं भविष्यति

॥६॥

अवश्यं करणीयं मे भवतां हितमात्मना ।

बुद्ध्या बलेन चार्थेन येन केनच्छलेन वा

॥७॥

उपायाः खलु चत्वारः कथितास्तत्त्वदर्शिभिः ।

सामादयः सुहृत्स्वेव दुर्हृदेषु विशेषतः

॥८॥

ब्रह्मणास्य वरो दत्तस्तपसाऽऽराधितेन च ।

दुर्जयत्वं च सम्प्राप्तं वरदानप्रभावतः

॥९॥

अजेयः सर्वभूतानां त्वष्ट्रा समुपपादितः ।

ततो बलेन वृद्धिं स प्राप्तः परपुरञ्जयः

॥१०॥

दुःसाध्योऽसौ सुराः शत्रुर्विना सामप्रतारणम् ।

प्रलोभ्य वशमानेयो हन्तव्यस्तु ततः परम्

॥११॥

गच्छध्वं सर्वगन्धर्वा यत्रास्ति बलवत्तरः ।

साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ

॥१२॥

सङ्गम्य शपथात्कृत्वा विश्वास्य समयेन हि ।

मित्रत्वं च समाधाय हन्तव्यः प्रबलो रिपुः

॥१३॥

अदृश्यः सम्प्रवेक्ष्यामि वज्रमस्य वरायुधम् ।

साहाय्यं च करिष्यामि शक्रस्याहं सुरोत्तमाः

॥१४॥

समयं च प्रतीक्षध्वं सर्वथैवायुषः क्षये ।

मरणं विबुधास्तस्य नान्यथा सम्भविष्यति

॥१५॥

गच्छध्वमृषिभिः सार्धं गन्धर्वाः कपटावृताः ।

इन्द्रेण सह मित्रत्वं कुरुध्वं वाक्यदानतः

॥१६॥

यथा स याति विश्वासं तथा कार्यं प्रतारणम् ।

गुप्तोऽहं सम्प्रवेक्ष्यामि पविं सञ्छादितं दृढम्

॥१७॥

विश्वस्तं मघवा शत्रुं हनिष्यति न चान्यथा ।

विश्वासस्य कृते पापं कृत्वा शक्रस्तु पृष्ठतः

॥१८॥

मत्सहायोऽथ वज्रेण शातयिष्यति पापिनम् ।

न दोषोऽत्र शठे शत्रौ शाठ्यमेव प्रकुर्वतः

॥१९॥

नान्यथा बलवान्वध्यः शूरधर्मेण जायते ।

वामनं रूपमाधाय मयायं वञ्चितो बलिः

॥२०॥

कृत्वा च मोहिनीवेषं दैत्याः सर्वेऽपिवञ्चिताः ।

भवन्तः सहिताः सर्वे देवीं भगवतीं शिवाम्

॥२१॥

गच्छध्वं शरणं भावैः स्तोत्रमन्त्रैः सुरोत्तमाः ।

साहाय्यं सा योगमाया भवतां संविधास्यति

॥२२॥

वन्दामहे सदा देवीं सात्त्विकीं प्रकृतिं पराम् ।

सिद्धिदां कामदां कामां दुरापामकृतात्मभिः

॥२३॥

इन्द्रोऽपि तां समाराध्य हनिष्यति रिपुं रणे ।

मोहिनी सा महामाया मोहयिष्यति दानवम्

॥२४॥

मोहितो मायया वृत्रः सुखसाध्यो भविष्यति ।

प्रसन्नायां पराम्बायां सर्वं साध्यं भविष्यति

॥२५॥

नोचेन्मनोरथावाप्तिर्न कस्यापि भविष्यति ।

अन्तर्यामिस्वरूपा सा सर्वकारणकारणा

॥२६॥

तस्मात्तां विश्वजननीं प्रकृतिं परमादृताः ।

भजध्वं सात्त्विकैर्भावैः शत्रुनाशाय सत्तमाः

॥२७॥

पुरा मयापि संग्रामं कृत्वा परमदारुणम् ।

पञ्चवर्षसहस्राणि निहतौ मधुकैटभौ

॥२८॥

स्तुता मया तदात्यर्थं प्रसन्ना प्रकृतिः परा ।

मोहितौ तौ तदा दैत्यौ छलेन च मया हतौ

॥२९॥

विप्रलब्धौ महाबाहू दानवौ मदगर्वितौ ।

तथा कुरुध्वं प्रकृतेर्भजनं भावसंयुताः

॥३०॥

सर्वथा कार्यसिद्धिं सा करिष्यति सुरोत्तमाः ।

एवं ते दत्तमतयो विष्णुना प्रभविष्णुना

॥३१॥

जग्मुस्ते मेरुशिखरं मन्दारद्रुममण्डितम् ।

एकान्ते संस्थिता देवाः कृत्वा ध्यानं जपं तपः

॥३२॥

तुष्टुवुर्जगतां धात्रीं सृष्टिसंहारकारिणीम् ।

भक्तकामदुघामम्बां संसारक्लेशनाशिनीम्

॥३३॥

देवा ऊचुः

देवि प्रसीद परिपाहि सुरान्प्रतप्तान् वृत्रासुरेण समरे परिपीडितांश्च ।

दीनार्तिनाशनपरे परमार्थतत्त्वे प्राप्तांस्त्वदङ्घ्रिकमलं शरणं सदैव

॥३४॥

त्वं सर्वविश्वजननी परिपालयास्मान् पुत्रानिवातिपतितान् रिपुसङ्कटेऽस्मिन् ।

मातर्न तेऽस्त्यविदितं भुवनत्रयेऽपि कस्मादुपेक्षसि सुरानसुरप्रतप्तान्

॥३५॥

त्रैलोक्यमेतदखिलं विहितं त्वयैव ब्रह्मा हरिः पशुपतिस्तव वासनोत्थाः ।

कुर्वन्ति कार्यमखिलं स्ववशा न ते ते भ्रूभङ्गचालनवशाद्विहरन्ति कामम्

॥३६॥

माता सुतान्परिभवात्परिपाति दीनान् रीतिस्त्वयैव रचिता प्रकटापराधान् ।

कस्मान्न पालयसि देवि विनापराधा- नस्मांस्त्वदङ्घ्रिशरणान्करुणारसाब्धे

॥३७॥

नूनं मदङ्घ्रिभजनाप्तपदाः किलैते भक्तिं विहाय विभवे सुखभोगलुब्धाः ।

नेमे कटाक्षविषया इति चेन्न चैषा रीतिः सुते जननकर्तरि चापि दृष्टा

॥३८॥

दोषो न नोऽत्र जननि प्रतिभाति चित्ते यत्ते विहाय भजनं विभवे निमग्नाः ।

मोहस्त्वया विरचितः प्रभवत्यसौ न- स्तस्मात्स्वभावकरुणे दयसे कथं न

॥३९॥

पूर्वं त्वया जननि दैत्यपतिर्बलिष्ठो व्यापादितो महिषरूपधरः किलाजौ ।

अस्मत्कृते सकललोकभयावहोऽसौ वृत्रं कथं न भयदं विधुनोषि मातः

॥४०॥

शुम्भस्तथातिबलवाननुजो निशुम्भ- स्तौ भ्रातरौ तदनुगा निहता हतौ च ।

वृत्रं तथा जहि खलं प्रबलं दयार्द्रे मत्तं विमोहय तथा न भवेद्यथासौ

॥४१॥

त्वं पालयाद्य विबुधानसुरेण मातः सन्तापितानतितरां भयविह्वलांश्च ।

नान्योऽस्ति कोऽपि भुवनेषु सुरार्तिहन्ता यः क्लेशजालमखिलं निदहेत्स्वशक्त्या

॥४२॥

वृत्रे दया तव यदि प्रथिता तथापि जह्येनमाशु जनदुःखकरं खलं च ।

पापात्समुद्धर भवानि शरैः पुनाना नोचेत्प्रयास्यति तमो ननु दुष्टबुद्धिः

॥४३॥

ते प्रापिताः सुरवनं विबुधारयो ये हत्वा रणेऽपि विशिखैः किल पावितास्ते ।

त्राता न किं निरयपातभयाद्दयार्द्रे यच्छत्रवोऽपि न हि किं विनिहंसि वृत्रम्

॥४४॥

जानीमहे रिपुरसौ तव सेवको न प्रायेण पीडयति नः किल पापबुद्धिः ।

यस्तावकस्त्विह भवेदमरानसौ किं त्वत्पादपङ्कजरतान्ननु पीडयेद्वा

॥४५॥

कुर्मः कथं जननि पूजनमद्य तेऽम्ब पुष्पादिकं तव विनिर्मितमेव यस्मात् ।

मन्त्रा वयं च सकलं परशक्तिरूपं तस्माद्भवानि चरणे प्रणताः स्म नूनम्

॥४६॥

धन्यास्त एव मनुजा हि भजन्ति भक्त्या पादाम्बुजं तव भवाब्धिजलेषु पोतम् ।

यं योगिनोऽपि मनसा सततं स्मरन्ति मोक्षार्थिनो विगतरागविकारमोहाः

॥४७॥

ये याज्ञिकाः सकलवेदविदोऽपि नूनं त्वां संस्मरन्ति सततं किल होमकाले ।

स्वाहां तु तृप्तिजननीममरेश्वराणां भूयः स्वधां पितृगणस्य च तृप्तिहेतुम्

॥४८॥

मेधासि कान्तिरसि शान्तिरपि प्रसिद्धा बुद्धिस्त्वमेव विशदार्थकरी नराणाम् ।

सर्वं त्वमेव विभवं भुवनत्रयेऽस्मि- न्कृत्वा ददासि भजतां कृपया सदैव

॥४९॥

व्यास उवाच

एवं स्तुता सुरैर्देवी प्रत्यक्षा साभवत्तदा ।

चारुरूपधरा तन्वी सर्वाभरणभूषिता

॥५०॥

पाशांकुशवराभीतिलसद्बाहुचतुष्टया ।

रणत्किङ्किणिकाजालरसनाबद्धसत्कटिः

॥५१॥

कलकण्ठीरवा कान्ता क्वणत्कङ्कणनूपुरा ।

चन्द्रखण्डसमाबद्धरत्नमौलिविराजिता

॥५२॥

मन्दस्मितारविन्दास्या नेत्रत्रयविभूषिता ।

पारिजातप्रसूनाच्छनालवर्णसमप्रभा

॥५३॥

रक्ताम्बरपरीधाना रक्तचन्दनचर्चिता ।

प्रसादसुमुखी देवी करुणारससागरा

॥५४॥

सर्वशृङ्गारवेषाढ्या सर्वद्वैतारणिः परा ।

सर्वज्ञा सर्वकर्त्री च सर्वाधिष्ठानरूपिणी

॥५५॥

सर्ववेदान्तसंसिद्धा सच्चिदानन्दरूपिणी ।

प्रणेमुस्तां समालोक्य सुरा देवीं पुरःस्थिताम्

॥५६॥

तानाह प्रणतानम्बा किं वः कार्यं ब्रुवन्तु माम् ।

देवा ऊचुः ।

मोहयैनं रिपुं वृत्रं देवानामतिदुःखदम्

॥५७॥

यथा विश्वसते देवांस्तथा कुरु विमोहितम् ।

आयुधे च बलं देहि हतः स्याद्येन वा रिपुः

॥५८॥

व्यास उवाच

तथेत्युक्त्वा भगवती तत्रैवान्तरधीयत ।

स्वानि स्वानि निकेतानि जग्मुर्देवा मुदान्विताः

॥५९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे देवीसमाराधनाय देवकृतस्तुतिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥