हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनम्
यशोवत्युवाच
प्रातरुत्थाय तन्वङ्गी चलिता च सखीयुता ।
चामरैर्वीज्यमाना सा रक्षिता बहुरक्षिभिः
॥१॥सायुधैश्चातिसन्नद्धैः सहिता वरवर्णिनी ।
क्रीडार्थमत्र राजेन्द्र सम्प्राप्ता नलिनीं शुभाम्
॥२॥अहमप्यनया सार्धं गङ्गातीरे समागता ।
अप्सरोभिः समेता च कमलैः क्रीडमानया
॥३॥एकावली तथा चाहं जाते क्रीडापरे यदा ।
सहसैव तदायातो दानवो बलसंयुतः
॥४॥कालकेतुरिति ख्यातो राक्षसैर्बहुभिर्युतः ।
परिघासिगदाचापबाणतोमरपाणिभिः
॥५॥दृष्टा चैकावली तेन रूपयौवनशालिनी ।
द्वितीया कामपत्नीव क्रीडमाना सुपङ्कजैः
॥६॥मयोक्तैकावली राजन् कोऽयं दैत्यः समागतः ।
गच्छावो रक्षपालानां मध्ये पङ्कजलोचने
॥७॥विमृश्यैव सखी चाहं त्वरयैव गते भयात् ।
मध्ये वै सैनिकानां तु सायुधानां नृपात्मज
॥८॥कालकेतुस्तु तां दृष्ट्वा मोहिनीं मदनातुरः ।
गदां गुर्वी गृहीत्वा तु धावमानः समागतः
॥९॥रक्षकान्दूरतः कृत्वा जग्राहाम्बुजलोचनाम् ।
त्रस्तां वेपथुसंयुक्तां क्रन्दमानां कृशोदरीम्
॥१०॥त्यजैनां मां गृहाणेति मया चोक्तोऽपि दानवः ।
न मां जग्राह कामार्तस्तां गृहीत्वा विनिःसृतः
॥११॥तिष्ठ तिष्ठेति भाषन्तो रक्षकास्तं महाबलम् ।
प्रतिषिध्य तु संग्रामं चक्रुर्विस्मयकारकम्
॥१२॥तस्यापि राक्षसाः क्रूराः सर्वतः शस्त्रपाणयः ।
युयुधू रक्षकैः सार्धं स्वामिकार्ये कृतोद्यमाः
॥१३॥संग्रामस्तु तदा जातः कालकेतोस्तथा रणे ।
निहत्य रक्षकान्सर्वान्गृहीत्वैनां महाबलः
॥१४॥युक्तो राक्षससैन्येन निर्जगाम पुरं प्रति ।
वीक्ष्य तां रुदतीं बालां गृहीता दानवेन तु
॥१५॥पृष्ठतोऽहं गता तत्र यत्र नीता सखी मम ।
विक्रोशन्ती यथा सा मां पश्येदिति पदानुगा
॥१६॥सापि मामागतां वीक्ष्य किञ्चित्स्वस्थाभवत्तदा ।
गताहं तत्समीपे तु तामाभाष्य पुनः पुनः
॥१७॥सा मां प्राप्यातिदुःखार्ता स्तम्भस्वेदसमाकुला ।
कण्ठे गृहीत्वा मां भूप रुरोद भृशदुःखिता
॥१८॥स मामाह कालकेतुः प्रीतिपूर्वमिदं वचः ।
समाश्वासय भीतां त्वं सखीं चञ्चललोचनाम्
॥१९॥प्राप्तं ममाद्य नगरं देवलोकसमं प्रिये ।
दासोऽस्मि तव रत्या हि कस्मात्क्रन्दसि कातरा
॥२०॥कथयैनां सखीं तेऽद्य स्वस्था भव सुलोचने ।
इत्युक्त्वा मां सखीपार्श्वे समारोप्य रथोत्तमे
॥२१॥जगाम तरसा दुष्टः पुरे स्वस्य मनोहरे ।
सैन्येन महता युक्तः प्रफुल्लवदनाम्बुजः
॥२२॥एकावली तथा मां च संस्थाप्य धवले गृहे ।
राक्षसान् गृहरक्षार्थं कल्पयामास कोटिशः
॥२३॥द्वितीये दिवसे सोऽथ मामुवाच रहो नृप ।
प्रबोधय सखीं बालां शोचन्तीं विरहातुराम्
॥२४॥पत्नी मे भव सुश्रोणि सुखं भुङ्क्षव यथेप्सितम् ।
राज्यं त्वदीयं चन्द्रास्ये सेवकोऽहं सदा तव
॥२५॥पुनरुक्तं मया वाक्यं श्रुत्वा तद्भाषितं खरम् ।
नाहं क्षमाप्रियं वक्तुं त्वमेनां कथय प्रभो
॥२६॥इत्युक्ते वचने दुष्टो मदनक्षतमानसः ।
उवाच विनयादेनां सखीं क्षामोदरीं प्रियाम्
॥२७॥कृशोदरि त्वया मन्त्रो निक्षिप्तोऽस्ति ममोपरि ।
तेन मे हृदयं कान्ते हृतं ते वशतां गतम्
॥२८॥तेनाहं तव दासोऽद्य कृतोऽस्मीति विनिश्चयः ।
भज मां कामबाणेन पीडितं विवशं भृशम्
॥२९॥यौवनं याति रम्भोरु चञ्चलं दुर्लभं तदा ।
सफलं कुरु कल्याणि पतिं मां परिरभ्य च
॥३०॥एकावल्युवाच
पित्राहं कल्पिता पूर्वं दातुं राजसुताय वै ।
हैहयस्तु महाभाग स मया मनसा वृतः
॥३१॥कथमन्यं भजे कान्तं त्यक्त्वा धर्मं सनातनम् ।
कन्याधर्मं विहायाद्य वेत्सि शास्त्रविनिश्चयम्
॥३२॥यस्मै दद्यात्पिता कामं कन्या तं पतिमाप्नुयात् ।
परतन्त्रा सदा कन्या न स्वातन्त्र्यं कदाचन
॥३३॥इत्युक्तोऽपि तया पापी विरराम न मोहितः ।
न मुमोच विशालाक्षीं मां च पार्श्वस्थितां तथा
॥३४॥पातालविवरे तस्य पुरं परमसङ्कटे ।
राक्षसै रक्षितं दुर्गं मण्डितं परिखावृतम्
॥३५॥तत्र तिष्ठति दुःखार्ता सखी मे प्राणवल्लभा ।
तेनाहं विरहेणात्र रारटीमि सुदुःखिता
॥३६॥एकवीर उवाच
कथं त्वमत्र सम्प्राप्ता पुरात्तस्य दुरात्मनः ।
विस्मयो मे महानत्र तत्त्वं ब्रूहि वरानने
॥३७॥त्वया च कथितं वाक्यं सन्दिग्धं भाति भामिनि ।
हैहयार्थे कल्पिता सा पित्रेति मम साम्प्रतम्
॥३८॥हैहयो नाम राजाहं नान्योऽस्ति पृथिवीपतिः ।
मदर्थे कथिता सा किं सखी तव सुलोचना
॥३९॥एतन्मे संशयं सुभ्रु छेत्तुमर्हसि भामिनि ।
अहं तामानयिष्यामि तं हत्वा राक्षसाधमम्
॥४०॥स्थानं दर्शय मे तस्य यदि जानासि सुव्रते ।
राज्ञे निवेदितं किं वा तत्पित्रे चातिदुःखिता
॥४१॥यस्यैषा वल्लभा पुत्री न किं जानाति तां हृताम् ।
नोद्यमः किं कृतस्तेन ततो मोचनहेतवे
॥४२॥बन्दीकृतां सुतां ज्ञात्वा कथं तिष्ठति सुस्थिरः ।
असमर्थो नृपः किं वा कारणं ब्रूहि सत्वरम्
॥४३॥त्वया मेऽपहृतं चेतो गुणानुक्त्वा ह्यमानुषान् ।
सख्याः पङ्कजपत्राक्षि कृतः कामवशो भृशम्
॥४४॥कदा पश्यामि तां कान्तां मोचयित्वातिसङ्कटात् ।
इति मे हृदयं चाद्य करोत्यतिमनोरथम्
॥४५॥ब्रूहि मे गमनोपायं पुरे तस्यातिदुर्गमे ।
कथं त्वमागता तस्मात्सङ्कटादत्र तद्वद
॥४६॥यशोवत्युवाच
बालभावान्मया मन्त्रो भगवत्या विशांपते ।
प्राप्तोऽस्ति ब्राह्मणात्सिद्धात्सबीजध्यानपूर्वकः
॥४७॥तत्रावस्थितया राजन् मया चित्ते विचारितम् ।
आराधयामि सततं चण्डिकां चण्डविक्रमाम्
॥४८॥सा देवी सेविता कामं बन्धमोक्षं करिष्यति ।
भक्तानुकम्पिनी शक्तिः समर्था सर्वसाधने
॥४९॥या विश्वं सृजते शक्त्या पालयत्येव सा पुनः ।
कल्पान्ते संहरत्येव निराकारा निराश्रया
॥५०॥इति सञ्चिन्त्य मनसा देवीं विश्वेश्वरीं शिवाम् ।
ध्यात्वा रक्ताम्बरां सौम्यां सुरक्तनयनां हृदि
॥५१॥संस्मृत्य मनसा रूपं मन्त्रजाप्यपराभवम् ।
उपासिता मया देवी मासमेकं समाधिना
॥५२॥स्वप्ने मम समायाता भक्तिभावेन तोषिता ।
मामाहामृतया वाचा किं सुप्तासीति चण्डिका
॥५३॥उत्तिष्ठ याहि तरसा गङ्गातीरं मनोहरम् ।
आगमिष्यति तत्रासौ हैहयो नृपपुङ्गवः
॥५४॥एकवीरो महाबाहुः सर्वशत्रुविमर्दनः ।
दत्तात्रेयेण मन्मन्त्रो महाविद्याभिधः परः
॥५५॥दत्तोऽस्मै सोऽपि सततं मामुपास्तेऽतिभक्तितः ।
मय्यासक्तमतिर्नित्यं मम पूजापरायणः
॥५६॥मामेव सर्वभूतेषु ध्यायन्नास्ते च मत्परः ।
स ते दुःखविनाशं वै करिष्यति महामतिः
॥५७॥मासुतो विहरंस्तत्र तव त्राता भविष्यति ।
हत्वा तं राक्षसं घोरं मोचयिष्यति मानिनीम्
॥५८॥एकावलीमेकवीरः सर्वशास्त्रविशारदः ।
पश्चात्सैव पतिः कार्यस्त्वया राजसुतः शुभः
॥५९॥इत्युक्त्वान्तर्दधे देवी प्रबुद्धाहं तदैव हि ।
कथितं स्वप्नवृत्तान्तं देव्याश्चाराधनं तथा
॥६०॥प्रसन्नवदना जाता श्रुत्वा सा कमलेक्षणा ।
विशेषेण च सन्तुष्टा मामुवाच शुचिस्मिता
॥६१॥गच्छ तत्र त्वरायुक्ता कुरु कार्यं मम प्रिये ।
सत्यवाक्या भगवती सावां मोक्षं विधास्यति
॥६२॥इत्याज्ञप्ता तया चाहं सख्या वै प्रेमयुक्तया ।
मत्वोपसरणं युक्तं तस्मात्स्थानात्तदा नृप
॥६३॥चालिताहं ततः शीघ्रं महादेवीप्रसादतः ।
मार्गज्ञानं शीघ्रगतिर्मया प्राप्ता नृपात्मज
॥६४॥इत्येतत्कथितं सर्वं कारणं मम दुःखजम् ।
कस्त्वं कस्य सुतश्चेति वद वीर यथा तथा
॥६५॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयैकवीराय यशोवत्यैकावलीमोचनाय देवीस्वप्नवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥