दमयन्तीविवाहप्रस्ताववर्णनम्
व्यास उवाच
इति मे वचनं श्रुत्वा नारदः परमार्थवित् ।
मामाह च स्मितं कृत्वा पृच्छन्तं मोहकारणम्
॥१॥नारद उवाच
पाराशर्य पुराणज्ञ किं पृच्छसि सुनिश्चयम् ।
संसारेऽस्मिन्विना मोहं कोऽपि नास्ति शरीरवान्
॥२॥ब्रह्माविष्णुस्तथा रुद्रः सनकः कपिलस्तथा ।
मायया वेष्टिताः सर्वे भ्रमन्ति भववर्त्मनि
॥३॥ज्ञानिनं मां जनो वेत्ति भ्रान्तोऽहं सर्वलोकवत् ।
शृणु मे पूर्ववृत्तान्तं प्रब्रवीमि सुनिश्चितम्
॥४॥दुःखं मया यथा पूर्वमनुभूतं महत्तरम् ।
स्वकृतेन च मोहेन भार्यार्थे वासवीसुत
॥५॥एकदा पर्वतश्चाहं देवलोकान्महीतलम् ।
प्राप्तो विलोकनार्थाय भारतं खण्डमुत्तमम्
॥६॥भ्रमन्तौ सहितावुर्व्यां पश्यन्तौ तीर्थमण्डलम् ।
पावनानि च स्थानानि मुनीनामाश्रमाञ्छुभान्
॥७॥शपथं देवलोकात्तु कृत्वा पूर्वं परस्परम् ।
चलितौ समयं चेमं सम्मन्त्र्य निश्चयेन वै
॥८॥चित्तवृत्तिस्तु वक्तव्या यादृशी यस्य जायते ।
शुभा वाप्यशुभा वापि न गोप्तव्या कदाचन
॥९॥भोजनेच्छा धनेच्छापि रतीच्छा वा भवेदपि ।
यादृशी यस्य चित्ते तु कथनीया परस्परम्
॥१०॥इत्यावां समयं कृत्वा स्वर्गाद्भूलोकमागतौ ।
एकचित्तौ मुनीभूतौ विचरन्तौ यथेच्छया
॥११॥एवं भ्रमन्तौ लोकेऽस्मिन्ग्रीष्मान्ते समुपागते ।
सञ्जयस्य पुरं रम्यं सम्प्राप्तौ नृपते पुनः
॥१२॥तेन सम्पूजितौ भक्त्या राज्ञा सम्मानितौ भृशम् ।
स्थितौ तत्र गृहे तस्य चातुर्मास्यं महात्मनः
॥१३॥वार्षिकाश्चतुरो मासा दुर्गमाः पथि सर्वदा ।
तस्मादेकत्र विबुधैः स्थातव्यमिति निश्चयः
॥१४॥अष्टौ मासांस्तु प्रवसेत्सदा कार्यवशाद्द्विजः ।
वर्षाकाले न गन्तव्यं प्रवासे सुखमिच्छता
॥१५॥इति सञ्चिन्त्य मनसा सञ्जयस्य गृहे तदा ।
संस्थितौ मानितौ राज्ञा कृतातिथ्यौ महात्मना
॥१६॥दमयन्तीति विख्याता तस्य पुत्री महीपतेः ।
आज्ञप्ता परिचर्यार्थं सुदती सुन्दरी भृशम्
॥१७॥विवेकज्ञा विशालाक्षी राजपुत्री कृतोद्यमा ।
सेवनं सर्वकाले च व्यदधादुभयोरपि
॥१८॥स्नानार्थमुदकं काले भोजनं मृष्टमायतम् ।
मुखवासं तथा चान्यं यदिष्टं तद्ददाति सा
॥१९॥मनोऽभिलषितान्कामानुभयोरपि कन्यका ।
व्यजनासनशय्यादीन्वाञ्छितानप्यकल्पयत्
॥२०॥एवं संसेव्यमानौ तु स्थितौ राज्ञो गृहे किल ।
वेदाध्ययनसंशीलावावां वेदव्रते रतौ
॥२१॥अहं वीणां करे कृत्वा साधयित्वा स्वरोत्तमम् ।
गायत्रं साम सुस्वादमगां कर्णरसायनम्
॥२२॥राजपुत्री तु तच्छ्रुत्वा सामगानं मनोहरम् ।
बभूव मयि रागाढ्या प्रीतियुक्ता विशारदा
॥२३॥दिने दिनेऽनुरागोऽस्या मयि वृद्धिं गतः परः ।
ममापि प्रीतियुक्तायां मनो जातं स्पृहापरम्
॥२४॥मम तस्य च सा कन्या भोजनादिषु कर्हिचित् ।
अकरोदन्तरं किञ्चित्सेवाभेदं रसान्विता
॥२५॥स्नानायोष्णजलं मह्यं पर्वताय च शीतलम् ।
दधि मह्यं तथा तक्रं पर्वतायाप्यकल्पयत्
॥२६॥शयनास्तरणं शुभ्रं मदर्थे पर्यकल्पयत् ।
प्रीत्या परमया यद्वत्पर्वताय न तादृशम्
॥२७॥विलोकयति मां प्रेम्णा सुन्दरी न च पर्वतम् ।
ततोऽस्यास्तादृशं दृष्ट्वा पर्वतः प्रेमकारणम्
॥२८॥मनसा चिन्तयामास किमेतदिति विस्मितः ।
पप्रच्छ मां रहः सम्यग्ब्रूहि नारद सर्वथा
॥२९॥राजपुत्री त्वयि प्रेम करोति मुदिता भृशम् ।
ददाति भक्ष्यभोज्यानि स्नेहयुक्ता समन्ततः
॥३०॥न तथा मयि भेदोऽत्र सन्देहं जनयत्यसौ ।
मन्यते त्वां पतिं कर्तुं सर्वथा सञ्जयात्मजा
॥३१॥तवापि तादृशं भावं जानामि लक्षणैरहम् ।
नेत्रवक्त्रविकारैश्च ज्ञायते प्रीतिकारणम्
॥३२॥सत्यं वद न ते मिथ्या वक्तव्यं वचनं मुने ।
स्वर्गतः समयं कृत्वा चलितौ संस्मराधुना
॥३३॥नारद उवाच
पृष्टोऽहं पर्वतेनेदं कारणं तु हठाद्यदा ।
तदाहं ह्रीसमाक्रान्तः सञ्जातश्चाब्रुवं पुनः
॥३४॥पर्वतैषा विशालाक्षी पतिं मां कर्तुमुद्यता ।
ममापि मानसो भावो वर्ततेऽस्यां विशेषतः
॥३५॥तच्छ्रुत्वा वचनं सत्यं पर्वतः कोपसंयुतः ।
मामुवाच मुनिर्वाक्यं धिग्धिगिति पुनः पुनः
॥३६॥प्रथमं शपथान्कृत्वा वञ्चितोऽहं त्वया यतः ।
भव वानरवक्त्रस्त्वं शापाच्च मम मित्रधुक्
॥३७॥इति शप्तस्तु तेनाहं कुपितेन महात्मना ।
सहसा ह्यभवं क्रूरः शाखामृगमुखस्तदा
॥३८॥मयापि न कृता तस्मिन्क्षमा तु भगिनीसुते ।
सोऽपि शप्तोऽतिकोपाद्वै मा स्वर्गे ते गतिः किल
॥३९॥स्वल्पेऽपराधे यस्मान्मां शप्तवानसि पर्वत ।
तस्मात्तवापि मन्दात्मन् मृत्युलोके स्थितिः किल
॥४०॥पर्वतस्तु गतस्तस्मान्नगराद्विमना भृशम् ।
अहं वानरवक्त्रस्तु सञ्जातस्तत्क्षणादपि
॥४१॥दृष्ट्वा मां वानरं क्रूरं राजपुत्री विलक्षणा ।
विमनातीव सञ्जाता वीणाश्रवणलालसा
॥४२॥व्यास उवाच
ततः किमभवद्ब्रह्मन् कथं शापान्निवर्तितः ।
मानुषास्यः पुनर्जातो भवान्ब्रूहि यथाविधि
॥४३॥पर्वतः क्व गतो भूयः सङ्गमो युवयोरभूत् ।
कदा कुत्र कथं सर्वं विस्तरेण वदस्व ह
॥४४॥नारद उवाच
किं ब्रवीमि महाभाग मायायाश्चरितं महत् ।
दुःखितोऽहं भृशं तत्र पर्वते रुषिते गते
॥४५॥पुनः सेवापरात्यर्थं राजपुत्री ममाभवत् ।
गतेऽथ पर्वते कामं स्थितस्तत्रैव सद्मनि
॥४६॥अहं दुःखान्वितो दीनस्तथा वानरवन्मुखः ।
विशेषेण तु चिन्तार्तः किं मे स्यादिति चिन्तयन्
॥४७॥सञ्जयोऽथ सुतां दृष्ट्वा किञ्चित्प्रकटयौवनाम् ।
विवाहार्थे राजसुतामपृच्छत्सचिवं तदा
॥४८॥विवाहकालः सम्प्राप्तः सुताया मम साम्प्रतम् ।
योग्यं वरं मम ब्रूहि राजपुत्रं सुसम्मतम्
॥४९॥रूपौदार्यगुणैर्युक्तं शूरं सुकुलसम्भवम् ।
विवाहं विधिवत्पुत्र्याः करोमि किल साम्प्रतम्
॥५०॥प्रधानस्त्वब्रवीद्राजन् राजपुत्रा ह्यनेकशः ।
वर्तन्ते भुवि पुत्र्यास्ते योग्याः सर्वगुणान्विताः
॥५१॥यस्मिन् रुचिस्ते राजेन्द्र तमाहूय नृपात्मजम् ।
देहि कन्यां धनं भूरि हस्त्यश्वरथसंयुतम्
॥५२॥नारद उवाच
पितुश्चिकीर्षितं ज्ञात्वा दमयन्ती तदा नृपम् ।
धात्र्या मुखेन वाक्यज्ञा तमुवाच रहः स्थितम्
॥५३॥धात्र्युवाच
दमयन्ती महाराज पुत्री ते मामथाब्रवीत् ।
पितरं ब्रूहि धात्रेयि वचनान्मे सुखान्वितम्
॥५४॥मया वृतोऽथ मेधावी नारदो महतीयुतः ।
नादमोहितया कामं नान्यः कोऽपि प्रियो मम
॥५५॥कुरु मे वाञ्छितं तात विवाहं मुनिना सह ।
नान्यं वरिष्ये धर्मज्ञ नारदं तु पतिं विना
॥५६॥मग्नाहं नादसिन्धौ वै नक्रहीने रसात्मके ।
अक्षारे सुखसम्पूर्णे तिमिङ्गिलविवर्जिते
॥५७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे दमयन्तीविवाहप्रस्ताववर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥