ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम्
व्यास उवाच
कृतस्वस्त्ययनो वृत्रो ब्राह्मणैर्वेदपारगैः ।
निर्जगाम रथारूढो हन्तुं शक्रं महाबलः
॥१॥तदैव राक्षसाः क्रूराः पुरा देवपराजिताः ।
समाजग्मुश्च सेवार्थं वृत्रं ज्ञात्वा महाबलम्
॥२॥इन्द्रदूतास्तु तं दृष्ट्वा युद्धाय तु समागतम् ।
वेगादागत्य वृत्तान्तं शशंसुस्तस्य चेष्टितम्
॥३॥दूता ऊचुः
स्वामिञ्छीघ्रमिहायाति वृत्रो नाम रिपुस्तव ।
बलवान्स्यन्दने रूढस्त्वष्ट्रा चोत्पादितः किल
॥४॥अविचारेण नाशार्थं तव क्रोधान्वितेन वै ।
पुत्रघाताभितप्तेन दुःसहो राक्षसैर्युतः
॥५॥यत्नं कुरु महाभाग शीघ्रमायाति साम्प्रतम् ।
मेरुमन्दरसंकाशो घोरशब्दोऽतिदारुणः
॥६॥एतस्मिन्नन्तरे तत्र भीता देवगणा भृशम् ।
आगत्योचुः सुरपतिं शृण्वन्तं दूतभाषितम्
॥७॥गणाः ऊचुः
मघवन् दुर्निमित्तानि भवन्ति त्रिदशालये ।
बहूनि भयशंसीनि पक्षिणां विरुतानि च
॥८॥काकगृध्रास्तथा श्येनाः कङ्काद्या दारुणाः खगाः ।
रुदन्ति विकृतैः शब्दैरुत्कारैर्भवनोपरि
॥९॥चीचीकूचीति निनदान् कुर्वन्ति विहगा भृशम् ।
वाहनानां च नेत्रेभ्यो जलधाराः पतन्त्यधः
॥१०॥श्रूयतेऽतिमहाञ्छब्दो रुदतीनां निशासु च ।
राक्षसीनां महाभाग भवनोपरि दारुणः
॥११॥प्रपतन्ति ध्वजास्तूर्णं विना वातेन मानद ।
प्रभवन्ति महोत्पाता दिवि भूम्यन्तरिक्षजाः
॥१२॥कृष्णाम्बरधरा नार्यो भ्रमन्ति च गृहे गृहे ।
यान्तु यान्तु गृहात्तूर्णं कुर्वन्त्यो विकृताननाः
॥१३॥रात्रौ स्वप्नेषु कान्तानां सुप्तानां निजमन्दिरे ।
केशाँल्लुनन्ति राक्षस्यो भीषयन्त्यो भृशातुराः
॥१४॥एवंविधानि देवेश भूकम्पोल्कादयस्तथा ।
गोमायवो रुदन्ति स्म निशायां भवनाङ्गणे
॥१५॥सरटानां च जालानि प्रभवन्ति गृहे गृहे ।
अङ्गप्रस्फुरणादीनि दुर्निमित्तानि सर्वशः
॥१६॥व्यास उवाच
इति तेषां वचः श्रुत्वा चिन्तामाप सुरेश्वरः ।
बृहस्पतिं समाहूय पप्रच्छ च मनोगतम्
॥१७॥इन्द्र उवाच
ब्रह्मन् किमुत घोराणि निमित्तानि भवन्ति वै ।
वाताश्च दारुणा वान्ति प्रपतन्त्युलकाः खतः
॥१८॥सर्वज्ञोऽसि महाभाग समर्थो विघ्ननाशने ।
बुद्धिमाञ्छास्त्रतत्त्वज्ञो देवतानां गुरुस्तथा
॥१९॥कुरु शान्तिं विधानज्ञ शत्रुक्षयविधायिनीम् ।
यथा मे न भवेद्दुःखं तथा कार्यं विधीयताम्
॥२०॥बृहस्पतिरुवाच
किं करोमि सहस्राक्ष त्वयाद्य दुष्कृतं कृतम् ।
अनागसं मुनिं हत्वा किं फलं समुपार्जितम्
॥२१॥अत्युग्रं पुण्यपापानां फलं भवति सत्वरम् ।
विचार्य खलु कर्तव्यं कार्यं तद्भूतिमिच्छता
॥२२॥परोपतापनं कर्म न कर्तव्यं कदाचन ।
न सुखं विन्दते प्राणी परपीडापरायणः
॥२३॥मोहाल्लोभाद्ब्रह्महत्या कृता शक्र त्वयाधुना ।
तस्य पापस्य सहसा फलमेतदुपागतम्
॥२४॥अवध्यः सर्वदेवानां जातोऽसौ वृत्रसंज्ञकः ।
हन्तुं त्वां स समायाति दानवैर्बहुभिर्वृतः
॥२५॥आयुधानि च सर्वाणि वज्रतुल्यानि वासव ।
त्वष्ट्रा दत्तानि दिव्यानि गृहीत्वा समुपस्थितः
॥२६॥समागच्छति दुर्धर्षो रथारूढः प्रतापवान् ।
देवेन्द्र प्रलयं कुर्वन्नास्य मृत्युर्भविष्यति
॥२७॥कोलाहलस्तदा जातस्तथा ब्रुवति वाक्पतौ ।
गन्धर्वाः किन्नरा यक्षा मुनयश्च तपोधनाः
॥२८॥सदनानि विहायैवामराः सर्वे पलायिताः ।
तद्दृष्ट्वा महदाश्चर्यं शक्रश्चिन्तापरायणः
॥२९॥आज्ञापयामास तदा सेनोद्योगाय सेवकान् ।
आनयध्वं वसून् रुद्रानश्विनौ च दिवाकरान्
॥३०॥पूषणं च भगं वायुं कुबेरं वरुणं यमम् ।
विमानेषु समारुह्य सायुधाः सुरसत्तमाः
॥३१॥समागच्छन्तु तरसा शत्रुरायाति साम्प्रतम् ।
इत्याज्ञाप्य सुरपतिः समारुह्य गजोत्तमम्
॥३२॥बृहस्पतिं पुरोधाय निर्गतो निजमन्दिरात् ।
तथैव त्रिदशाः सर्वे स्वं स्वं वाहनमास्थिताः
॥३३॥युद्धाय कृतसंकल्पा निर्ययुः शस्त्रपाणयः ।
वृत्रोऽथ दानवैर्युक्तः सम्प्राप्तो मानसोत्तरम्
॥३४॥पर्वतं देवतावासं रम्यं पादपशोभितम् ।
इन्द्रोऽप्यागत्य संग्रामं चकार मानसोत्तरे
॥३५॥पर्वते देवतायुक्तो वाचस्पतिपुरःसरः ।
तत्राभूद्दारुणं युद्धं वृत्रवासवयोस्तदा
॥३६॥गदासिपरिघैः पाशैर्बाणैः शक्तिपरश्वधैः ।
मानुषेण प्रमाणेन संग्रामः शरदां शतम्
॥३७॥बभूव भयदो नॄणामृषीणां भावितात्मनाम् ।
वरुणः प्रथमं भग्नस्ततो वायुगणः किल
॥३८॥यमो विभावसुः शक्रः सर्वे ते निर्गता रणात् ।
पलायनपरान् दृष्ट्वा देवानिन्द्रपुरोगमान्
॥३९॥वृत्रोऽपि पितरं प्रागादाश्रमस्थं मुदान्वितम् ।
प्रणम्य प्राह त्वष्टारं पितः कार्यं मया कृतम्
॥४०॥देवा विनिर्जिताः सर्वे सेन्द्राः समरसंस्थिताः ।
विद्रुतास्ते गताः स्थानं यथा सिंहान्मृगा गजाः
॥४१॥इन्द्रः पदातिरगमन्मयानीतो गजोत्तमः ।
ऐरावतोऽयं भगवन् गृहाण द्विरदोत्तमम्
॥४२॥न हतास्ते मया यस्मादयुक्तं भीतमारणम् ।
आज्ञापय पुनस्तात किं करोमि तवेप्सितम्
॥४३॥निर्जरा निर्गताः सर्वे भयभीता श्रमातुराः ।
इन्द्रोऽप्यैरावतं त्यक्त्वा भयभीतः पलायितः
॥४४॥व्यास उवाच
इति पुत्रवचः श्रुत्वा त्वष्टा प्राह मुदान्वितः ।
पुत्रवानद्य जातोऽस्मि सफलं मम जीवितम्
॥४५॥त्वयाहं पावितः पुत्र गतो मे मानसो ज्वरः ।
निश्चलं मे मनो जातं दृष्ट्वा वीर्यं तवाद्भुतम्
॥४६॥शृणु वक्ष्याम्यहं पुत्र हितं तेऽद्य निशामय ।
तपः कुरु महाभाग सावधानः स्थिरासनः
॥४७॥विश्वासो नैव कर्तव्यः केषाञ्चित्पाकशासनः ।
शत्रुस्ते छलकर्तास्ति नानाभेदविशारदः
॥४८॥तपसा प्राप्यते लक्ष्मीस्तपसा राज्यमुत्तमम् ।
तपसा बलवृद्धिः स्यात्संग्रामे विजयस्तथा
॥४९॥आराध्य द्रुहिणं देवं लब्ध्वा वरमनुत्तमम् ।
जहि शक्रं दुराचारं ब्रह्महत्यासमावृतम्
॥५०॥सावधानः स्थिरो भूत्वा दातारं भज शङ्करम् ।
वाञ्छितं स वरं दद्यात्सन्तुष्टश्चतुराननः
॥५१॥तोषयित्वा विश्वयोनिं ब्रह्माणममितौजसम् ।
अविनाशित्वमासाद्य जहि शक्रं कृतागसम्
॥५२॥वैरं मनसि मे पुत्र वर्तते सुतघातजम् ।
न शान्तिमनुगच्छामि न स्वपामि सुखेन ह
॥५३॥तापसो मे हतः पुत्रो निरागाः पाप्मना यतः ।
न विन्दामि सुखं वृत्र त्वं मामुद्धर दुःखितम्
॥५४॥व्यास उवाच
तदाकर्ण्य पितुर्वाक्यं वृत्रः क्रोधयुतस्तदा ।
आज्ञामादाय च पितुर्जगाम तपसे मुदा
॥५५॥गन्धमादनमासाद्य पुण्यां देवधुनीं शुभाम् ।
स्नात्वा कुशासनं कृत्वा संस्थितश्च स्थिरासनः
॥५६॥त्यक्त्वान्नं वारिपानं च योगाभ्यासपरायणः ।
ध्यायन्विश्वसृजं चित्ते सोपविष्टः स्थिरासने
॥५७॥मघवा तं तपस्यन्तं ज्ञात्वा चिन्तातुरो ह्यभूत् ।
गन्धर्वान्प्रेषयामास विघ्नार्थं पाकशासनः
॥५८॥यक्षांश्च पन्नगान्सर्पान्किन्नरानमितौजसः ।
विद्याधरानप्सरसो देवदूताननेकशः
॥५९॥उपायास्तैः कृताः सम्यक् तपोविघ्नाय मायिभिः ।
न चचाल ततो ध्यानात्त्वाष्ट्रः परमतापसः
॥६०॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥