पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम्
व्यास उवाच
तस्यै दत्त्वा वरं शम्भुः कैलासं त्वरितो ययौ ।
रम्यं देवगणैर्जुष्टमप्सरोभिश्च मण्डितम्
॥१॥तत्र गत्वा चित्ररूपं गणं कार्यविशारदम् ।
प्रेषयामास वैकुण्ठे लक्ष्मीकार्यार्थसिद्धये
॥२॥शिव उवाच
चित्ररूप हरिं गत्वा ब्रूहि त्वं वचनान्मम ।
यथासौ दुःखितां पत्नीं विशोकां च करिष्यति
॥३॥इत्युक्तश्चित्ररूपोऽथ निर्जगाम त्वरान्वितः ।
वैकुण्ठं परमं स्थानं वैष्णवैश्च गणैर्वृतम्
॥४॥नानाद्रुमगणाकीर्णं वापीशतविराजितम् ।
संजुष्टं हंसकारण्डमयूरशुककोकिलैः
॥५॥उच्चप्रासादसंयुक्तं पताकाभिरलंकृतम् ।
नृत्यगीतकलापूर्णं मन्दारद्रुमसंयुतम्
॥६॥बकुलाशोकतिलकचम्पकालिविमण्डितम् ।
कूजितैर्विहगानां तु कर्णाह्लादकरैर्युतम्
॥७॥संवीक्ष्य भवनं विष्णोर्द्वास्थौ प्राह प्रणम्य च ।
जयविजयनामानौ वेत्रपाणी स्थितावुभौ
॥८॥चित्ररूप उवाच
भो निवेदयत शीघ्रं हरये परमात्मने ।
दूतं प्राप्यं हरस्यात्र प्रेरितं शूलपाणिना
॥९॥तच्छ्रुत्वा वचनं तस्य जयः परमबुद्धिमान् ।
गत्वा हरिं प्रणम्याह कृताञ्जलिपुटः पुरः
॥१०॥देवदेव रमाकान्त करुणाकर केशव ।
द्वारि तिष्ठति दूतोऽत्र शङ्करस्य समागतः
॥११॥आज्ञापय प्रवेष्टव्यो न वेति गरुडध्वज ।
चित्ररूपधरोऽप्यस्ति न जाने कार्यगौरवम्
॥१२॥इत्याकर्ण्य हरिः प्राह जयं प्रज्ञातकारणः ।
प्रवेशयात्र रुद्रस्य भृत्यं समयसंस्थितम्
॥१३॥इत्याकर्ण्य जयस्तूर्णं गत्वा तं परमाद्भुतम् ।
एहीत्याकारयामास जयः शङ्करसेवकम्
॥१४॥प्रवेशितो जयेनाथ चित्ररूपस्तथाकृतिः ।
प्रणम्य दण्डवद्विष्णुं कृताञ्जलिपुटः स्थितः
॥१५॥दृष्ट्वा तं विस्मयं प्राप भगवान् गरुडध्वजः ।
चित्ररूपधरं शम्भोः सेवकं विनयान्वितम्
॥१६॥पप्रच्छ तं स्मितं कृत्वा चित्ररूपं रमापतिः ।
कुशलं देवदेवस्य सकुटुम्बस्य चानघ
॥१७॥कस्मात्त्वं प्रेषितोऽस्यत्र ब्रूहिकार्यं हरस्य किम् ।
अथवा देवतानां च किञ्चित्कार्यं समुत्थितम्
॥१८॥दूत उवाच
किमज्ञातं तवास्तीह संसारे गरुडध्वज ।
वर्तमानं त्रिकालज्ञ यदहं प्रब्रवीमि वै
॥१९॥प्रेषितोऽस्मि भवेनात्र विज्ञस्तु त्वां जनार्दन ।
हरस्य वचनाद्वाक्यं प्रब्रवीमि त्वयि प्रभो
॥२०॥तेनोक्तमेतद्देवेश भार्या ते कमलालया ।
तपस्तपति कालिन्दीतमसासङ्गमे विभो
॥२१॥हयीरूपधरा देवी सर्वार्थसिद्धिदायिनी ।
ध्यातुं योग्यामरगणैर्मानवैर्यक्षकिन्नरैः
॥२२॥विना तया नरः कोऽपिसुखभागी भवेन्न हि ।
तां त्यक्त्वा पुण्डरीकाक्ष प्राप्नोषि किं सुखं हरे
॥२३॥दुर्बलोऽपि स्त्रियं पाति निर्धनोऽपि जगत्पते ।
विनापराधं च विभो किं त्यक्ता जगदीश्वरी
॥२४॥दुःखं प्राप्नोति संसारे यस्य भार्या जगद्गुरो ।
धिक्तस्य जीवितं लोके निन्दितं त्वरिमण्डले
॥२५॥सकामा रिपवस्तेऽद्य दृष्ट्वा तां दुःखिता भृशम् ।
त्वां वियुक्तं च रमया हसिष्यन्ति दिवानिशम्
॥२६॥रमां रमय देवेश त्वदुत्सङ्गगतां कुरु ।
सर्वलक्षणसम्पन्नां सुशीलां च सुरूपिणीम्
॥२७॥सुखितो भव तां प्राप्य वल्लभां चारुहासिनीम् ।
कान्ताविरहजं दुःखं स्मराम्यहमनातुरः
॥२८॥मम भार्या मृता विष्णो दक्षयज्ञे सती यदा ।
तदाहं दुःसहं दुःखं भुक्तवानम्बुजेक्षण
॥२९॥संसारेऽस्मिन्नरः कोऽपि माभून्मत्सदृशोऽपरः ।
मनसाकरवं शोकं तस्या विरहपीडितः
॥३०॥कालेन महता प्राप्ता मया गिरिसुता पुनः ।
तपस्तप्त्वातिदुःसाध्यं या दग्धा तु रुषाध्वरे
॥३१॥हरे किं सुखमापन्नं त्वया सन्त्यज्य कामिनीम् ।
एकाकी तिष्ठता कालं सहस्रवत्सरात्मकम्
॥३२॥गत्वाश्वास्य महाभागां समानय निजालयम् ।
माभूत्कोऽपीह संसारे विमुक्तो रमया तया
॥३३॥कृत्वा तुरगरूपं त्वं भज तां कमलालयाम् ।
उत्पाद्य पुत्रमायुष्मंस्तामानय शुचिस्मिताम्
॥३४॥व्यास उवाच
हरिराकर्ण्य तद्वाक्यं चित्ररूपस्य भारत ।
तथेत्युक्त्वा तु तं दूतं प्रेषयामास शङ्करम्
॥३५॥गते दूतेऽथ भगवान्वैकुण्ठात्कामसंयुतः ।
जगाम धृत्वा तत्राशु वाजिरूपं मनोहरम्
॥३६॥यत्र सा वडवारूपं कृत्वा तपति सिन्धुजा ।
विष्णुस्तं देशमासाद्य तामपश्यद्धयीं स्थिताम्
॥३७॥सापि तं वीक्ष्य गोविन्दं हयरूपधरं पतिम् ।
ज्ञात्वा वीक्ष्य स्थिता साध्वी विस्मिता साश्रुलोचना
॥३८॥तयोस्तु सङ्गमस्तत्र प्रवृत्तो मन्मथार्तयोः ।
कालिन्दीतमसासङ्गे पावने लोकविश्रुते
॥३९॥सगर्भा सा तदा जाता वडवा हरिवल्लभा ।
सुषुवे सुन्दरं बालं तत्रैव सुगुणोत्तरम्
॥४०॥तामाह भगवान्वाक्यं प्रहस्य समयाश्रितम् ।
त्यजाद्य वाडवं देहं पूर्वदेहा भवाधुना
॥४१॥गमिष्यावः स्ववैकुण्ठमावां कृत्वा निजं वपुः ।
तिष्ठत्वत्र कुमारोऽयं त्वया जातः सुलोचने
॥४२॥लक्ष्मीरुवाच
स्वदेहसम्भवं पुत्रं कथं हित्वा व्रजाम्यहम् ।
स्नेहः सुदुस्त्यजः कामं स्वात्मजस्य सुरर्षभ
॥४३॥का गतिः स्यादमेयात्मन् बालस्यास्य नदीतटे ।
अनाथस्यासमर्थस्य विजनेऽल्पतनोरिह
॥४४॥अनाश्रयं सुतं त्यक्त्वा कथं गन्तुं मनो मम ।
समर्थं सदयं स्वामिन् भवेदम्बुजलोचन
॥४५॥दिव्यदेहौ ततो जातौ लक्ष्मीनारायणावुभौ ।
विमानवरसंविष्टौ स्तूयमानौ सुरैर्दिवि
॥४६॥गन्तुकामं पतिं प्राह कमला कमलापतिम् ।
गृहाणेमं सुतं नाथ नाहं शक्तास्मि हापितुम्
॥४७॥प्राणप्रियोऽस्ति मे पुत्रः कान्त्या त्वत्सदृशः प्रभो ।
गृहीत्वैनं गमिष्यावो वैकुण्ठं मधुसूदन
॥४८॥हरिरुवाच
मा विषादं प्रिये कर्तुं त्वमर्हसि वरानने ।
तिष्ठत्वयं सुखेनात्र रक्षा मे विहिता त्विह
॥४९॥कार्यं किमपि वामोरु वर्तते महदद्भुतम् ।
निबोध कथयाम्यद्य सुतस्यात्र विमोचने
॥५०॥तुर्वसुर्नाम विख्यातो ययातितनुजो भुवि ।
हरिवर्मेति पित्रास्य कृतं नाम सुविश्रुतम्
॥५१॥स राजा पुत्रकामोऽद्य तपस्तपति पावने ।
तीर्थे वर्षशतं जातं तस्य वै कुर्वतस्तपः
॥५२॥तस्यार्थे निर्मितः पुत्रो मयायं कमलालये ।
तत्र गत्वा नृपं सुभ्रु प्रेरयिष्यामि साम्प्रतम्
॥५३॥तस्मै दास्याम्यहं पुत्रं पुत्रकामाय कामिनि ।
गृहीत्वा स्वगृहं राजा प्रापयिष्यति बालकम्
॥५४॥व्यास उवाच
इत्याश्वास्य प्रियां पद्मां कृत्वा रक्षां च बालके ।
विमानवरमारुह्य प्रययौ प्रियया सह
॥५५॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥