मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय २४

3
षष्ठस्कन्धः · 24

अम्बिकायाः नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनम्

राजोवाच

भगवंस्त्वन्मुखाम्भोजाच्च्युतं दिव्यकथारसम् ।

न तृप्तिमधिगच्छामि पिबंस्तु सुधया समम्

॥१॥

विचित्रमिदमाख्यानं कथितं भवता मम ।

हैहयानां समुत्पत्तिर्विस्तराद्विस्मयप्रदा

॥२॥

परं कौतूहलं मेऽत्र यद्विष्णुः कमलापतिः ।

देवदेवो जगन्नाथः सृष्टिस्थित्यन्तकारकः

॥३॥

सोऽप्यश्वभावमापन्नो भगवान्हरिरच्युतः ।

परतन्त्रः कथं जातः स्वतन्त्रः पुरुषोत्तमः

॥४॥

एतन्मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् ।

सर्वज्ञस्त्वं मुनिश्रेष्ठ ब्रूहि वृत्तान्तमद्भुतम्

॥५॥

व्यास उवाच

शृणु राजन् प्रवक्ष्यामि सन्देहस्यास्य निर्णयम् ।

यथा श्रुतं मया पूर्वं नारदान्मुनिसत्तमात्

॥६॥

ब्रह्मणो मानसः पुत्रो नारदो नाम तापसः ।

सर्वज्ञः सर्वगः शान्तः सर्वलोकप्रियः कविः

॥७॥

स चैकदा मुनिश्रेष्ठो विचरन्पृथिवीमिमाम् ।

वादयन्महतीं वीणां स्वरतानसमन्विताम्

॥८॥

बृहद्रथन्तरादीनां साम्नां भेदाननेकशः ।

गायन्गायत्रममृतं सम्प्राप्तोऽथ ममाश्रमम्

॥९॥

शम्याप्रासं महातीर्थं सरस्वत्याः सुपावनम् ।

निवासं मुनिमुख्यानां शर्मदं ज्ञानदं तथा

॥१०॥

तमागतमहं प्रेक्ष्य ब्रह्मपुत्रं महाद्युतिम् ।

अभ्युत्थानादिकं सर्वं कृतवानर्चनादिकम्

॥११॥

अर्घ्यपाद्यविधिं कृत्वा तस्यासनस्थितस्य च ।

उपविष्टः समीपेऽहं मुनेरमिततेजसः

॥१२॥

दृष्ट्वा विश्रमिणं शान्तं नारदं ज्ञानपारदम् ।

तमपृच्छमहं राजन् यत्पृष्टोऽहं त्वयाधुना

॥१३॥

असारेऽस्मिंस्तु संसारे प्राणिनां किं सुखं मुने ।

न पश्यामि विनिश्चित्य कदाचित्कुत्रचित्क्वचित्

॥१४॥

द्वीपे जातो जनन्याहं संत्यक्तस्तत्क्षणादपि ।

अनाश्रयो वने वृद्धिं प्राप्तः कर्मानुसारतः

॥१५॥

तपस्तप्तं मया चोग्रं पर्वते बहुवार्षिकम् ।

पुत्रकामेन देवर्षे शङ्करः समुपासितः

॥१६॥

ततो मया शुकः प्राप्तः पुत्रो ज्ञानवतां वरः ।

पाठितस्तु मया सम्यग्वेदानां सार आदितः

॥१७॥

स त्यक्त्वा मां गतः क्वापि रुदन्तं विरहातुरम् ।

लोकाल्लोकान्तरं साधो वचनात्तव बोधितः

॥१८॥

ततोऽहं पुत्रसन्तप्तस्त्यक्त्वा मेरुं महागिरिम् ।

मातरं मनसा कृत्वा सम्प्राप्तः कुरुजाङ्गलम्

॥१९॥

पुत्रस्नेहादतितरां कृशाङ्गः शोकसंयुतः ।

जानन्मिथ्येति संसारं मायापाशनियन्त्रितः

॥२०॥

ततो राज्ञा वृतां ज्ञात्वा मातरं वासवीं शुभाम् ।

स्थितोऽत्रैवाश्रमं कृत्वा सरस्वत्यास्तटे शुभे

॥२१॥

शन्तनुः स्वर्गतिं प्राप्तो विधुरा जननी स्थिता ।

पुत्रद्वययुता साध्वी भीष्मेण प्रतिपालिता

॥२२॥

चित्राङ्गदः कृतो राजा गङ्गापुत्रेण धीमता ।

कालेन सोऽपि मे भ्राता मृतः कामसमद्युतिः

॥२३॥

ततः सत्यवती माता निमग्ना शोकसागरे ।

चित्राङ्गदं मृतं पुत्रं रुरोद भृशमातुरा

॥२४॥

सम्प्राप्तोऽहं महाभाग ज्ञात्वा तां दुःखितां सतीम् ।

आश्वासिता मयात्यर्थं भीष्मेण च महात्मना

॥२५॥

विचित्रवीर्यस्त्वपरो वीर्यवान्पृथिवीपतिः ।

कृतो भीष्मेण भ्राता वै स्त्रीराज्यविमुखेन ह

॥२६॥

काशिराजसुते रम्ये विजित्य पृथिवीपतीन् ।

भीष्मेणानीय स्वबलात्कन्यके द्वे समर्पिते

॥२७॥

सत्यवत्यै शुभे काले विवाहः परिकल्पितः ।

भ्रातुर्विचित्रवीर्यस्य तदाहं सुखितोऽभवम्

॥२८॥

पुनः सोऽपि मृतो भ्राता यक्ष्मणा पीडितो भृशम् ।

अनपत्यो युवा धन्वी माता मे दुःखिताभवत्

॥२९॥

काशिराजसुते द्वे तु मृतं दृष्ट्वा पतिं तदा ।

पतिव्रताधर्मपरे भगिन्यौ सम्बभूवतुः

॥३०॥

ते ऊचतुः सतीं श्वश्रूं रुदतीं भृशदुःखिताम् ।

पतिना सहगामिन्यौ भविष्यावो हुताशने

॥३१॥

पुत्रेण सह ते श्वश्रु स्वर्गे गत्वाथ नन्दने ।

सुखेन विहरिष्यावः पतिना सह संयुते

॥३२॥

निवारिते तदा मात्रा वध्वौ तस्मान्महोद्यमात् ।

स्नेहभावं समाश्रित्य भीष्मस्य वचनात्तदा

॥३३॥

गाङ्गेयेन च मात्रा मे सम्मन्त्र्य च परस्परम् ।

कृत्वौर्ध्वदैहिकं सर्वं संस्मृतोऽहं गजाह्वये

॥३४॥

स्मृतमात्रस्तु मात्रा वै ज्ञात्वा भावं मनोगतम् ।

तरसैवागतश्चाहं नगरं नागसाह्वयम्

॥३५॥

प्रणम्य मातरं मूर्ध्ना संस्थितोऽथ कृताञ्जलिः ।

तामब्रवं सुतप्ताङ्गीं पुत्रशोकेन कर्शिताम्

॥३६॥

मातस्त्वया किमाहूतो मनसाहं तपस्विनि ।

आज्ञापय महत्कार्ये दासोऽस्मि करवाणि किम्

॥३७॥

त्वं मे तीर्थं परं मातर्देवश्च प्रथितः परः ।

आगतश्चिन्तितश्चात्र ब्रूहि कृत्यं तव प्रियम्

॥३८॥

व्यास उवाच

इत्युक्त्वाहं स्थितस्तत्र मातुरग्रे यदा मुने ।

तदा सा मामुवाचेदं पश्यन्ती भीष्ममन्तिके

॥३९॥

पुत्र तेऽद्य मृतो भ्राता पीडितो राजयक्ष्मणा ।

तेनाहं दुःखिता जाता वंशच्छेदभयादिह

॥४०॥

तस्मात्त्वमद्य मेधाविन् मयाहूतः समाधिना ।

गाङ्गेयस्य मतेनात्र पाराशर्यार्थसिद्धये

॥४१॥

कुलं स्थापय नष्टं त्वं शन्तनोर्नामकारणात् ।

रक्ष मां दुःखतः कृष्ण वंशच्छेदोद्भवाद्द्रुतम्

॥४२॥

काशिराजसुते भार्ये भ्रातुस्तव यवीयसः ।

साधोर्विचित्रवीर्यस्य रूपयौवनभूषिते

॥४३॥

ताभ्यां सङ्गम्य मेधाविन् पुत्रोत्पादनकं कुरु ।

रक्षस्व भारतं वंशं नात्र दोषोऽस्ति कर्हिचित्

॥४४॥

व्यास उवाच

इति मातुर्वचः श्रुत्वा जातश्चिन्तातुरो ह्यहम् ।

लज्जयाऽऽकुलचित्तस्तामब्रवं विनयानतः

॥४५॥

मातः पापाधिकं कर्म परदाराभिमर्शनम् ।

ज्ञात्वा धर्मपथं सम्यक्करोमि कथमादरात्

॥४६॥

तथा यवीयसो भ्रातुर्वधूः कन्या प्रकीर्तिता ।

व्यभिचारं कथं कुर्यामधीत्य निगमानहम्

॥४७॥

अन्यायेन न कर्तव्यं सर्वथा कुलरक्षणम् ।

न तरन्ति हि संसारात्पितरः पापकारिणः

॥४८॥

लोकानामुपदेष्टा यः पुराणानां प्रवर्तकः ।

स कथं कुत्सितं कर्म ज्ञात्वा कुर्यान्महाद्भुतम्

॥४९॥

पुनरुक्तो ह्यहं मात्रा रुदत्या भृशमन्तिके ।

पुत्रशोकातितप्ता या वंशरक्षणकाम्यया

॥५०॥

पाराशर्य न ते दोषो वचनान्मम पुत्रक ।

गुरूणां वचनं तथ्यं सदोषमपि मानवैः

॥५१॥

कर्तव्यमविचार्यैव शिष्टाचारप्रमाणतः ।

वचनं कुरु मे पुत्र न ते दोषोऽस्ति मानद

॥५२॥

पुत्रस्य जननं कृत्वा सुखिनी कुरु मातरम् ।

विशेषेण तु सन्तप्तां मग्नां शोकार्णवे सुत

॥५३॥

इति तां ब्रुवतीं श्रुत्वा तदा सुरनदीसुतः ।

मामुवाच विशेषज्ञः सूक्ष्मधर्मस्य निर्णये

॥५४॥

द्वैपायन विचारोऽत्र न कर्तव्यस्त्वयानघ ।

मातुर्वचनमादाय विहरस्व यथासुखम्

॥५५॥

व्यास उवाच

इति तस्य वचः श्रुत्वा मातुश्च प्रार्थनं तथा ।

निःशङ्कोऽहं तदा जातः कार्ये तस्मिञ्जुगुप्सिते

॥५६॥

अम्बिकायां प्रवृत्तोऽहमृतुमत्यां मुदा निशि ।

मयि विमनसायां तु तापसे कुत्सिते भृशम्

॥५७॥

शप्ता मया सा सुश्रोणी प्रसङ्गे प्रथमे तदा ।

अन्धस्ते भविता पुत्रो यतो नेत्रे निमीलिते

॥५८॥

द्वितीयेऽह्नि मुनिश्रेष्ठ पृष्टो मात्रा रहः पुनः ।

भविष्यति सुतः पुत्र काशिराजसुतोदरे

॥५९॥

मयोक्ता जननी तत्र व्रीडानम्रमुखेन ह ।

विनेत्रो भविता पुत्रो मातः शापान्ममैव हि

॥६०॥

तया निर्भर्त्सितस्तत्र कठोरवचसा मुने ।

कथं पुत्र त्वया शप्ता पुत्रस्तेऽन्धो भविष्यति

॥६१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे अम्बिकायां नियोगात्पुत्रोत्पादनाय गर्भधारणवर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥