भगवतीमाहात्म्यवर्णनम्
व्यास उवाच
निशामय महाराज ब्रवीमि विशदाक्षरम् ।
माहात्म्यं खलु मायाया नारदात्तु मया श्रुतम्
॥१॥मया पुनर्मुनिः पृष्टो नारदः सर्ववित्तमः ।
श्रुत्वा कथां मुनेस्तस्य नारीदेहसमुद्भवाम्
॥२॥ब्रूहि नारद पश्चात्किं कथितं हरिणा तदा ।
क्व गतश्च जगन्नाथो भवता सह माधवः
॥३॥नारद उवाच
इत्युक्त्वा भगवांस्तस्मिंस्तडागेऽतिमनोहरे ।
आरुह्य गरुडं गन्तुं वैकुण्ठे च मनो दधे
॥४॥मामुवाच रमाकान्तो यथेष्टं गच्छ नारद ।
एहि वा मम लोकं त्वं यथारुचि तथा कुरु
॥५॥ब्रह्मलोकं गतश्चाहमापृच्छ्य मधुसूदनम् ।
भगवानपि देवेशस्तत्क्षणाद्गरुडासनः
॥६॥वैकुण्ठमगमत्तूर्णं मामादिश्य यथासुखम् ।
ततोऽहं पितृसदनं गतो याते जनार्दने
॥७॥चिन्तयन्सकलं दुःखं सुखं च परमाद्भुतम् ।
गत्वा प्रणम्य पितरं स्थितो यावत्पुरः पितुः
॥८॥तावत्पृष्टो मुने पित्रा वीक्ष्य चिन्तातुरं तु माम् ।
ब्रह्योवाच ।
क्व गतोऽसि महाभाग कस्माच्चिन्तातुरः सुत
॥९॥स्वस्थं नैवाद्य पश्यामि मनस्ते मुनिसत्तम ।
केनापि वञ्चितोऽसि त्वं दृष्टं वा किञ्चिदद्भुतम्
॥१०॥विषण्णं गतविज्ञानं पश्यामि त्वां कथं सुत ।
नारद उवाच ।
इति पृष्टस्तदा पित्रा बृस्यां समुपवेश्य च
॥११॥तमब्रवं स्ववृत्तान्तं मायाबलसमुद्भवम् ।
वञ्चितोऽहं पितः कामं विष्णुना प्रभविष्णुना
॥१२॥स्त्रीभावं गमितः कामं वर्षाणि सुबहून्यपि ।
अनुभूतं महद्दुःखं पुत्रशोकसमुद्भवम्
॥१३॥प्रबोधितोऽहं तेनैव मृदुवाक्यामृतेन च ।
पुनः सरोवरे स्नात्वा जातोऽहं नारदः पुमान्
॥१४॥किमेतत्कारणं ब्रह्मन् यन्मोहमगमं तदा ।
विस्मृतं पूर्वविज्ञानं तन्मयस्तरसा कृतः
॥१५॥एतन्मायाबलं ब्रह्मन्न जानेऽहं दुरत्ययम् ।
ज्ञानहानिकरं जातं मूलं मोहस्य विस्फुटम्
॥१६॥अनुभूतं मया सम्यग्ज्ञातं सर्वं शुभाशुभम् ।
कथं त्वं जितवांस्तात तमुपायं वदस्व मे
॥१७॥नारद उवाच
विज्ञप्तोऽसौ मया धाता प्रीतिपूर्वमतः परम् ।
मामुवाच स्मितं कृत्वा पिता मे वासवीसुत
॥१८॥ब्रह्मोवाच
दुर्जयैषा सुरैः सर्वैर्मुनिभिश्च महात्मभिः ।
तापसैर्ज्ञानयुक्तैश्च योगिभिः पवनाशनैः
॥१९॥नाहं तां सर्वथा ज्ञातुं शक्तो मायां महाबलाम् ।
विष्णुर्ज्ञातुं न शक्तश्च तथा शम्भुरुमापतिः
॥२०॥दुर्ज्ञेया सा महामाया सृष्टिस्थित्यन्तकारिणी ।
कालकर्मस्वभावाद्यैर्निमित्तकारणैर्वृता
॥२१॥शोकं मा कुरु मेधाविंस्तत्र मायामहाबले ।
न चैव विस्मयः कार्यो वयं सर्वे विमोहिताः
॥२२॥नारद उवाच
पित्रेत्युक्तस्तदा व्यास तमापृच्छ्य गतस्मयः ।
आगतोऽस्म्यत्र पश्यन्वै तीर्थानि च वराणि च
॥२३॥तस्मात्त्वमपि सन्त्यज्य मोहं कौरवनाशजम् ।
कालक्षयं सुखासीनः स्थानेऽस्मिन् कुरु सत्तम
॥२४॥अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
निश्चयं हृदये कृत्वा विचरस्व यथासुखम्
॥२५॥व्यास उवाच
इत्युक्त्वा नारदो राजन् गतो मां प्रतिबोध्य च ।
अहं तच्चिन्तयन्वाक्यं यदुक्तं मुनिना तदा
॥२६॥स्थितः सरस्वतीतीरे कल्पे सारस्वते वरे ।
कालातिवाहनायैतत्कृतं भागवतं मया
॥२७॥पुराणमुत्तमं भूप सर्वसंशयनाशनम् ।
नानाख्यानसमायुक्तं वेदप्रामाण्यसंश्रितम्
॥२८॥सन्देहोऽत्र न कर्तव्यः सर्वथा नृपसत्तम ।
यथेन्द्रजालिकः कश्चित्पाञ्चालीं दारवीं करे
॥२९॥कृत्वा नर्तयते कामं स्वेच्छया वशवर्तिनीम् ।
तथा नर्तयते माया जगत्स्थावरजङ्गमम्
॥३०॥ब्रह्मादिस्तम्बपर्यन्तं सदेवासुरमानुषम् ।
पञ्चेन्द्रियसमायुक्तं मनश्चित्तानुवर्तनम्
॥३१॥गुणास्तु कारणं राजन् सर्वेषां सर्वथा त्रयः ।
कार्यं कारणसंयुक्तं भवतीति विनिश्चयः
॥३२॥भिन्नभिन्नस्वभावास्ते गुणा मायासमुद्भवाः ।
शान्तो घोरस्तथा मूढस्त्रयस्तु विविधा यतः
॥३३॥तत्समेतः पुमान्नित्यं तद्विहीनः कथं भवेत् ।
न भवत्येव संसारे रहितस्तन्तुभिः पटः
॥३४॥तथा गुणैस्त्रिभिर्हीनो न देहीति विनिश्चयः ।
देवदेहो मनुष्यो वा तिरश्चो वा नराधिप
॥३५॥गुणैर्विरहितो न स्यान्मृद्विहीनो घटो यथा ।
ब्रह्मा विष्णुस्तथा रुद्रस्त्रयश्चामी गुणाश्रयाः
॥३६॥कदाचित्प्रीतियुक्तास्ते तथाप्रीतियुताः पुनः ।
तथा विषादयुक्तास्ते भवन्ति गुणयोगतः
॥३७॥ब्रह्मा कदाचित्सत्त्वस्थस्तदा शान्तः समाधिमान् ।
प्रीतियुक्तो भवेत्सर्वभूतेषु ज्ञानसंयुतः
॥३८॥पुनः सत्त्वविहीनस्तु रजोगुणसमावृतः ।
तदा भवेद् घोररूपः सर्वत्राप्रीतिसंयुतः
॥३९॥यदा तमोगुणाविष्टो बाहुल्येन भवेद्विधिः ।
तदा विषादसम्पन्नो मूढो भवति नान्यथा
॥४०॥माधवोऽपि सदा सत्त्वसंश्रितः सर्वथा भवेत् ।
यदा शान्तः प्रीतियुक्तो भवेज्ज्ञानसमन्वितः
॥४१॥स एव रजआधिक्यादप्रीतिसंयुतो भवेत् ।
घोरश्च सर्वभूतेषु गुणाधीनो रमापतिः
॥४२॥रुद्रोऽपि सत्त्वसंयुक्तः प्रीतिमाञ्छान्तिमान्भवेत् ।
रजोनिमीलितः सोऽपि घोरः प्रीतिविवर्जितः
॥४३॥तमोगुणयुतः सोऽपि मूढो विषादयुग्भवेत् ।
एते यदि गुणाधीना ब्रह्मविष्णुहरादयः
॥४४॥सूर्यवंशोद्भवास्तद्वत्सोमवंशभवा अपि ।
मन्वादयश्च ये प्रोक्ताश्चतुर्दश युगे युगे
॥४५॥अन्येषां चैव का वार्ता संसारेऽस्मिन्नृपोत्तम ।
मायाधीनं जगत्सर्वं सदेवासुरमानुषम्
॥४६॥तस्माद्राजन्न कर्तव्यः सन्देहोऽत्र कदाचन ।
देही मायापराधीनश्चेष्टते तद्वशानुगः
॥४७॥सा च माया परे तत्त्वे संविद्रूपेऽपि सर्वदा ।
तदधीना प्रेरिता च तेन जीवेषु सर्वदा
॥४८॥ततो मायाविशिष्टां तां संविदं परमेश्वरीम् ।
मायेश्वरीं भगवतीं सच्चिदानन्दरूपिणीम्
॥४९॥ध्यायेत्तथाराधयेच्च प्रणमेच्च जपेदपि ।
तेन सा सदया भूत्वा मोचयत्येव देहिनम्
॥५०॥स्वमायां संहरत्येव स्वानुभूतिप्रदानतः ।
भुवनं खलु माया स्यादीश्वरी तस्य नायिका
॥५१॥भुवनेशी ततः प्रोक्ता देवी त्रैलोक्यसुन्दरी ।
तद्रूपे यदि सक्तं स्याच्चित्तं भूमिपते सदा
॥५२॥मायया किं भवेत्तत्र सदसद्भूतया नृप ।
तस्मान्मायानिरासार्थं नान्यद्वै देवतान्तरम्
॥५३॥समर्थं तु विना देवीं सच्चिदानन्दरूपिणीम् ।
तमोराशिं नाशयितुं शक्तं नैव तमो भवेत्
॥५४॥किन्तु भानुप्रभाचन्द्रविद्युद्वह्निप्रभादयः ।
तस्मान्मायेश्वरीमम्बां स्वप्रकाशां तु संविदम्
॥५५॥आराधयेदतिप्रीत्या मायागुणनिवृत्तये ।
इति सम्यङ्मयाख्यातं वृत्रासुरवधादिकम्
॥५६॥यत्पृष्टं राजशार्दूल किमन्यच्छ्रोतुमिच्छसि ।
पूर्वार्धोऽयं पुराणस्य कथितस्तव सुव्रत
॥५७॥यत्र देव्यास्तु महिमा विस्तरेणोपपादितः ।
एतद्रहस्यं श्रीमातुर्न देयं यस्य कस्यचित्
॥५८॥देयं भक्ताय शान्ताय देवीभक्तिरताय च ।
शिष्याय ज्येष्ठपुत्राय गुरुभक्तियुताय च
॥५९॥इदमखिलकथानां सारभूतं पुराणं निखिलनिगमतुल्यं सप्रमाणानुविद्धम् ।
पठति परमभावाद्यः शृणोतीह भक्त्या स भवति धनवान्वै ज्ञानवान्मानवोऽत्र
॥६०॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादप्तसाहस्र्यां संहितायां षष्ठस्कन्धे भगवतीमाहात्म्यवर्णनं नामकत्रिंशोऽध्यायः ॥ ३१ ॥