वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम्
जनमेजय उवाच
मैत्रावरुणिरित्युक्तं नाम तस्य मुनेः कथम् ।
वसिष्ठस्य महाभाग ब्रह्मणस्तनुजस्य ह
॥१॥किमसौ कर्मतो नाम प्राप्तवान् गुणतस्तथा ।
ब्रूहि मे वदतांश्रेष्ठ कारणं तस्य नामजम्
॥२॥व्यास उवाच
निबोध नृपतिश्रेष्ठ वसिष्ठो ब्रह्मणः सुतः ।
निमिशापात्तनुं त्यक्त्वा पुनर्जातो महाद्युतिः
॥३॥मित्रावरुणयोर्यस्मात्तस्मात्तन्नाम विश्रुतम् ।
मैत्रावरुणिरित्यस्मिँल्लोके सर्वत्र पार्थिव
॥४॥राजोवाच
कस्माच्छप्तः स धर्मात्मा राज्ञा ब्रह्मात्मजो मुनिः ।
चित्रमेतन्मुनिं लग्नो राज्ञः शापोऽतिदारुणः
॥५॥अनागसं मुनिं राजा किमसौ शप्तवान्मुने ।
कारणं वद धर्मज्ञ तस्य शापस्य मूलतः
॥६॥व्यास उवाच
कारणं तु मया प्रोक्तं तव पूर्वं विनिश्चितम् ।
संसारोऽयं त्रिभिर्व्याप्तो राजन्मायागुणैः किल
॥७॥धर्मं करोतु भूपालश्चरन्तु तापसास्तपः ।
सर्वेषां तु गुणैर्विद्धं नोज्ज्वलं तद्भवेदिह
॥८॥कामक्रोधाभिभूताश्च राजानो मुनयस्तथा ।
लोभाहङ्कारसंयुक्ताश्चरन्ति दुश्चरं तपः
॥९॥यजन्ति क्षत्रिया राजन् रजोगुणसमावृताः ।
ब्राह्मणास्तु तथा राजन् न कोऽपि सत्त्वसंयुतः
॥१०॥ऋषिणासौ निमिः शप्तस्तेन शप्तो मुनिः पुनः ।
दुःखाद्दुःखतरं प्राप्तावुभावपि विधेर्बलात्
॥११॥द्रव्यशुद्धिः क्रियाशुद्धिर्मनसः शुद्धिरुज्ज्वला ।
दुर्लभा प्राणिनां भूप संसारे त्रिगुणात्मके
॥१२॥पराशक्तिप्रभावोऽयं नोल्लंघ्यः केनचित्क्वचित् ।
यस्यानुगृहमिच्छेत्सा मोचयत्येव तं क्षणात्
॥१३॥महान्तोऽपि न मुच्यन्ते हरिब्रह्महरादयः ।
पामरा अपि मुच्यन्ते यथा सत्यव्रतादयः
॥१४॥तस्यास्तु हृदयं कोऽपि न वेत्ति भुवनत्रये ।
तथापि भक्तवश्येयं भवत्येव सुनिश्चितम्
॥१५॥तस्मात्तद्भक्तिरास्थेया दोषनिर्भूलनाय च ।
रागदम्भादियुक्ता चेत्सा भक्तिर्नाशिनी भवेत्
॥१६॥इक्ष्याकुकुलसम्भूतो निमिर्नाम नराधिपः ।
रूपवान् गुणसम्पन्नो धर्मज्ञो लोकरञ्जकः
॥१७॥सत्यवादी दानपरो याजको ज्ञानवाच्छुचिः ।
द्वादशस्तनयो धीमान्प्रजापालनतत्परः
॥१८॥पुरं निवेशयामास गौतमाश्रमसन्निधौ ।
जयन्तपुरसंज्ञं तु ब्राह्मणानां हिताय सः
॥१९॥बुद्धिस्तस्य समुत्पन्ना यजेयमिति राजसी ।
यज्ञेन बहुकालेन दक्षिणासंयुतेन च
॥२०॥इस्वाकुं पितरं पृष्ट्वा यज्ञकार्याय पार्थिवः ।
कारयामास सम्भारं यथोद्दिष्टं महात्मभिः
॥२१॥भृगुमङ्गिरसं चैव वामदेवं च गौतमम् ।
वसिष्ठं च पुलस्त्यं च ऋचीकं पुलहं क्रतुम्
॥२२॥मुनीनामन्त्रयामास सर्वज्ञान्वेदपारगान् ।
यज्ञविद्याप्रवीणांश्च तापसान्वेदवित्तमान्
॥२३॥राजा सम्भृतसम्भारः सम्पूज्य गुरुमात्मनः ।
वसिष्ठं प्राह धर्मज्ञो विनयेन समन्वितः
॥२४॥यजेयं मुनिशार्दूल याजयस्व कृपानिधे ।
गुरुस्त्वं सर्ववेत्तासि कार्यं मे कुरु साम्प्रतम्
॥२५॥यज्ञोपकरणं सर्वं समानीतं सुसंस्कृतम् ।
पञ्चवर्षसहस्रं तु दीक्षां कर्तुं मतिश्च मे
॥२६॥यस्मिन्यज्ञे समाराध्या देवी श्रीजगदम्बिका ।
तत्प्रीत्यर्थमहं यज्ञं करोमि विधिपूर्वकम्
॥२७॥तच्छ्रुत्वासौ निमेर्वाक्यं वसिष्ठः प्राह भूपतिम् ।
इन्द्रेणाहं वृतः पूर्वं यज्ञार्थं नृपसत्तम
॥२८॥पराशक्तिमखं कर्तुमुद्युक्तः पाकशासनः ।
स दीक्षां गमितो देवः पञ्चवर्षशतात्मिकाम्
॥२९॥तस्मात्त्वमन्तरं तावत्प्रतिपालय पार्थिव ।
इन्द्रयज्ञे समाप्तेऽत्र कृत्वा कार्यं दिवस्पतेः
॥३०॥आगमिष्याम्यहं राजंस्तावत्त्वं प्रतिपालय ।
राजोवाच ।
मया निमन्त्रिताश्चान्ये मुनयो यज्ञकारणात्
॥३१॥सम्भाराः सम्भृताः सर्वे पालयामि कथं गुरो ।
इक्ष्वाकूणां कुले ब्रह्मन्गुरुस्त्वं वेदवित्तमः
॥३२॥कथं त्यक्त्वाद्य मे कार्यमुद्यतो गन्तुमाशु वै ।
न ते युक्तं द्विजश्रेष्ठ यदुत्सृज्य मखं मम
॥३३॥गन्तासि धनलोभेन लोभाकुलितचेतनः ।
निवारितोऽपि राज्ञा स जगामेन्द्रमखं गुरुः
॥३४॥राजापि विमना भूत्वा गौतमं प्रत्यपूजयत् ।
इयाज हिमवत्पार्श्वे सागरस्य समीपतः
॥३५॥दक्षिणा बहुला दत्ता विप्रेभ्यो मखकर्मणि ।
निमिना पञ्चसाहस्री दीक्षा तत्र कृता नृप
॥३६॥ऋत्विजः पूजिताः कामं धनैर्गोभिर्मुदा युताः ।
शक्रयज्ञसमाप्ते तु पञ्चवर्षशतात्मके
॥३७॥आजगाम वसिष्ठस्तु राज्ञः सत्रदिदृक्षया ।
आगत्य संस्थितस्तत्र दर्शनार्थं नृपस्य च
॥३८॥तदा राजा प्रसुप्तस्तु निद्रयापहृतो ्भृशम् ।
नासौ प्रबोधितो भृत्यैर्नागतस्तु मुनिं नृपः
॥३९॥वसिष्ठस्य ततो मन्युः प्रादुर्भूतोऽवमानतः ।
अदर्शनान्निमेस्तत्र चुकोप मुनिसत्तमः
॥४०॥शापं च दत्तवांस्तस्मै राज्ञे मन्युवशं गतः ।
यस्मात्त्वं मां गुरुं त्यक्त्वा कृत्वान्यं गुरुमात्मनः
॥४१॥दीक्षितोऽसि बलान्मन्द मामवज्ञाय पार्थिव ।
वारितोऽपि मया तस्माद्विदेहस्त्वं भविष्यसि
॥४२॥पतत्विदं शरीरं ते विदेहो भव भूपते ।
व्यास उवाच ।
इति तद्व्याहृतं श्रुत्वा राज्ञस्तु परिचारकाः
॥४३॥सद्यः प्रबोधयामासुर्मुनिमाहुः प्रकोपितम् ।
कुपितं तं समागत्य राजा विगतकल्मषः
॥४४॥उवाच वचनं श्लक्ष्णं हेतुगर्भं च युक्तिमत् ।
. मम दोषो न धर्मज्ञ गतस्त्वं तृष्णयाऽऽकुलः
॥४५॥हित्वा मां यजमानं वै प्रार्थितोऽपि मया भृशम् ।
न लज्जसे द्विजश्रेष्ठ कृत्वा कर्म जुगुप्सितम्
॥४६॥सन्तोषे ब्राह्मणश्रेष्ठ जानन्धर्मस्य निश्चयम् ।
पुत्रोऽसि ब्रह्मणः साक्षाद्वेदवेदाङ्गवित्तमः
॥४७॥न वेत्सि विप्रधर्मस्य गतिं सूक्ष्मां दुरत्ययाम् ।
आत्मदोषं मयि ज्ञात्वा मृषा मां शस्तुमिच्छसि
॥४८॥त्याज्यस्तु सुजनैः क्रोधश्चण्डालादधिको यतः ।
वृथा क्रोधपरीतेन मयि शापः प्रपातितः
॥४९॥तवापि च पतत्वद्य देहोऽयं क्रोधसंयुतः ।
एवं शप्तो मुनी राज्ञा राजा च मुनिना तथा
॥५०॥परस्परं प्राप्य शापं दुःखितौ तौ बभूवतुः ।
वसिष्ठस्त्वतिचिन्तार्तो ब्रह्माणं शरणं गतः
॥५१॥निवेदयामास तथा शापं भूपकृतं महत् ।
वसिष्ट उवाच ।
राज्ञा शप्तोऽस्मि देहोऽयं पतत्वद्य तवेति वै
॥५२॥किं करोमि पितः प्राप्यं कष्टं कायप्रपातजम् ।
अन्यदेहसमुत्पत्तौ जनकं वद साम्प्रतम्
॥५३॥तथा मे देहसंयोगः पूर्ववत्समपद्यताम् ।
यादृशं ज्ञानमेतस्मिन्देहे तत्रास्तु तत्पितः
॥५४॥समर्थोऽसि महाराज प्रसादं कर्तुमर्हसि ।
वसिष्ठस्य वचः श्रुत्वा ब्रह्मा प्रोवाच तं सुतम्
॥५५॥मित्रावरुणयोस्तेजस्त्वं प्रविश्य स्थिरो भव ।
तस्मादयोनिजः काले भविता त्वं न संशयः
॥५६॥पुनर्देहं समासाद्य धर्मयुक्तो भविष्यसि ।
भूतात्मा वेदवित्कामं सर्वज्ञः सर्वपूजितः
॥५७॥एवमुक्तस्तदा पित्रा प्रययौ वरुणालयम् ।
कृत्वा प्रदक्षिणं प्रीत्या प्रणम्य च पितामहम्
॥५८॥विवेश स तयोर्देहे मित्रावरुणयोः किल ।
जीवांशेन वसिष्ठोऽथ त्यक्त्वा देहमनुत्तमम्
॥५९॥कदाचित्तूर्वशी राजन्नागता वरुणालयम् ।
यदृच्छया वरारोहा सखीगणसमावृता
॥६०॥दृष्ट्वा तामप्सरां दिव्यां रूपयौवनसंयुताम् ।
जातौ कामातुरौ देवौ तदा तामूचतुर्नृप
॥६१॥विवशौ चारुसर्वाङ्गीं देवकन्यां मनोरमाम् ।
आवां त्वमनवद्याङ्गि वरयस्व समाकुलौ
॥६२॥विहरस्व यथाकामं स्थानेऽस्मिन्वरवर्णिनि ।
तथोक्ता सा ततो देवी ताभ्यां तत्र स्थितावशा
॥६३॥कृत्वा भावं स्थिरं देवी मित्रावरुणयोर्गृहे ।
सा गृहीत्वा तयोर्भावं संस्थिता चारुदर्शना
॥६४॥तयोस्तु पतितं वीर्यं कुम्भे दैवादनावृते ।
तस्माज्जातौ मुनी राजन्द्वावेवातिमनोहरौ
॥६५॥अगस्तिः प्रथमस्तत्र वसिष्ठश्चापरस्तथा ।
मित्रावरुणयोर्वीर्यात्तापसावृषिसत्तमौ
॥६६॥प्रथमस्तु वनं प्राप्तो बाल एव महातपाः ।
इक्ष्वाकुस्तु वसिष्ठं तं बालं वव्रे पुरोहितम्
॥६७॥वंशस्यास्य सुखार्थं ते पालयामास पार्थिव ।
विशेषेण मुनिं ज्ञात्वा प्रीत्या युक्तो बभूव ह
॥६८॥एतत्ते सर्वमाख्यातं वसिष्ठस्य च कारणम् ।
शापाद्देहान्तरप्राप्तिर्मित्रावरुणयोः कुले
॥६९॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥