हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम्
जनमेजय उवाच
कथं ताश्च स्त्रियः सर्वा भृगूणां दुःखसागरात् ।
मुक्ता वंशः पुनस्तेषां ब्राह्मणानां स्थिरोऽभवत्
॥१॥हैहयैः किं कृतं कार्यं हत्वा तान्ब्राह्मणानपि ।
क्षत्रियैर्लोभसंयुक्तैः पापाचारैर्वदस्व तत्
॥२॥न तृप्तिरस्ति मे ब्रह्मन् पिबतस्ते कथामृतम् ।
पावनं सुखदं नॄणां परलोके फलप्रदम्
॥३॥व्यास उवाच
शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
यथा स्त्रियस्तु ता मुक्ता दुःखात्तस्माद्दुरत्ययात्
॥४॥भृगुपत्न्यो यदा राजन् हिमवन्तं गिरिं गताः ।
भयत्रस्ता विभग्नाशा हैहयैः पीडिता भृशम्
॥५॥गौरीं तत्र तु संस्थाप्य मृण्मयीं सरितस्तटे ।
उपोषणपराश्चक्रुर्निश्चयं मरणं प्रति
॥६॥स्वप्ने गत्वा तदा देवी प्राह ताः प्रमदोत्तमाः ।
युष्मासु मध्ये कस्याश्चिद्भविता चोरुजः पुमान्
॥७॥मदंशशक्तिसम्भिन्नः स वः कार्यं विधास्यति ।
इत्यादिश्य पराम्बा सा पश्चादन्तर्हिताभवत्
॥८॥जागृतास्तु ततः सर्वा मुदमापुर्वराङ्गनाः ।
काचित्तासां भयोद्विग्ना कामिनी चतुरा भृशम्
॥९॥दधार चोरुणैकेन गर्भं सा कुलवृद्धये ।
पलायनपरा दृष्टा क्षत्रियैर्ब्राह्मणी यदा
॥१०॥विह्वला तेजसा युक्ता तदा ते दुद्रुवुर्भृशम् ।
गृह्यतां वध्यतां नारी सगर्भा याति सत्वरा
॥११॥इति ब्रुवन्तः सम्प्राप्ताः कामिनीं खड्गपाणयः ।
सा भयार्ता तु तान्दृष्ट्वा रुरोद समुपागतान्
॥१२॥गर्भस्य रक्षणार्थं सा चुक्रोशातिभयातुरा ।
रुदतीं मातरं श्रुत्वा दीनां प्राणविवर्जिताम्
॥१३॥निराधारां क्रन्दमानां क्षत्रियैर्भृशतापिताम् ।
गृहीतामिव सिंहेन सगर्भां हरिणीं यथा
॥१४॥साश्रुनेत्रां वेपमानां सङ्क्रुध्य बालकस्तदा ।
भित्त्वोरुं निर्जगामाशु गर्भः सूर्य इवापरः
॥१५॥मुष्णन्दृष्टीः क्षत्रियाणां तेजसा बालकः शुभः ।
दर्शनाद्बालकस्याशु सर्वे जाता विलोचनाः
॥१६॥बभ्रमुर्गिरिदुर्गेषु जन्मान्धा इव क्षत्रियाः ।
चिन्तितं मनसा सर्वैः किमेतदिति साम्प्रतम्
॥१७॥सर्वे चक्षुर्विहीना यज्जाता स्म बालदर्शनात् ।
ब्राह्मण्यास्तु प्रभावोऽयं सतीव्रतबलं महत्
॥१८॥क्षणाद्वामोघसङ्कल्पाः किं करिष्यन्तिदुःखिताः ।
इति सञ्चिन्त्य मनसा नेत्रहीना निराश्रयाः
॥१९॥ब्राह्मणीं शरणं जग्मुर्हैहया गतचेतसः ।
प्रणेमुस्तां भयत्रस्तां कृताञ्जलिपुटाश्च ते
॥२०॥ऊचुश्चैनां भयोद्विग्नां दृष्ट्यर्थं क्षत्रियर्षभाः ।
प्रसीद सुभगे मातः सेवकास्ते वयं किल
॥२१॥कृतापराधा रम्भोरु क्षत्रियाः पापबुद्धयः ।
दर्शनात्तव तन्वङ्गि जाताः सर्वे विलोचनाः
॥२२॥मुखं ते नैव पश्यामो जन्मान्धा इव भामिनि ।
अद्भुतं ते तपो वीर्यं किं कुर्मः पापकारिणः
॥२३॥शरणं ते प्रपन्नाः स्मो देहि चक्षूंषि मानदे ।
अन्धत्वं मरणादुग्रं कृपां कर्तुं त्वमर्हसि
॥२४॥पुनर्दृष्टिप्रदानेन सेवकान्क्षत्रियान्कुरु ।
उपरम्य च गच्छेम सहिताः पापकर्मणः
॥२५॥अतः परं न कर्तव्यमीदृशं कर्म कर्हिचित् ।
भार्गवाणां तु सर्वेषां सेवकाः स्मो वयं किल
॥२६॥अज्ञानाद्यत्कृतं पापं क्षन्तव्यं तत्त्वयाधुना ।
वैरं नातः परं क्वापि भृगुभिः क्षत्रियैः सह
॥२७॥कर्तव्यं शपथैः सम्यग्वर्तितव्यं तु हैहयैः ।
सपुत्रा भव सुश्रोणि प्रणताः स्मो वयं च ते
॥२८॥प्रसादं कुरु कल्याणि न द्विष्यामः कदाचन ।
व्यास उवाच ।
इति तेषां वचः श्रुत्वा ब्राह्मणी विस्मयान्विता
॥२९॥तानाह प्रणतान्दुःस्थानाश्वास्य गतलोचनान् ।
गृहीता न मया दृष्टिर्युष्माकं क्षत्रियाः किल
॥३०॥नाहं रुषान्विता सत्यं कारणं शृणुताद्य यत् ।
अयं च भार्गवो नूनमूरुजः कुपितोऽद्य वः
॥३१॥चक्षूंषि तेन युष्माकं स्तम्भितानि रुषावता ।
स्वबन्धून्निहताञ्ज्ञात्वा गर्भस्थानपि क्षत्रियैः
॥३२॥अनागसो धर्मपरांस्तापसान्धनकाम्यया ।
गर्भानपि यदा यूयं भृगूनघ्नंस्तु पुत्रकाः
॥३३॥तदायमूरुणा गर्भो मया वर्षशतं धृतः ।
षडङ्गश्चाखिलो वेदो गृहीतोऽनेन चाञ्जसा
॥३४॥गर्भस्थेनापि बालेन भृगुवंशविवृद्धये ।
सोऽपि पितृवधान्नूनं क्रोथेद्धो हन्तुमिच्छति
॥३५॥भगवत्याः प्रसादेन जातोऽयं मम बालकः ।
तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः
॥३६॥तस्मादौर्वं सुतं मेऽद्य याचध्वं विनयान्विताः ।
प्रणिपातेन तुष्टोऽसौ दृष्टिं वः प्रतिमोक्ष्यति
॥३७॥व्यास उवाच
तच्छ्रुत्वा वचनं तस्या हैहयास्तुष्टुवुश्च तम् ।
प्रणेमुर्विनयोपेता ऊरुजं मुनिसत्तमम्
॥३८॥स सन्तुष्टो बभूवाथ तानुवाच विचक्षुषः ।
गच्छध्वं स्वगृहान्भूपा ममाख्यानकृतं वचः
॥३९॥अवश्यम्भाविभावास्ते भवन्ति देवनिर्मिताः ।
नात्र शोकस्तु कर्तव्यः पुरुषेण विजानता
॥४०॥पूर्ववदृषयः सर्वे प्राप्नुवन्तु यथासुखम् ।
व्रजन्तु विगतक्रोधा भवनानि यथासुखम्
॥४१॥इति तेन समादिष्टा हैहयाः प्राप्तलोचनाः ।
और्वमामन्त्र्य जग्मुस्ते सदनानि यथारुचि
॥४२॥ब्राह्मणी तं सुतं दिव्यं गृहीत्वा स्वाश्रमं गता ।
पालयामास भूपाल तेजस्विनमतन्द्रिता
॥४३॥एवं ते कथितं राजन् भृगूणां तु विनाशनम् ।
लोभाविष्टैः क्षत्रियैश्च यत्कृतं पातकं किल
॥४४॥जनमेजय उवाच
श्रुतं मया महत्कर्म क्षत्रियाणाञ्च दारुणम् ।
कारणं लोभ एवात्र दुःखदश्चोभयोस्तु सः
॥४५॥किञ्चित्प्रष्टुमिहेच्छामि संशयं वासवीसुत ।
हैहयास्ते कथं नाम्ना ख्याता भुवि नृपात्मजाः
॥४६॥यदोस्तु यादवाः कामं भरताद्भारतास्तथा ।
हैहयः कोऽपि राजाभूत्तेषां वंशे प्रतिष्ठितः
॥४७॥तदहं श्रोतुमिच्छामि कारणं करुणानिधे ।
हैहयास्ते कथं जाताः क्षत्रियाः केन कर्मणा
॥४८॥व्यास उवाच
हैहयानां समुत्पत्तिं शृणु भूप सविस्तराम् ।
पुरातनीं सुपुण्यां च कथां पापप्रणाशिनीम्
॥४९॥कस्मिंश्चित्समये भूप सूर्यपुत्रः सुशोभनः ।
रेवन्तेति च विख्यातो रूपवानमितप्रभः
॥५०॥उच्चैःश्रवसमारुह्य हयरत्नं मनोहरम् ।
जगाम विष्णुसदनं वैकुण्ठं भास्करात्मजः
॥५१॥भगवद्दर्शनाकांक्षी हयारूढो यदागतः ।
हयस्थस्तु तदा दृष्टो लक्ष्म्यासौ रविनन्दनः
॥५२॥रमा वीक्ष्य हयं दिव्यं भ्रातरं सागरोद्भवम् ।
रूपेण विस्मिता तस्य तस्थौ स्तम्भितलोचना
॥५३॥भगवानपि तं दृष्ट्वा हयारूढं मनोहरम् ।
आगच्छन्तं रमां विष्णुः पप्रच्छ प्रणयात्प्रभुः
॥५४॥कोऽयमायाति चार्वङ्गि हयारूढ इवापरः ।
स्मरतेजस्तनुः कान्ते मोहयन्भुवनत्रयम्
॥५५॥प्रेक्षमाणा तदा लक्ष्मीस्तच्चित्ता दैवयोगतः ।
नोवाच वचनं किञ्चित्पृष्टापि च पुनः पुनः
॥५६॥व्यास उवाच
अश्वासक्तमतिं वीक्ष्य कामिनीमतिमोहिताम् ।
पश्यन्तीं परमप्रेम्णा चञ्चलाक्षीं च चञ्चलाम्
॥५७॥तामाह भगवान्कुद्धः किं पश्यसि सुलोचने ।
मोहिता च हरिं दृष्ट्वा पृष्टा नैवाभिभाषसे
॥५८॥सर्वत्र रमसे यस्माद्रमा तस्माद्भविष्यसि ।
चञ्चलत्वाच्चलेत्येवं सर्वथैव न संशयः
॥५९॥प्राकृता च यथा नारी नूनं भवति चञ्चला ।
तथा त्वमपि कल्याणि स्थिरा नैव कदाचन
॥६०॥त्वं हयं मत्समीपस्था समीक्ष्य यदि मोहिता ।
वडवा भव वामोरु मर्त्यलोकेऽतिदारुणे
॥६१॥इति शप्ता रमा देवी हरिणा दैवयोगतः ।
रुरोद वेपमाना सा भयभीतातिदुःखिता
॥६२॥तमुवाच रमानाथ शङ्किता चारुहासिनी ।
प्रणम्य शिरसा देवं स्वपतिं विनयान्विता
॥६३॥देवदेव जगन्नाथ करुणाकर केशव ।
स्वल्पेऽपराधे गोविन्द कस्माच्छापं ददासि मे
॥६४॥न कदाचिन्मया दृष्टः क्रोधस्ते हीदृशः प्रभो ।
क्व गतस्ते मयि स्नेहः सहजो न तु नश्वरः
॥६५॥वज्रपातस्तु शत्रौ वै कर्तव्यो न सुहृज्जने ।
सदाहं वरयोग्या ते शापयोग्या कथं कृता
॥६६॥प्राणांस्त्यक्ष्यामि गोविन्द पश्यतोऽद्य तवाग्रतः ।
कथं जीवे त्वया हीना विरहानलतापिता
॥६७॥प्रसादं कुरु देवेश शापादस्मात्सुदारुणात् ।
कदा मुक्ता समीपं ते प्राप्नोमि सुखदं विभौ
॥६८॥हरिरुवाच
यदा ते भविता पुत्रः पृथिव्यां मत्समः प्रिये ।
तदा मां प्राप्य तन्वङ्गि सुखिता त्वं भविष्यसि
॥६९॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥