व्यासस्वकीयमोहवर्णनम्
व्यास उवाच
वासवी चकिता जाता श्रुत्वा मे वाक्यमीदृशम् ।
दाशेयी मामुवाचेदं पुत्रार्थे भृशमातुरा
॥१॥अम्बालिका वधूर्धन्या काशिराजसुता सुत ।
भार्या विचित्रवीर्यस्य विधवा शोकसंयुता
॥२॥सर्वलक्षणसम्पन्ना रूपयौवनशालिनी ।
तस्यां जनय सङ्गं त्वं कृत्वा पुत्रं सुसम्मतम्
॥३॥नान्धो राजाधिकारी स्यात्तस्मात्पुत्र मनोहरम् ।
उत्पादय राजपुत्र्यां वचनान्मम मानद
॥४॥इत्युक्तोऽहं तदा मात्रा स्थितस्तत्र गजाह्वये ।
यावदृतुमती जाता काशिराजसुता मुने
॥५॥एकान्ते शयनागारे प्राप्ता सा मम सन्निधौ ।
लज्जमाना सुकेशान्ता स्वश्वश्रूवचनात्तदा
॥६॥दृष्ट्वा मां जटिलं दान्तं तापसं रसवर्जितम् ।
सा स्वेदवदना जाता पाण्डुरा विमना भृशम्
॥७॥कुपितोऽहं तदा दृष्ट्वा कामिनीं निशि सङ्गताम् ।
वेपमानां स्थितां पार्श्वे ह्यब्रवं तामहं रुषा
॥८॥दृष्ट्वा मां यदि गर्वेण पाण्डुवर्णा समावृता ।
अतस्ते तनयः पाण्डुर्भविष्यति सुमध्यमे
॥९॥इत्युक्त्वा निशि तत्रैव स्थितोऽम्बालिकया युतः ।
भुक्त्वा तां निशि निर्यातः स्थानमापृच्छ्य मातरम्
॥१०॥ततस्ताभ्यां सुतौ काले प्रसूतावन्धपाण्डुरौ ।
धृतराष्ट्रश्च पाण्डुश्च प्रथितौ सम्बभूवतुः
॥११॥माता मे विमना जाता तादृशौ वीक्ष्य तौ सुतौ ।
ततः संवत्सरस्यान्ते मामाहूय तदाब्रवीत्
॥१२॥द्वैपायन सुतौ जातौ राज्ययोग्यौ न तादृशौ ।
अन्यं मनोहरं पुत्रं समुत्पादय मे प्रियम्
॥१३॥तथेति सा मया प्रोक्ता मुदिता जननी तदा ।
अम्बिकां प्रार्थयामास सुतार्थे काल आगते
॥१४॥पुत्रि व्यासं समालिङ्ग्य पुत्रमुत्पादयाद्भुतम् ।
कुरुवंशस्य कर्तारं राज्ययोग्यं वरानने
॥१५॥वधूर्लज्जान्विता किञ्चिन्नोवाच वचनं तदा ।
गतोऽहं शयनागारे मातुस्तद्वचनान्निशि
॥१६॥दासी विचित्रवीर्यस्य रूपयौवनसंयुता ।
प्रेषिताम्बिकया त्वत्र विचित्राभरणाम्बरा
॥१७॥चन्दनारक्तदेहा सा पुष्पमालाविभूषिता ।
आयाता हावसंयुक्ता सुकेशी हंसगामिनी
॥१८॥पर्यङ्के मां समावेश्य संस्थिता प्रेमसंयुता ।
प्रसन्नोऽहं तदा तस्या विलासेनाभवं मुने
॥१९॥रात्रौ संक्रीडितं प्रेम्णा तया सह मया भृशम् ।
वरो दत्तः पुनस्तस्यै प्रसन्नेन तु नारद
॥२०॥सुभगे भविता पुत्रः सर्वलक्षणसंयुतः ।
सुरूपः सर्वधर्मज्ञः सत्यवादी शमे रतः
॥२१॥स तदा विदुरो जातस्त्रयः पुत्रा मयाभवन् ।
माया वृद्धिं गता साधो परक्षेत्रोद्भवे मम
॥२२॥विस्मृतः शुकसम्बन्धी विरहः शोककारणम् ।
दृष्ट्वा त्रीन्स्वसुतान्कामं बलिनो वीर्यसम्मतान्
॥२३॥माया बलवती ब्रह्मन् दुस्त्यजा ह्यकृतात्मभिः ।
अरूपा च निरालम्बा ज्ञानिनामपि मोहिनी
॥२४॥मातरि स्नेहसम्बद्धं तथा पुत्रेषु संवृतम् ।
न मे चित्तं वने शान्तिमगान्मुनिवरोत्तम
॥२५॥दोलारूढं मनो जातं कदाचिद्धस्तिनापुरे ।
पुनः सरस्वतीतीरे न चैकत्र व्यवस्थितिः
॥२६॥कदाचिच्चिन्तयन् ज्ञानं मानसे प्रतिभाति वै ।
केऽमी पुत्राः क्व मोहोऽयं न श्राद्धार्हा मृतस्य मे
॥२७॥व्यभिचारोद्भवाः किं मे सुखदाः स्युः सुताः किल ।
माया बलवती मोहं वितनोति हि मानसे
॥२८॥जानन्मोहान्धकूपेऽस्मिन्पतितोऽहं मृषा मुने ।
इत्यकुर्वं रहस्तापं कदाचित्स्सुसमाहितः
॥२९॥राज्यं प्राप ततः पाण्डुर्बलवान्भीष्मसम्मतः ।
तदा मम मनो जातं प्रसन्नं सुतकारणात्
॥३०॥कुन्ती माद्री सुरूपे द्वे भार्ये तस्य बभूवतुः ।
शूरसेनसुता कुन्ती मद्रराजसुतापरा
॥३१॥स शापं द्विजतः प्राप्य कामिनीद्वयसंयुतः ।
पाण्डुर्निर्वेदमापन्नस्त्यक्त्वा राज्यं वनं गतः
॥३२॥तदा मामाविशच्छोकः श्रुत्वा पुत्रं वने स्थितम् ।
गतोऽहं तत्र यत्रासौ भार्याभ्यां सह संस्थितः
॥३३॥तमाश्वास्य वने पाण्डुं पुनः प्राप्तो गजाह्वये ।
धृतराष्ट्रं समाभाष्य ह्यगमं ब्रह्मजातटे
॥३४॥क्षेत्रजान्पञ्चपुत्रान्स समुत्पाद्य वनाश्रमे ।
धर्मतो वायुतः शक्रादश्विभ्यां पञ्च पाण्डवान्
॥३५॥युधिष्ठिरो भीमसेनस्तथैवार्जुन इत्यपि ।
कुन्तीपुत्राः समाख्याता धर्मानिलसुरेशजाः
॥३६॥नकुलः सहदेवश्च मद्रराजसुतासुतौ ।
कदाचित्तु रहो माद्रीं समालिङ्ग्य महीपतिः
॥३७॥मृतः शापात्तु मुनिभिः संस्कृतो हुतभुङ्मुखे ।
माद्री तत्र सती भूत्वा प्रविष्टा पतिना सह
॥३८॥स्थिता पुत्रयुता कुन्ती ज्वलिते जातवेदसि ।
मुनयः सुतसंयुक्तां शूरसेनसुतां तदा
॥३९॥दुःखितां पतिहीनां तामानिन्युर्गजसाह्वये ।
समर्पिताथ भीष्माय विदुराय महात्मने
॥४०॥श्रुत्वाहं सुखदुःखाभ्यां पीडितस्तु परात्मभिः ।
भीष्मेण पालिताः पुत्राः पाण्डोरिति विचिन्त्य ते
॥४१॥विदुरेण तथा प्रीत्या धृतराष्ट्रेण धीमता ।
दुर्योधनादयस्तस्य पुत्रा ये क्रूरमानसाः
॥४२॥एकत्र स्थितिमापन्ना विरोधं चकुरद्भुतम् ।
द्रोणाचार्यस्तु सम्माप्तस्तत्र भीष्मेण मानितः
॥४३॥अध्यापनाय पुत्राणां पुरे तस्मिन्निवासितः ।
कर्णः कुन्त्या परित्यक्तो जातमात्रः शिशुर्यदा
॥४४॥सूतेन पालितो नद्यां प्रान्तश्चाधिरथेन ह ।
दुर्योधनप्रियश्चाभूत्कर्णः शूरतमस्तथा
॥४५॥परस्परं विरोधोऽभूद्भीमदुर्योधनादिषु ।
धृतराष्ट्रस्तु सञ्चिन्त्य क्लेशं पुत्रेषु तेषु च
॥४६॥निवासं कल्पयामास पाण्डवानां महात्मनाम् ।
विरोधशमनायैव नगरे वारणावते
॥४७॥दुर्योधनेन तत्रैव द्रोहाज्जतुगृहाणि वै ।
कारितानि च दिव्यानि प्रेष्य मित्रं पुरोचनम्
॥४८॥श्रुत्वा जतुगृहे दग्धान्पाण्डवान्पृथया युतान् ।
पौत्रभावान्मुनिश्रेष्ठ मग्नोऽहं व्यसनार्णवे
॥४९॥शोकातुरो भृशं शून्ये वने पश्यन्नहर्निशम् ।
दृष्टा मयैकचक्रायां पाण्डवा दुःखकर्शिताः
॥५०॥ततस्तुष्टमनाश्चाहं जातः पार्थान्विलोक्य च ।
प्रेरितास्ते मया तूर्णं द्रुपदस्य पुरं प्रति
॥५१॥ते गतास्तत्र दुःखार्ता विप्रवेषधराः कृशाः ।
मृगचर्मपरीधानाः सभायां संस्थितास्तदा
॥५२॥कृत्वा पराक्रमं जिष्णुः स जित्वा द्रुपदात्मजाम् ।
चक्रुर्विवाहं मानिन्या पञ्चैव मातृवाक्यतः
॥५३॥दृष्ट्वा विवाहं तेषां तु मुदितोऽहं भृशं तदा ।
ततो नागाह्वये प्राप्ताः पाञ्चालीसहिता मुने
॥५४॥निवासं खाण्डवप्रस्थं धृतराष्ट्रेण कल्पितम् ।
पाण्डवानां द्विजश्रेष्ठ वसुदेवसुतेन वै
॥५५॥तर्पितः पावकस्तत्र विष्णुना सह जिष्णुना ।
राजसूयः कृतो यज्ञस्तदाहं मुदितोऽभवम्
॥५६॥दृष्ट्वाथ विभवं तेषां तथा मयकृतां सभाम् ।
दुर्योधनोऽतिसन्तप्तो दुरोदरमथाकरोत्
॥५७॥दुर्द्यूतवेदी शकुनिरनक्षज्ञश्च धर्मजः ।
हृतं राज्यं धनं सर्वं याज्ञसेनी च क्लेशिता
॥५८॥वने द्वादश वर्षाणि पाण्डवास्ते विवासिताः ।
पाञ्चालीसहितास्तेन दुःखं मे जनितं भृशम्
॥५९॥एवं नारद संसारे सुखदुःखात्मके भृशम् ।
निमग्नोऽहं भ्रमेणैव जानन् धर्मं सनातनम्
॥६०॥कोऽहं कस्य सुतास्तेऽमी का माता किं सुखं पुनः ।
येन मे हृदयं मोहाद्भ्रमतीति दिवानिशम्
॥६१॥किं करोमि क्व गच्छामि सन्तोषो नाधिगच्छति ।
दोलारूढं मनो मेऽत्र चञ्चलं न स्थिरं भवेत्
॥६२॥सर्वज्ञोऽसि मुनिश्रेष्ठ सन्देहं मे निवर्तय ।
तथा कुरु यथाहं स्यां सुखितो विगतज्वरः
॥६३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे व्यासस्वकीयमोहवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥