युगधर्मव्यवस्थावर्णनम्
जनमेजय उवाच
भारावतारणार्थाय कथितं जन्म कृष्णयोः ।
संशयोऽयं द्विजश्रेष्ठ हृदये मम तिष्ठति
॥१॥पृथिवी गोस्वरूपेण ब्रह्माणं शरणं गता ।
द्वापरान्तेऽतिदीनार्ता गुरुभारप्रपीडिता
॥२॥वेधसा प्रार्थितो विष्णुः कमलापतिरीश्वरः ।
भूभारोत्तारणार्थाय साधूनां रक्षणाय च
॥३॥भगवन् भारते खण्डे देवैः सह जनार्दन ।
अवतारं गृहाणाशु वसुदेवगृहे विभो
॥४॥एवं सम्प्रार्थितो धात्रा भगवान्देवकीसुतः ।
बभूव सह रामेण भूभारोत्तारणाय वै
॥५॥कियानुत्तारितो भारो हत्वा दुष्टाननेकशः ।
ज्ञात्वा सर्वान्दुराचारान्पापबुद्धिनृपानिह
॥६॥हतो भीष्मो हतो द्रोणो विराटो द्रुपदस्तथा ।
बाह्लीकः सोमदत्तश्च कर्णो वैकर्तनस्तथा
॥७॥यैर्लुण्ठितं धनं सर्वं हृताश्च हरियोषितः ।
कथं न नाशिता दुष्टा ये स्थिताः पृथिवीतले
॥८॥आभीराश्च शका म्लेच्छा निषादाः कोटिशस्तथा ।
भारावतरणं किं तत्कृतं कृष्णेन धीमता
॥९॥सन्देहोऽयं महाभाग न निवर्तति चित्ततः ।
कलावस्मिन्मजाः सर्वाः पश्यतः पापनिश्चयाः
॥१०॥व्यास उवाच
राजन् यस्मिन्युगे यादृक्प्रजा भवति कालतः ।
नान्यथा तद्भवेन्नूनं युगधर्मोऽत्र कारणम्
॥११॥ये धर्मरसिका जीवास्ते वै सत्ययुगेऽभवन् ।
धर्मार्थरसिका ये तु ते वै त्रेतायुगेऽभवन्
॥१२॥धर्मार्थकामरसिका द्वापरे चाभवन्युगे ।
अर्थकामपराः सर्वे कलावस्मिन्भवन्ति हि
॥१३॥युगधर्मस्तु राजेन्द्र न याति व्यत्ययं पुनः ।
कालः कर्तास्ति धर्मस्य ह्यधर्मस्य च वै पुनः
॥१४॥राजोवाच
ये तु सत्ययुगे जीवा भवन्ति धर्मतत्पराः ।
कुत्र तेऽद्य महाभाग तिष्ठन्ति पुण्यभागिनः
॥१५॥त्रेतायुगे द्वापरे वा ये दानव्रतकारकाः ।
वर्तन्ते मुनयः श्रेष्ठाः कुत्र ब्रूहि पितामह
॥१६॥कलावद्य दुराचारा येऽत्र सन्ति गतत्रपाः ।
आद्ये युगे क्व यास्यन्ति पापिष्ठा देवनिन्दकाः
॥१७॥एतत्सर्वं समाचक्ष्व विस्तरेण महामते ।
सर्वथा श्रोतुकामोऽस्मि यदेतद्धर्मनिर्णयम्
॥१८॥व्यास उवाच
ये वै कृतयुगे राजन् सम्भवन्तीह मानवाः ।
कृत्वा ते पुण्यकर्माणि देवलोकान्व्रजन्ति वै
॥१९॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम ।
स्वधर्मनिरता यान्ति लोकान्कर्मजितान्किल
॥२०॥सत्यं दया तथा दानं स्वदारगमनं तथा ।
अद्रोहः सर्वभूतेषु समता सर्वजन्तुषु
॥२१॥एतत्साधारणं धर्मं कृत्वा सत्ययुगे पुनः ।
स्वर्गं यान्तीतरे वर्णा धर्मतो रजकादयः
॥२२॥तथा त्रेतायुगे राजन् द्वापरेऽथ युगे तथा ।
कलावस्मिन्युगे पापा नरकं यान्ति मानवाः
॥२३॥तावत्तिष्ठन्ति ते तत्र यावत्स्याद्युगपर्ययः ।
पुनश्च मानुषे लोके भवन्ति भुवि मानवाः
॥२४॥यदा सत्ययुगस्यादिः कलेरन्तश्च पार्थिव ।
तदा स्वर्गात्पुण्यकृतो जायन्ते किल मानवाः
॥२५॥यदा कलियुगस्यादिर्द्वापरस्य क्षयस्तथा ।
नरकात्पापिनः सर्वे भवन्ति भुवि मानवाः
॥२६॥एवं कालसमाचारो नान्यथाभूत्कदाचन ।
तस्मात्कलिरसत्कर्ता तस्मिंस्तु तादृशी प्रजा
॥२७॥कदाचिद्दैवयोगात्तु प्राणिनां व्यत्ययो भवेत् ।
कलौ ये साधवः केचिद्द्वापरे सम्भवन्ति ते
॥२८॥तथा त्रेतायुगे केचित्केचित्सत्ययुगे तथा ।
दुष्टाः सत्ययुगे ये तु ते भवन्ति कलावपि
॥२९॥कृतकर्मप्रभावेण प्राप्नुवन्त्यसुखानि च ।
पुनश्च तादृशं कर्म कुर्वन्ति युगभावतः
॥३०॥जनमेजय उवाच
युगधर्मान्महाभाग ब्रूहि सर्वानशेषतः ।
यस्मिन्वै यादृशो धर्मो ज्ञातुमिच्छामि तं तथा
॥३१॥व्यास उवाच
निबोध नृपशार्दूल दृष्टान्तं ते ब्रवीम्यहम् ।
साधूनामपि चेतांसि युगभावाद्भ्रमन्ति हि
॥३२॥पितुर्यथा ते राजेन्द्र वुद्धिर्विप्रावहेलने ।
कृता वै कलिना राजन् धर्मज्ञस्य महात्मनः
॥३३॥अन्यथा क्षत्रियो राजा ययातिकुलसम्भवः ।
तापसस्य गले सर्पं मृतं कस्मादयोजयत्
॥३४॥सर्वं युगबलं राजन्वेदितव्यं विजानता ।
प्रयत्नेन हि कर्तव्यं धर्मकर्म विशेषतः
॥३५॥नूनं सत्ययुगे राजन् ब्राह्मणा वेदपारगाः ।
पराशक्त्यर्चनरता देवीदर्शनलालसाः
॥३६॥गायत्रीप्रणवासक्ता गायत्रीध्यानकारिणः ।
गायत्रीजपसंसक्ता मायाबीजैकजापिनः
॥३७॥ग्रामे ग्रामे पराम्बायाः प्रासादकरणोत्सुकाः ।
स्वकर्मनिरताः सर्वे सत्यशौचदयान्विताः
॥३८॥त्रय्युक्तकर्मनिरतास्तत्त्वज्ञानविशारदाः ।
अभवन्क्षत्रियास्तत्र प्रजाभरणतत्पराः
॥३९॥वैश्यास्तु कृषिवाणिज्यगोसेवानिरतास्तथा ।
शूद्राः सेवापरास्तत्र पुण्ये सत्ययुगे नृप
॥४०॥पराम्बापूजनासक्ताः सर्वे वर्णाः परे युगे ।
तथा त्रेतायुगे किञ्चिन्न्यूना धर्मस्य संस्थितिः
॥४१॥द्वापरे च विशेषेण न्यूना सत्ययुगस्थितिः ।
पूर्वं ये राक्षसा राजन् ते कलौ ब्राह्मणाः स्मृताः
॥४२॥पाखण्डनिरताः प्रायो भवन्ति जनवञ्चकाः ।
असत्यवादिनः सर्वे वेदधर्मविवर्जिताः
॥४३॥दाम्भिका लोकचतुरा मानिनो वेदवर्जिताः ।
शूद्रसेवापराः केचिन्नानाधर्मप्रवर्तकाः
॥४४॥वेदनिन्दाकराः क्रूरा धर्मभ्रष्टातिवादुकाः ।
यथा यथा कलिर्वृद्धिं याति राजंस्तथा तथा
॥४५॥धर्मस्य सत्यमूलस्य क्षयः सर्वात्मना भवेत् ।
तथैव क्षत्रिया वैश्याः शूद्राश्च धर्मवर्जिताः
॥४६॥असत्यवादिनः पापास्तथा वर्णेतराः कलौ ।
शूद्रधर्मरता विप्राः प्रतिग्रहपरायणाः
॥४७॥भविष्यन्ति कलौ राजन् युगे वृद्धिं गताः किल ।
कामचाराः स्त्रियः कामलोभमोहसमन्विताः
॥४८॥पापा मिथ्याभिवादिन्यः सदा क्लेशरता नृप ।
स्वभर्तृवञ्जका नित्यं धर्मभाषणपण्डिताः
॥४९॥भवन्त्येवंविधा नार्यः पापिष्ठाश्च कलौ युगे ।
आहारशुद्ध्या नृपते चित्तशुद्धिस्तु जायते
॥५०॥शुद्धे चित्ते प्रकाशः स्याद्धर्मस्य नृपसत्तम ।
वृत्तसङ्करदोषेण जायते धर्मसङ्करः
॥५१॥धर्मस्य सङ्करे जाते नूनं स्याद्वर्णसङ्करः ।
एवं कलियुगे भूप सर्वधर्मविवर्जिते
॥५२॥स्ववर्णधर्मवार्तैषा न कुत्राप्युपलभ्यते ।
महान्तोऽपि च धर्मज्ञा अधर्मं कुर्वते नृप
॥५३॥कलिस्वभाव एवैष परिहार्यो न केनचित् ।
तस्मादत्र मनुष्याणां स्वभावात्पापकारिणाम्
॥५४॥निष्कृतिर्न हि राजेन्द्र सामान्योपायतो भवेत् ।
जनमेजय उवाच ।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद
॥५५॥कलावधर्मबहुले नराणां का गतिर्भवेत् ।
यद्यस्ति तदुपायश्चेद्दयया तं वदस्व मे
॥५६॥व्यास उवाच
एक एव महाराज तत्रोपायोऽस्ति नापरः ।
सर्वदोषनिरासार्थं ध्यायेद्देवीपदाम्बुजम्
॥५७॥न सन्त्यघानि तावन्ति यावती शक्तिरस्ति हि ।
नास्ति देव्याः पापदाहे तस्माद्भीतिः कुतो नृप
॥५८॥अवशेनापि यन्नाम लीलयोच्चारितं यदि ।
किं किं ददाति तज्ज्ञातुं समर्था न हरादयः
॥५९॥प्रायश्चित्तं तु पापानां श्रीदेवीनामसंस्मृतिः ।
तस्मात्कलिभयाद्राजन् पुण्यक्षेत्रे वसेन्नरः
॥६०॥निरन्तरं पराम्बाया नामसंस्मरणं चरेत् ।
छित्त्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत्
॥६१॥देवीं नमति भक्त्या यो न स पापैर्विलिप्यते ।
रहस्यं सर्वशास्त्राणां मया राजन्नुदीरितम्
॥६२॥विमृश्यैतदशेषेण भज देवीपदाम्बुजम् ।
अजपां नाम गायत्रीं जपन्ति निखिला जनाः
॥६३॥महिमानं न जानन्ति मायाया वैभवं महत् ।
गायत्रीं ब्राह्मणाः सर्वे जपन्ति हृदयान्तरे
॥६४॥महिमानं न जानन्ति मायाया वैभवं महत् ।
एतत्सर्वं समाख्यातं यत्पृष्टं तत्त्वया नृप ।
युगधर्मव्यवस्थायां किं भूयः श्रोतुमिच्छसि
॥६५॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे युगधर्मव्यवस्थावर्णनं नामकादशोऽध्यायः ॥ ११ ॥