मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय २

3
षष्ठस्कन्धः · 2

त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम्

व्यास उवाच

अथ स लोभमुपेत्य सुराधिपः समधिगम्य गजासनसंस्थितः ।

त्रिशिरसं प्रति दुष्टमतिस्तदा मुनिमपश्यदमेयपराक्रमम्

॥१॥

तमभिवीक्ष्य दृढासनसंस्थितं जितगिरं सुसमाधिवशं गतम् ।

रविविभावसुसन्निभमोजसा सुरपतिः परमापदमभ्यगात्

॥२॥

कथमसौ विनिहन्तुमहो मया मुनिरपापमतिः किल सम्मतः ।

रिपुरयं सुसमिद्धतपोबलः कथमुपेक्ष्य इहासनकामुकः

॥३॥

इति विचिन्त्य पविं परमायुधं प्रति मुमोच मुनिं तपसि स्थितम् ।

शशिदिवाकरसन्निभमाशुगं त्रिशिरसं सुरसङ्घपतिः स्वयम्

॥४॥

तदभिघातहतः स धरातले किल पपात ममार च तापसः ।

शिखरिणः शिखरं कुलिशार्दितं निपतितं भुवि चाद्भुतदर्शनम्

॥५॥

तं निहत्य मुदमाप सुरेश- श्चुक्रुशुश्च मुनयस्तु संस्थिताः ।

हा हतेति भृशमार्तनिःस्वनाः किं कृतं शतमखेन पापिना

॥६॥

विनापराधं तपसां निधिर्हतः शचीपतिः पापमतिर्दुरात्मा ।

फलं किलायं तरसा कृतस्य प्राप्नोतु पापी हननोद्भवस्य

॥७॥

तं निहत्य तरसा सुरराजो निर्जगाम निजमन्दिरमाशु ।

स हतोऽपि विरराज महात्मा जीवमान इव तेजसां निधिः

॥८॥

तं दृष्ट्वा पतितं भूमौ जीवन्तमिव वृत्रहा ।

चिन्तामापातिखिन्नाङ्गः किं वा जीवेदयं पुनः

॥९॥

विमृश्य मनसातीव तक्षाणं पुरतः स्थितम् ।

मघवा वीक्ष्य तं प्राह स्वकार्यसदृशं वचः

॥१०॥

तक्षंश्छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ।

मा जीवतु महातेजा भाति जीवन्निव स्वयम्

॥११॥

इत्याकर्ण्य वचस्तस्य तक्षोवाच विगर्हयन् ।

तक्षोवाच ।

महास्कन्धो भृशं भाति परशुर्न तरिष्यति

॥१२॥

ततो नाहं करिष्यामि कार्यमेतद्विगर्हितम् ।

त्वया वै निन्दितं कर्म कृतं सद्भिर्विगर्हितम्

॥१३॥

अहं बिभेमि पापाद्वै मृतस्यैव च मारणे ।

मृतोऽयं मुनिरस्त्येव शिरसः कृन्तनेन किम्

॥१४॥

भयं किं तेऽत्र सञ्जातं पाकशासन कथ्यताम् ।

इन्द्र उवाच ।

सजीव इव देहोऽयमाभाति विशदाकृतिः

॥१५॥

तस्माद्बिभेमि मा जीवेन्मुनिः शत्रुरयं मम ।

तक्षोवाच ।

नात्र किं त्रपसे विद्वन् क्रूरेणानेन कर्मणा

॥१६॥

ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न किम् ।

इन्द्र उवाच ।

प्रायश्चित्तं करिष्यामि पश्चात्पापक्षयाय वै

॥१७॥

शत्रुस्तु सर्वथा वध्यश्छलेनापि महामते ।

तक्षोवाच ।

त्वं लोभाभिहतः पापं करोषि मघवन्निह

॥१८॥

तं विनाहं कथं पापं करोमि वद मे विभो ।

इन्द्र उवाच ।

मखेषु खलु भागं ते करिष्यामि सदैव हि

॥१९॥

शिरः पशोस्तु ते भागं यज्ञे दास्यन्ति मानवाः ।

शुल्केनानेन छिन्धि त्वं शिरांस्यस्य कुरु प्रियम्

॥२०॥

व्यास उवाच

एतच्छ्रुत्वा महेन्द्रस्य वचस्तक्षा मुदान्वितः ।

कुठारेण शिरांस्यस्य चकर्त सुदृढेन हि

॥२१॥

छिन्नानि त्रीणि शीर्षाणि पतितानि यदा भुवि ।

तेभ्यस्तु पक्षिणः क्षिप्रं विनिष्पेतुः सहस्रशः

॥२२॥

कलविङ्कास्तित्तिरयस्तथैव च कपिञ्जलाः ।

पृथक्पृथग्विनिष्पेतुर्मुखतस्तरसा तदा

॥२३॥

येन वेदानधीते स्म सोमं च पिबते तथा ।

तस्माद्वक्त्रात्किलोत्पेतुः सद्य एव कपिञ्जलाः

॥२४॥

येन सर्वा दिशः कामं पिबन्निव निरीक्षते ।

तस्मात्तु तित्तिरास्तत्र निःसृतास्तिग्मतेजसः

॥२५॥

यत्सुरापं तु तद्वक्त्रं तस्मात्तु चटकाः किल ।

विनिष्पेतुस्त्रिशिरस एवं ते विहगा नृप

॥२६॥

एवंविनिःसृतान्दृष्ट्वा तेभ्यः शक्रस्तदाण्डजान् ।

मुमोद मनसा राजन् जगाम त्रिदिवं पुनः

॥२७॥

गते शक्रे तु तक्षापि स्वगृहं तरसा ययौ ।

यज्ञभागं परं लब्ध्वा मुदमाप महीपते

॥२८॥

इन्द्रोऽथ स्वगृहं गत्वा हत्वा शत्रुं महाबलम् ।

मेने कृतार्थमात्मानं ब्रह्महत्यामचिन्तयन्

॥२९॥

तं श्रुत्वा निहतं त्वष्टा पुत्रं परमधार्मिकम् ।

चुकोपातीव मनसा वचनं चेदमब्रवीत्

॥३०॥

अनागसं मुनिं यस्मात्पुत्रं निहतवान्मम ।

तस्मादुत्पादयिष्यामि तद्वधार्थं सुतं पुनः

॥३१॥

सुराः पश्यन्तु मे वीर्यं तपसश्च बलं तथा ।

जानातु सर्वं पापात्मा स्वकृतस्य फलं महत्

॥३२॥

इत्युक्त्वाग्निं जुहावाथ मन्त्रैराथर्वणोदितैः ।

पुत्रस्योत्पादनार्थाय त्वष्टा क्रोधसमाकुलः

॥३३॥

कृते होमेऽष्टरात्रं तु सन्दीप्ताच्च विभावसोः ।

प्रादुर्बभूव तरसा पुरुषः पावकोपमः

॥३४॥

तं दृष्ट्वाग्रे सुतं त्वष्टा तेजोबलसमन्वितम् ।

वेगात्प्रकटितं वह्नेर्दीप्यमानमिवानलम्

॥३५॥

उवाच वचनं त्वष्टा सुतं वीक्ष्य पुरःस्थितम् ।

इन्द्रशत्रो विवर्धस्व प्रतापात्तपसो मम

॥३६॥

इत्युक्ते वचने त्वष्ट्रा क्रोधप्रज्वलितेन च ।

सोऽवर्धत दिवं स्तब्ध्वा वैश्वानरसमद्युतिः

॥३७॥

जातः स पर्वताकारः कालमृत्युसमः स्वराट् ।

किं करोमीति तं प्राह पितरं परमातुरम्

॥३८॥

कुरु मे नामकं नाथ कार्यं कथय सुव्रत ।

चिन्तातुरोऽसि कस्मात्त्वं ब्रूहि मे शोककारणम्

॥३९॥

नाशयाम्यद्य ते शोकमिति मे व्रतमाहितम् ।

तेन जातेन किं भूयः पिता भवति दुःखितः

॥४०॥

पिबामि सागरं सद्यश्चूर्णयामि धराधरान् ।

उद्यन्तं वारयाम्यद्य तरणिं तिग्मतेजसम्

॥४१॥

हन्मीन्द्रं ससुरं सद्यो यमं वा देवतान्तरम् ।

क्षिपामि सागरे सर्वान्समुत्पाट्य च मेदिनीम्

॥४२॥

इत्याकर्ण्य वचस्तस्य त्वष्टा पुत्रस्य पेशलम् ।

प्रत्युवाचातिमुदितस्तं सुतं पर्वतोपमम्

॥४३॥

वृजिनात्त्रातुमधुना यस्माच्छक्तोऽसि पुत्रक ।

तस्माद्वृत्र इति ख्यातं तव नाम भविष्यति

॥४४॥

भ्राता तव महाभाग त्रिशिरा नाम तापसः ।

त्रीणि तस्य च शीर्षाणि ह्यभवन्वीर्यवन्ति च

॥४५॥

वेदवेदाङ्गतत्त्वज्ञः सर्वविद्याविशारदः ।

संस्थितस्तपसि प्रायस्त्रिलोकीविस्मयप्रदे

॥४६॥

शक्रेण तु हतः सोऽद्य वज्रघातेन साम्प्रतम् ।

विनापराधं सहसा छिन्नानि मस्तकानि च

॥४७॥

तस्मात्त्वं पुरुषव्याघ्र जहि शक्रं कृतागसम् ।

ब्रह्महत्यायुतं पापं निस्त्रपं दुर्मतिं शठम्

॥४८॥

इत्युक्त्वा च तदा त्वष्टा पुत्रशोकसमाकुलः ।

आयुधानि च दिव्यानि चकार विविधानि च

॥४९॥

ददावस्मै सहस्राक्षवधाय प्रबलानि च ।

खड्गशूलगदाशक्तितोमरप्रमुखानि वै

॥५०॥

शार्ङ्ग धनुस्तथा बाणं परिघं पट्टिशं तथा ।

चक्रं दिव्यं सहस्रारं सुदर्शनसमप्रभम्

॥५१॥

तूणीरौ चाक्षयौ दिव्यौ कवचं चातिसुन्दरम् ।

रथं मेघप्रतीकाशं दृढं भारसहं जवम्

॥५२॥

युद्धोपकरणं सर्वं कृत्वा पुत्राय पार्थिव ।

दत्त्वासौ प्रेरयामास त्वष्टा क्रोधसमन्वितः

॥५३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादलसाहक्त्यां संहितायां षष्ठस्कन्धे त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥