मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय ४

3
षष्ठस्कन्धः · 4

ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम्

व्यास उवाच

निर्गतास्ते परावृत्तास्तपोविघ्नकराः सुराः ।

निराशाः कार्यसंसिद्ध्यै तं दृष्ट्वा दृढचेतसम्

॥१॥

जाते वर्षशते पूर्णे ब्रह्मा लोकपितामहः ।

तत्राजगाम तरसा हंसारूढश्चतुर्मुखः

॥२॥

आगत्य तमुवाचेदं त्वष्ट्टपुत्र सुखी भव ।

त्यक्त्वा ध्यानं वरं ब्रूहि ददामि तव वाञ्छितम्

॥३॥

तपसा तेऽद्य तुष्टोऽस्मि त्वां दृष्ट्वा चातिकर्शितम् ।

वरं वरय भद्रं ते मनोऽभिलषितं तव

॥४॥

व्यास उवाच

वृत्रस्तदातिविशदां पुरतो निशम्य वाचं सुधासमरसां जगदेककर्तुः ।

सन्त्यज्य योगकलनां सहसोदतिष्ठ- त्सञ्जातहर्षनयनाश्रुकलाकलापः

॥५॥

पादौ प्रणम्य शिरसा प्रणयाद्विधातु- र्बद्धाञ्जलिः पुरत एव समाससाद ।

प्रोवाच तं सुवरदं तपसा प्रसन्नं प्रेम्णातिगद्गदगिरा विनयेन नम्रः

॥६॥

प्राप्तं मया सकलदेवपदं प्रभोऽद्य यद्दर्शनं तव सुदुर्लभमाशु जातम् ।

वाञ्छास्ति नाथ मनसि प्रवणे दुरापा तां प्रब्रवीमि कमलासन वेत्सि भावम्

॥७॥

मृत्युश्च मा भवतु मे किल लोहकाष्ठ- शुष्कार्द्रवंशनिचयैरपरैश्च शस्त्रैः ।

वृद्धि प्रयातु मम वीर्यमतीव युद्धे यस्माद्भवामि सबलैरमरैरजेयः

॥८॥

व्यास उवाच

इत्थं सम्प्रार्थितो ब्रह्मा तमाह प्रहसन्निव ।

उत्तिष्ठ गच्छ भद्रं ते वाञ्छितं सफलं सदा

॥९॥

न शुष्केण न चार्द्रेण न पाषाणेन दारुणा ।

भविष्यति च ते मृत्युरिति सत्यं ब्रवीम्यहम्

॥१०॥

इति दत्त्वा वरं ब्रह्मा जगाम भुवनं परम् ।

वृत्रस्तु तं वरं लब्धा मुदितः स्वगृहं ययौ

॥११॥

शशंस पितुरग्रे तद्वरदानं महामतिः ।

त्वष्टा तु मुदितः प्राप्तं पुत्रं प्राप्तवरं तदा

॥१२॥

स्वस्ति तेऽस्तु महाभाग जहि शक्रं रिपुं मम ।

हत्वागच्छ त्रिशिरसो हन्तारं पापसंयुतम्

॥१३॥

भव त्वं त्रिदशाधीशः सम्प्राप्य विजयं रणे ।

ममाधिं छिन्धि विपुलं पुत्रनाशसमुद्भवम्

॥१४॥

जीवतो वाक्यकरणात्क्षयाहे भूरिभोजनात् ।

गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता

॥१५॥

तस्मात्पुत्र ममात्यर्थं दुःखं नाशितुमर्हसि ।

त्रिशिरा मम चित्तात्तु नापसर्पति कर्हिचित्

॥१६॥

सुशीलः सत्यवादी च तापसो वेदवित्तमः ।

अपराधं विना तेन निहतः पापबुद्धिना

॥१७॥

व्यास उवाच

इति तस्य वचः श्रुत्वा वृत्रः परमदुर्जयः ।

रथमारुह्य तरसा निर्जगाम पितुर्गृहात्

॥१८॥

रणदुन्दुभिनिर्घोषं शङ्खनादं महाबलम् ।

कारयित्वा प्रयाणं स चकार मदगर्वितः

॥१९॥

निर्ययौ नयसंयुक्तः सेवकानिति संवदन् ।

हत्वा शक्रं ग्रहीष्यामि सुरराज्यमकण्टकम्

॥२०॥

इत्युक्त्वा निर्जगामाशु स्वसैन्यपरिवारितः ।

महता सैन्यनादेन भीषयन्नमरावतीम्

॥२१॥

तमागच्छन्तमाज्ञाय तुराषाडपि सत्वरः ।

सेनोद्योगं भयत्रस्तः कारयामास भारत

॥२२॥

सर्वानाहूय तरसा लोकपालानरिन्दमः ।

युद्धार्थं प्रेरयन्सर्वान्व्यरोचत महाद्युतिः

॥२३॥

गृध्रन्व्यूहं ततः कृत्वा संस्थितः पाकशासनः ।

तत्राजगाम वेगात्तु वृत्रः परबलार्दनः

॥२४॥

देवदानवयोस्तावत्संग्रामस्तुमुलोऽभवत् ।

वृत्रवासवयोः संख्ये मनसा विजयैषिणोः

॥२५॥

एवं परस्परं युद्धे सन्दीप्ते भयदे भृशम् ।

आकूतं देवताः प्रापुर्दैत्याश्च परमां मुदम्

॥२६॥

तोमरैर्भिन्दिपालैश्च खड्गैः परशुपट्टिशैः ।

जघ्नुः परस्परं देवदैत्या स्वस्ववरायुधैः

॥२७॥

एवं युद्धे वर्तमाने दारुणे लोमहर्षणे ।

शक्रं जग्राह सहसा वृत्रः क्रोधसमन्वितः

॥२८॥

अपावृत्य मुखे क्षिप्त्वा स्थितो वृत्रः शतक्रतुम् ।

मुदितोऽभून्महाराज पूर्ववैरमनुस्मरन्

॥२९॥

शक्रे ग्रस्तेऽथ वृत्रेण संभ्रान्ता निर्जरास्तदा ।

चुक्रुशः परमार्तास्ते हा शक्रेति मुहुर्मुहुः

॥३०॥

अपावृतं मुखे शक्रं ज्ञात्वा सर्वे दिवौकसः ।

बृहस्पतिं प्रणम्योचुर्दीना व्यथितचेतसः

॥३१॥

किं कर्तव्यं द्विजश्रेष्ठ त्वमस्माकं गुरुः परः ।

शक्रो ग्रस्तस्तु वृत्रेण रक्षितो देवतान्तरैः

॥३२॥

विना शक्रेण किं कुर्मः सर्वे हीनपराक्रमाः ।

अभिचारं कुरु विभो सत्वरः शक्रमुक्तये

॥३३॥

बृहस्पतिरुवाच

किं कर्तव्यं सुराः क्षिप्तो मुखमध्येऽस्ति वासवः ।

वृत्रेणोत्सादितो जीवन्नस्ति कोष्ठान्तरे रिपोः

॥३४॥

व्यास उवाच

देवाश्चिन्तातुराः सर्वे तुरासाहं तथाकृतम् ।

दृष्ट्वा विमृश्य तरसा चक्रुर्यत्नं विमुक्तये

॥३५॥

असृजन्त महासत्त्वां जृम्भिकां रिपुनाशिनीम् ।

ततो विजृम्भमाणः स व्यावृतास्यो बभूव ह

॥३६॥

विजृम्भमाणस्य ततो वृत्रस्यास्यादवापतत् ।

स्वान्यङ्गान्यपि संक्षिप्य निष्क्रान्तो बलसूदनः

॥३७॥

ततः प्रभृति लोकेषु जृम्भिका प्राणिसंस्थिता ।

जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिर्गतम्

॥३८॥

ततः प्रववृते युद्धं तयोर्लोकभयप्रदम् ।

वर्षाणामयुतं यावद्दारुणं लोमहर्षणम्

॥३९॥

एकतश्च सुराः सर्वे युद्धाय समुपस्थिताः ।

एकतो बलवांस्त्वाष्ट्रः संग्रामे समवर्तत

॥४०॥

यदा व्यवर्धत रणे वृत्रो वरमदावृतः ।

पराजितस्तदा शक्रस्तेजसा तस्य धर्षितः

॥४१॥

विव्यथे मघवा युद्धे ततः प्राप्य पराजयम् ।

विषादमगमन्देवा दृष्ट्वा शक्रं पराजितम्

॥४२॥

जग्मुस्त्यक्त्वा रणं सर्वे देवा इन्द्रपुरोगमाः ।

गृहीतं देवसदनं वृत्रेणागत्य रंहसा

॥४३॥

देवोद्यानानिसर्वाणि भुङ्क्तेऽसौ दानवो बलात् ।

ऐरावतोऽपि दैत्येन गृहीतोऽसौ गजोत्तमः

॥४४॥

विमानानि च सर्वाणि गृहीतानि विशाम्पते ।

उच्चैःश्रवा हयवरो जातस्तस्य वशे तदा

॥४५॥

कामधेनुः पारिजातो गणश्चाप्सरसां तथा ।

गृहीतं रत्नमात्रं तु तेन त्वष्ट्टसुतेन ह

॥४६॥

स्थानभ्रष्टाः सुराः सर्वे गिरिदुर्गेषु संस्थिताः ।

दुःखमापुः परिभ्रष्टा यज्ञभागात्सुरालयात्

॥४७॥

वृत्रः सुरपदं प्राप्य बभूव मदगर्वितः ।

त्वष्टातीव सुखं प्राप्य मुमोद सुतसंयुतः

॥४८॥

अमन्त्रयन्हितं देवा मुनिभिः सह भारत ।

किं कर्तव्यमिति प्राप्ते विचिन्त्य भयमोहिताः

॥४९॥

जग्मुः कैलासमचलं सुराः शक्रसमन्विताः ।

महादेवं प्रणम्योचुः प्रह्वाः प्राञ्जलयो भृशम्

॥५०॥

देवदेव महादेव कृपासिन्धो महेश्वर ।

रक्षास्मान्भयभीतांस्तु वृत्रेणातिपराजितान्

॥५१॥

गृहीतं देवसदनं तेन देव बलीयसा ।

किं कर्तव्यमतः शम्भो ब्रूहि सत्यं शिवाद्य नः

॥५२॥

किं कुर्मः क्व च गच्छामः स्थानभ्रष्टा महेश्वर ।

दुःखस्य नाधिगच्छामो विनाशोपायमीश्वर

॥५३॥

साहाय्यं कुरु भूतेश व्यथिताः स्म कृपानिधे ।

वृत्रं जहि मदोत्सिक्तं वरदानबलाद्विभो

॥५४॥

शिव उवाच

ब्रह्माणं पुरतः कृत्वा वयं सर्वे हरेः क्षयम् ।

गत्वा समेत्य तं विष्णुं चिन्तयामो वधोद्यमम्

॥५५॥

स शक्तश्च छलज्ञश्च बलवान्बुद्धिमत्तरः ।

शरण्यश्च दयाब्धिश्च वासुदेवो जनार्दनः

॥५६॥

विना तं देवदेवेशं नार्थसिद्धिर्भविष्यति ।

तस्मात्तत्र च गन्तव्यं सर्वकार्यार्थसिद्धये

॥५७॥

व्यास उवाच

इति सञ्चिन्त्य ते सर्वे ब्रह्मा शक्रः सशङ्करः ।

जग्मुर्विष्णोः क्षयं देवाः शरण्यं भक्तवत्सलम्

॥५८॥

गत्वा विष्णुपदं देवास्तुष्टुवुः परमेश्वरम् ।

हरिं पुरुषसूक्तेन वेदोक्तेन जगद्गुरुम्

॥५९॥

प्रत्यक्षोऽभूज्जगन्नाथस्तेषां स कमलापतिः ।

सम्मान्य च सुरान्सर्वानित्युवाच पुरःस्थितः

॥६०॥

किमागताः स्म लोकेशा हरब्रह्मसमन्विताः ।

कारणं कथयध्वं वः सर्वेषां सुरसत्तमाः

॥६१॥

व्यास उवाच

इति श्रुत्वा हरेर्वाक्यं नोचुर्देवा रमापतिम् ।

चिन्ताविष्टाः स्थिताः प्रायः सर्वेप्राञ्जलयस्तथा

॥६२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥