मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय २३

3
षष्ठस्कन्धः · 23

एकवीरैकावल्योर्विवाहवर्णनम्

व्यास उवाच

तस्यास्तु वचनं श्रुत्वा रमापुत्रः प्रतापवान् ।

प्रफुल्लवदनाम्भोजस्तामुवाच विशाम्पते

॥१॥

राजोवाच

रम्भोरु यस्त्वया पृष्टो वृत्तान्तो विशदाक्षरः ।

हेहयोऽहं चैकवीरनाम्ना सिन्धुसुतासुतः

॥२॥

मनो मे यत्त्वया नूनं परतन्त्रं कृतं किल ।

किं करोमि क्व गच्छामि विरहेणातिपीडितः

॥३॥

प्रथमं रूपमाख्यातं सर्वलोकातिगं त्वया ।

तेन मे विह्वलं जातं कामबाणहतं मनः

॥४॥

ततस्तस्या गुणाः प्रोक्तास्तैस्तु चित्तं हृतं पुनः ।

यत्त्वयोक्तं पुनर्वाक्यं तेन मे विस्मयोऽभवत्

॥५॥

एकावल्या वचः प्रोक्तं दानवाग्रे मया वृतः ।

हैहयस्तं विना नान्यं वृणोमीति विनिश्चयः

॥६॥

तेन वाक्येन तन्वङ्गि भृत्योऽहमधुना कृतः ।

त्वया तस्याः सुकेशान्ते ब्रूहि किं करवाणि वाम्

॥७॥

स्थानं तस्य न जानामि राक्षसस्य दुरात्मनः ।

गतिर्मे नास्ति गमने पुरे तस्मिन्सुलोचने

॥८॥

वद मां त्वं विशालाक्षि तत्र प्रापयितुं क्षमा ।

प्रापयाशु सखी ते सा यत्र तिष्ठति सुन्दरी

॥९॥

हत्वा तं राक्षसं क्रूरं मोचयिष्यामि साम्प्रतम् ।

विवशां शोकसन्तप्तां राजपुत्रीं तव प्रियाम्

॥१०॥

विमुक्तदुःखां कृत्वाऽऽशु प्रापयिष्यामि ते पुरम् ।

पित्रे चास्याः प्रदास्यामि कन्यामेकावलीमहम्

॥११॥

पश्चाद्विवाहं कर्तासौ राजा पुत्र्याः परन्तपः ।

एवं ते मनसः कामो मम चापि प्रियंवदे

॥१२॥

भविष्यति स सम्पूर्णः साधनेन तवाधुना ।

दर्शयाशु पुरं तस्य पश्य मे त्वं पराक्रमम्

॥१३॥

यथा हन्मि दुराचारं परदारापहारकम् ।

तथा कुरु प्रियं कर्तुं शक्तासि वरवर्णिनि

॥१४॥

मार्गं दर्शय तस्याद्य पुरस्य दुर्गमस्य च ।

व्यास उवाच ।

तन्निशम्य प्रियं वाक्यं मुदिता च यशोवती

॥१५॥

तमुवाच रमापुत्रं गमनोपायमादरात् ।

मन्त्रं गृहाण राजेन्द्र भगवत्यास्तु सिद्धिदम्

॥१६॥

दर्शयिष्यामि तस्याद्य पुरं राक्षसपालितम् ।

सज्जो भव महाभाग गमनाय मया सह

॥१७॥

सैन्येन महता युक्तस्तत्र युद्धं भविष्यति ।

कालकेतुर्महावीरो राक्षसैर्बलिभिर्वृतः

॥१८॥

तस्मान्मन्त्रं गृहीत्वा त्वं व्रज तत्र मया सह ।

दर्शयिष्यामि ते मार्गं पुरस्यास्य दुरात्मनः

॥१९॥

हत्वा तं पापकर्माणं मोचयाशु च मे सखीम् ।

श्रुत्वा तद्वचनं वीरो मन्त्रं जग्राह सत्वरः

॥२०॥

दत्तात्रेयाद्दैवयोगात्प्राप्ताज्ज्ञानिवराच्छुभात् ।

योगेश्वरीमहामन्त्रं त्रिलोकीतिलकाभिधम्

॥२१॥

तेन सर्वज्ञता जाता सर्वान्तश्चारिता तथा ।

तया सह जगामाशु पुरं तस्य सुदुर्गमम्

॥२२॥

रक्षितं राक्षसैघोरैः पातालमिव पन्नगैः ।

यशोवत्या च सैन्येन महता संयुतो नृपः

॥२३॥

तमायान्तं समालोक्य दूतास्तस्य भयातुराः ।

क्रोशन्तोऽभिययुः पार्श्वं कालकेतोस्तरस्विनः

॥२४॥

तमूचुः सहसा मत्वा राक्षसं काममोहितम् ।

एकावलीसमीपस्थं कुर्वन्तं विनयान्बहून्

॥२५॥

दूता ऊचुः

राजन् यशोवती नारी कामिन्याः सहचारिणी ।

आयाति सह सैन्येन राजपुत्रेण संयुता

॥२६॥

जयन्तो वा महाराज कार्तिकेयोऽथवा नु किम् ।

आगच्छति बलोन्मत्तो वाहिनीसहितः किल

॥२७॥

संयत्तो भव राजेन्द्र संग्रामः समुपस्थितः ।

देवपुत्रेण युध्यस्व त्यज वा कमलेक्षणाम्

॥२८॥

इतो दूरेऽस्ति सैन्यं तद्योजनत्रयमात्रतः ।

सज्जो भव महीपाल दुन्दुभिं घोषयाशु वै

॥२९॥

व्यास उवाच

तेषां तद्वचनं श्रुत्वा राक्षसः क्रोधमूर्च्छितः ।

राक्षसान्प्रेरयामास सायुधान्सबलान्वहून्

॥३०॥

गच्छध्वं राक्षसाः सर्वे सम्मुखाः शस्त्रपाणयः ।

तानाज्ञाप्य कालकेतुः पप्रच्छ प्रणयान्वितः

॥३१॥

एकावलीं समीपस्थां विवशां भृशदुःखिताम् ।

कोऽयमायाति तन्वङ्गि पिता ते वापरः पुमान्

॥३२॥

त्वदर्थे सैन्यसंयुक्तो ब्रूहि सत्यं कृशोदरि ।

पिता ते यदि सम्प्राप्तो नेतुं त्वां विरहातुरः

॥३३॥

ज्ञात्वा ते पितरं सम्यक् संग्रामं न करोम्यहम् ।

आनयित्वा गृहे पूजां रत्नैर्वस्त्रैर्हयैः शुभैः

॥३४॥

करोमि तस्य चातिथ्यं गृहे प्राप्तस्य सर्वथा ।

अन्यश्चेद्यदि सम्प्राप्तस्तं हन्मि निशितैः शरैः

॥३५॥

आनीतः किल कालेन मरणाय महात्मना ।

तस्माद्वद विशालाक्षि कोऽयमायाति मन्दधीः

॥३६॥

अज्ञात्वा मां दुराधर्षं कालरूपं महाबलम् ।

एकावल्युवाच ।

न जानेऽहं महाभाग कोऽयमायाति सत्वरः

॥३७॥

नमेऽस्ति विदितः कोऽपि स्थितायास्तव बन्धने ।

नायं पिता मे न भ्राता कोऽप्यन्योऽस्ति महाबलः

॥३८॥

किमर्थमिह चायाति नाहं वेद विनिश्चयम् ।

दैत्य उवाच ।

एवं वदन्त्यमी दूता वयस्या ते यशोवती

॥३९॥

समानीय च तं वीरमागतेति कृतोद्यमा ।

क्व गता सा सखी कान्ते विदग्धा कार्यनिश्चये

॥४०॥

नान्यः कोऽपि ममारातिर्यो मे प्रतिबलो भवेत् ।

व्यास उवाच ।

एतस्मिन्नन्तरे दूतास्तत्रान्ये वै समागताः

॥४१॥

ते होचुस्त्वरिता भीताः कालकेतुं गृहे स्थितम् ।

किं स्वस्थोऽसि महाराज समीपे सैन्यमागतम्

॥४२॥

निर्गच्छ नगरात्तूर्णं सैन्येन महताऽऽवृतः ।

इति तेषां वचः श्रुत्वा कालकेतुर्महाबलः

॥४३॥

रथमारुह्य त्वरितो निर्ययौ स्वपुराद्बहिः ।

एकवीरोऽपि सहसा हयारूढः प्रतापवान्

॥४४॥

आगतस्तत्र कामिन्या विरहेण समाकुलः ।

युद्धं तयोरभूत्तत्र वृत्रवासवयोरिव

॥४५॥

शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।

वर्तमाने तदा युद्धे कातराणां भयावहे

॥४६॥

गदया ताडयामास दैत्यं सिन्धुसुतासुतः ।

स गतासुः पपातोर्व्यां वज्राहत इवाचलः

॥४७॥

पलायित्वा गताः सर्वे राक्षसा भयपीडिताः ।

यशोवती ततो गत्वा वेगादेकावलीं तदा

॥४८॥

उवाच मधुरां वाणीं विस्मिता मुदिता भृशम् ।

एह्यालि नृपपुत्रेण दानवोऽसौ निपातितः

॥४९॥

एकवीरेण धीरेण युद्धं कृत्वा सुदारुणम् ।

स्कन्धावारेऽप्यसौ राजा तिष्ठत्यद्य श्रमातुरः

॥५०॥

दर्शनं काङ्क्षमाणस्ते श्रुतरूपगुणस्तव ।

पश्य तं कुटिलापाङ्गि मनोभवसमं नृपम्

॥५१॥

कथिता त्वं मया पूर्वं तस्याग्रे जाह्नवीतटे ।

पूर्णानुरागः सञ्जातस्तेनासौ विरहातुरः

॥५२॥

वाञ्छति त्वां चारुरूपां द्रष्टुं नृपतिनन्दनः ।

सा तस्या वचनं श्रुत्वा गमनाय मनो दधे

॥५३॥

लज्जमाना भृशं भीत्या कौमारं प्राप्तया तया ।

कथं तस्य मुखं द्रक्ष्ये कुमारी ह्यवशा भृशम्

॥५४॥

स मां गृह्णाति कामार्त इति चिन्ताकुला सती ।

यशोवत्या युता तत्र नरयानस्थिता ययौ

॥५५॥

स्कन्धावारेऽतिमलिना मलिनाम्बरधारिणी ।

तामागतां विशालाक्षीं दृष्ट्वा राजसुतोऽब्रवीत्

॥५६॥

दर्शनं देहि तन्वङ्गि तृषिते नयने मम ।

कामातुरं च तं वीक्ष्य तां च लज्जाभरावृताम्

॥५७॥

नीतिज्ञा शिष्टमार्गज्ञा तमुवाच यशोवती ।

राजपुत्र पिताप्यस्यास्त्वामेनां दातुमिच्छति

॥५८॥

एषापि त्वद्वशा नूनं भविता सङ्गमस्तव ।

कालं प्रतीक्ष्य राजेन्द्र नयैनां पितुरन्तिकम्

॥५९॥

स विवाहविधिं कृत्वा दास्यतीति विनिश्चयः ।

स तस्या वचनं तथ्यं मत्वा सैन्यसमन्वितः

॥६०॥

समेतः कामिनीभ्यां तु ययौ तत्पितुराश्रमम् ।

राजपुत्रीं तथायातां श्रुत्वा प्रेमसमन्वितः

॥६१॥

प्रययौ सम्मुखस्तूर्णं सचिवैः परिवेष्टितः ।

बहुभिर्दिवसैर्दृष्टा पुत्री सा मलिनाम्बरा

॥६२॥

यशोवत्या तु वृत्तान्तः कथितो विस्तरात्पुनः ।

एकवीरं मिलित्वासौ गृहमानीय चादरात्

॥६३॥

पुण्येऽह्नि कारयामास विवाहं विधिपूर्वकम् ।

पारिबर्हं ततो दत्त्वा सम्पूज्य विधिवत्तदा

॥६४॥

पुत्रीं विसर्जयामास यशोवत्या समन्विताम् ।

एवं विवाहे संवृत्ते रमापुत्रो मुदान्वितः

॥६५॥

गृहं प्राप्य बहून्भोगाम्बुभुजे प्रियया समम् ।

बभूव तस्यां पुत्रस्तु कृतवीर्याभिधः किल ।

तत्सुतः कार्तवीर्यस्तु वंशोऽयं कथितो मया

॥६६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे एकवीरैकावल्योर्विवाहवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥