मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय ९

3
षष्ठस्कन्धः · 9

नहुषस्वर्गच्युतिवर्णनम्

व्यास उवाच

तां वीक्ष्य विपुलापाङ्गीं रहः शोकसमन्विताम् ।

आखण्डलः प्रियां भार्यां विस्मितश्चाब्रवीत्तदा

॥१॥

कथमत्रागता कान्ते कथं ज्ञातस्त्वया ह्यहम् ।

दुर्ज्ञेयः सर्वभूतानां संस्थितोऽस्मि शुभानने

॥२॥

शच्युवाच

देव देव्याः प्रसादेन ज्ञातोऽस्यद्य भवानिह ।

पुनस्तस्याः प्रसादेन प्राप्तास्मि त्वां दिवस्पते

॥३॥

नहुषो नाम राजर्षिः स्थापितो भवदासने ।

त्रिदशैर्मुनिभिश्चैव स मां बाधति नित्यशः

॥४॥

पतिं मां कुरु चार्वङ्गि: तुरासाहं सुराधिपम् ।

एवं वदति मां पाप्मा किं करोमि बलार्दन

॥५॥

इन्द्र उवाच

कालाकाङ्क्षी वरारोहे संस्थितोऽस्मि यदृच्छया ।

तथा त्वमपि कल्याणि सुस्थिरं स्वमनः कुरु

॥६॥

व्यास उवाच

इत्युक्ता तेन सा देवी पतिनातिप्रशंसिना ।

निःश्वसन्त्याह तं शक्रं वेपमानातिदुःखिता

॥७॥

कथं तिष्ठे महाभाग पापात्मा मां वशानुगाम् ।

करिष्यति मदोन्मत्तो वरदानेन गर्वितः

॥८॥

देवाश्च मुनयः सर्वे मामूचुस्तद्भयाकुलाः ।

तं भजस्व वरारोहे देवराजं स्मरातुरम्

॥९॥

बृहस्पतिस्तु शत्रुघ्न वाडवो बलवर्जितः ।

कथं मां रक्षितुं शक्तो भवेद्देवानुगः सदा

॥१०॥

तस्माच्चिन्तास्ति महती नार्यहं वशवर्तिनी ।

अनाथा किं करिष्यामि विपरीते विधौ विभो

॥११॥

नार्यस्म्यहं न कुलटा त्वच्चित्तातिपतिव्रता ।

नास्ति मे शरणं तत्र यो मां रक्षति दुःखिताम्

॥१२॥

इन्द्र उवाच

उपायं प्रब्रवीम्यद्य तं कुरुष्व वरानने ।

शीलं ते दुःखिते काले परित्रातं भविष्यति

॥१३॥

परेण रक्षिता नारी न भवेच्च पतिव्रता ।

उपायैः कोटिभिः कामभिन्नचित्तातिचञ्चला

॥१४॥

शीलमेव हि नारीणां सदा रक्षति पापतः ।

तस्मात्त्वं शीलमास्थाय स्थिरा भव शुचिस्मिते

॥१५॥

यदा त्वां नहुषो राजा बलादाकर्षयेत्खलः ।

तदा त्वं समयं कृत्वा गजं वञ्चय भूपतिम्

॥१६॥

एकान्ते तत्समीपे त्वं गत्वा वद मदालसे ।

ऋषियानेन दिव्येन मामुपैहि जगत्पते

॥१७॥

एवं तव वशे प्रीता भविष्यामीति मे ततम् ।

इति तं वद सुश्रोणि तदा तु परिमोहितः

॥१८॥

कामान्धः स मुनीन् याने योजयिष्यति पार्थिवः ।

अवश्यं तापसो भूपं शापदग्धं करिष्यति

॥१९॥

साहाय्यं जगदम्बा ते करिष्यति न संशयः ।

जगदम्बापदस्मर्तुः सङ्कटं न कदाचन

॥२०॥

यदि जायेत तच्चापि ज्ञेयं तत्स्वस्तये किल ।

तस्मात्सर्वप्रयत्नेन मणिद्वीपाधिवासिनीम्

॥२१॥

भज त्वं भुवनेशानीं गुरुवाक्यानुसारतः ।

व्यास उवाच ।

इत्याख्याता शची तेन जगाम नहुषं प्रति

॥२२॥

तथेत्युक्त्वातिविश्वस्ता भाविकार्ये कृतोद्यमा ।

नहुषस्तां समालोक्य मुदितो वाक्यमब्रवीत्

॥२३॥

स्वागतं सत्यवचनैस्त्वदधीनोऽस्मि कामिनि ।

दासोऽहं तव सत्येन पालितं वचनं त्वया

॥२४॥

यदागता समीपे मे तुष्टोऽस्मि मितभाषिणि ।

न च व्रीडा त्वया कार्या भक्तं मां भज सुस्मिते

॥२५॥

कार्यं वद विशालाक्षि करिष्यामि तव प्रियम् ।

शच्युवाच ।

सर्वं कृतं त्वया कार्यं मम कृत्रिमवासव

॥२६॥

मनोरथोऽस्ति मे देव शृणु चित्तेऽधुना विभो ।

वाञ्छितं कुरु कल्याण त्वद्वशाहमतः परम्

॥२७॥

ब्रवीमि मानसोत्साहं त्वं तं कर्तुमिहार्हसि ।

नहुष उवाच ।

कार्यं त्वं ब्रूहि चन्द्रास्ये करोमि तव वाञ्छितम्

॥२८॥

अलभ्यमपि दास्यामि तुभ्यं सुभ्रु वदस्व माम् ।

शच्युवाच ।

कथं ब्रवीमि राजेन्द्र प्रत्ययो नास्ति मे तव

॥२९॥

शपथं कुरु राजेन्द्र यत्करोमि प्रियं तव ।

राजानः सत्यवचसो दुर्लभा एव भूतले

॥३०॥

पश्चाद्ब्रवीम्यहं राजन् ज्ञात्वा सत्येन यन्त्रितम् ।

कृते चेद्वाञ्छिते भूप सदा ते वशवर्तिनी

॥३१॥

भविष्यामि तुराषाड् वै सत्यमेतद्वचो मम ।

नहुष उवाच ।

अवश्यमेव कर्तव्यं वचनं तव सुन्दरि

॥३२॥

शपामि सुकृतेनाहं यज्ञदानकृतेन वै ।

शच्युवाच ।

इन्द्रस्य हरयो वाहा गजश्चैव रथस्तथा

॥३३॥

गरुडो वासुदेवस्य यमस्य महिषस्तथा ।

वृषभः शङ्करस्यापि ब्रह्मणो वरटापतिः

॥३४॥

मयूरः कार्तिकेयस्य गजास्यस्य तु मूषकः ।

इच्छाम्यहमपूर्वं वै वाहनं ते सुराधिप

॥३५॥

यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् ।

वहन्तु त्वां महाराज मुनयः संशितव्रताः

॥३६॥

सर्वे शिबिकया राजन्नेतद्धि मम वाञ्छितम् ।

सर्वदेवाधिकं त्वां वै जानामि वसुधाधिप

॥३७॥

तेन ते तेजसो वृद्धिं वाञ्छाम्यहमतन्द्रिता ।

व्यास उवाच ।

तस्यास्तद्वचनं श्रुत्वा प्रहस्य ज्ञानदुर्बलः

॥३८॥

मोहितस्तु महादेव्या कृतमोहेन तत्क्षणम् ।

उवाच वचनं भूपः संस्तुवन्वासवप्रियाम्

॥३९॥

नहुष उवाच

सत्यमुक्तं त्वया तन्वि वाहनं रुचिरं मम ।

करिष्यामि सुकेशान्ते वचनं तव सर्वथा

॥४०॥

न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् ।

अहमारुह्य यानेन त्वामेष्यामि शुचिस्मिते

॥४१॥

सप्तर्षयो मां वक्ष्यन्ति सर्वे देवर्षयस्तथा ।

समर्थं त्रिषु लोकेषु ज्ञात्वा मां तपसाधिकम्

॥४२॥

व्यास उवाच

इत्युक्त्वा तां सुसन्तुष्टो विससर्ज हरिप्रियाम् ।

मुनीनाहूय सर्वास्तानित्युवाच स्मरान्वितः

॥४३॥

नहुष उवाच

अहमिन्द्रोऽद्य भो विप्राः सर्वशक्तिसमन्वितः ।

कार्यमत्र प्रकुर्वन्तु भवन्तो विगतस्मयाः

॥४४॥

इन्द्रासनं मया प्राप्तं नेन्द्राणी मामुपैति च ।

आकारिता च मां सूते प्रेमपूर्वमिदं वचः

॥४५॥

मुनियानेन देवेन्द्र मामुपैहि सुराधिप ।

देवदेव महाराज मत्प्रियं कुरु मानद

॥४६॥

एतत्कार्यं मुनिश्रेष्ठा ममात्यन्तं दुरासदम् ।

भवद्भिस्तु प्रकर्तव्यं सर्वथैव दयालुभिः

॥४७॥

मनो दहति मे कामः शक्रपत्न्यां प्रवर्तितम् ।

भवन्तः शरणं मेऽद्य कुरुध्वं कार्यमद्भुतम्

॥४८॥

अगस्तिप्रमुखास्तस्य श्रुत्वा वाक्यमसत्करम् ।

अङ्गीचक्रुश्च भावित्वात्कृपया परमर्षयः

॥४९॥

अङ्गीकृतेऽथ तद्वाक्ये मुनिभिस्तत्त्वदर्शिभिः ।

मुदं प्राप नृपः कामं पौलोमीकृतमानसः

॥५०॥

आरुह्य शिबिकां रम्यां संस्थितस्त्वरयान्वितः ।

वाहान्कृत्वा मुनीन्दिव्यान्सर्प सर्पेति चाब्रवीत्

॥५१॥

कामार्तः सोऽस्पृशन्मूढः पादेन मुनिमस्तकम् ।

अगस्तिं तापसश्रेष्ठं लोपामुद्रापतिं तदा

॥५२॥

वातापिभक्षकर्तारं समुद्रस्यापि शोषकम् ।

कशया ताडयामास पञ्चबाणशराहतः

॥५३॥

इन्द्राणीहृतचित्तोऽसौ सर्पेति प्रब्रुवन्मुनिम् ।

तं शशाप मुनिः क्रुद्धः कशाघातमनुस्मरन्

॥५४॥

सर्पो भव दुराचार वने घोरवपुर्महान् ।

बहुवर्षसहस्राणि यत्र क्लेशो महान्भवेत्

॥५५॥

विचरिष्यसि वीर्येण पुनः स्वर्गमवाप्स्यसि ।

दृष्ट्वा युधिष्ठिरं नाम तव मोक्षो भविष्यति

॥५६॥

प्रश्नानामुत्तरं श्रुत्वा धर्मपुत्रमुखात्ततः ।

व्यास उवाच ।

एवं शप्तः स राजर्षिः स्तुत्वा तं मुनिसत्तमम्

॥५७॥

स्वर्गात्पपात सहसा सर्परूपधरोऽभवत् ।

बृहस्पतिस्ततो गत्वा तरसा मानसं प्रति

॥५८॥

इन्द्राय सर्ववृत्तान्तं कथयामास विस्तरात् ।

तच्छ्रुत्वा मघवा राज्ञः स्वर्गात्प्रच्यवनादिकम्

॥५९॥

मुदितोऽभून्महाराज स्थितस्तत्रैव वासवः ।

देवाश्च मुनयो दृष्ट्वा नहुषं पतितं भुवि

॥६०॥

जग्मुः सर्वेऽपि तत्रैव यत्रेन्द्रः सरसि स्थितः ।

तमाश्वास्य सुराः सर्वे मुनिभिः सहितास्तदा

॥६१॥

स्वर्गे समानयामासुर्मानपूर्वं शचीपतिम् ।

समागतं ततः शक्रं सर्वे ते मुनयः सुराः

॥६२॥

स्थापयित्वाऽऽसने पश्चादभिषेकं दधुः शिवम् ।

इन्द्रोऽपि स्वासनं प्राप्य शच्या सह सुरालये

॥६३॥

चिक्रीड नन्दने रम्ये कानने प्रेमयुक्तया ।

व्यास उवाच ।

एवमिन्द्रेण सम्प्राप्तं दुःखं परमदारुणम्

॥६४॥

हत्वासुरं कामरूपं विश्वरूपं महामुनिम् ।

पुनर्देव्याः प्रसादेन स्वस्थानं प्राप्तवान्नृप

॥६५॥

एतत्ते सर्वमाख्यातं वृत्रासुरवधाश्रयम् ।

यत्पृष्टोऽहं त्वया राजन् कथानकमनुत्तमम्

॥६६॥

यादृशं कुरुते कर्म तादृशं फलमाप्नुयात् ।

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्

॥६७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नहुषस्वर्गच्युतिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥