मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय १५

3
षष्ठस्कन्धः · 15

देवीमहिम्नि नानाभाववर्णनम्

जनमेजय उवाच

देहप्राप्तिर्वसिष्ठस्य कथिता भवता किल ।

निमिः कथं पुनर्देहं प्राप्तवानिति मे वद

॥१॥

व्यास उवाच

वसिष्ठेन च सम्प्राप्तः पुनर्देहो नराधिप ।

निमिना न तथा प्राप्तो देहः शापादनन्तरम्

॥२॥

यदा शप्तो वसिष्ठेन तदा ते ब्राह्मणाः क्रतौ ऋत्विजो ये वृता राज्ञा ते सर्वे समचिन्तयन्

॥३॥

किं कर्तव्यमहोऽस्माभिः शापदग्धो महीपतिः ।

अस्मिन्यज्ञे त्वसम्पूर्णे दीक्षायुक्तश्च धार्मिकः

॥४॥

किं कर्तव्यं कार्यमेतद्विपरीतमभूत्किल ।

अवश्यम्भाविभावत्वादशक्ताः स्म निवारणे

॥५॥

मन्त्रैर्बहुविधैर्देहं तदा तस्य महात्मनः ।

रक्षितं धारयामासुः किञ्चिच्छ्वसनसंयुतम्

॥६॥

गन्धैर्माल्यैश्च विविधैः पूज्यमानं मुहुर्मुहुः ।

मन्त्रशक्त्या प्रतिष्टभ्य निर्विकारं सुपूजितम्

॥७॥

समाप्ते च क्रतौ तत्र देवाः सर्वे समागताः ।

ऋत्विग्भिस्तु स्तुताः सर्वे सुप्रीताश्चाभवन्नृप

॥८॥

विज्ञप्ता मुनिभिः स्तोत्रैर्निर्विण्णात्मानमब्रुवन् ।

प्रसन्नाः स्म महीपाल वरं वरय सुव्रत

॥९॥

यज्ञेनानेन राजर्षे वरं जन्म विधीयते ।

देवदेहं नृदेहं वा यत्ते मनसि वाञ्छितम्

॥१०॥

दृप्तः कामं पुरोधास्ते मृत्युलोके यथासुखम् ।

एवमुक्तो निमेरात्मा सन्तुष्टस्तानुवाच ह

॥११॥

न देहे मम वाञ्छास्ति सर्वदैव विनश्वरे ।

वासो मे सर्वसत्त्वानां दृष्टावस्तु सुरोत्तमाः

॥१२॥

नेत्रेषु सर्वभूतानां वायुभूतश्चराम्यहम् ।

एवमुक्ताः सुरास्तत्र निमेरात्मानमब्रुवन्

॥१३॥

प्रार्थय त्वं महाराज देवीं सर्वेश्वरीं शिवाम् ।

मखेनानेन सन्तुष्टा सा तेऽभीष्टं विधास्यति

॥१४॥

स देवैरेवमुक्तस्तु प्रार्थयामास देवताम् ।

स्तोत्रैर्नानाविधैर्दिव्यैर्भक्त्या गद्गदया गिरा

॥१५॥

प्रसन्ना सा तदा देवी प्रत्यक्षं दर्शनं ददौ ।

कोटिसूर्यप्रतीकाशं रूपं लावण्यदीपितम् ।

१६ दृष्ट्वा प्रमुदिताः सर्वे कृतकृत्याश्च चेतसि ।

प्रसन्नायां देवतायां राजा वव्रे वरं नृप

॥१७॥

ज्ञानं तद्विमलं देहि येन मोक्षो भवेदपि ।

नेत्रेषु सर्वभूतानां निवासो मे भवेदिति

॥१८॥

ततः प्रसन्ना देवेशी प्रोवाच जगदम्बिका ।

ज्ञानं ते विमलं भूयात्प्रारब्धस्यावशेषतः

॥१९॥

नेत्रेषु सर्वभूतानां निवासोऽपि भविष्यति ।

निमिषं यान्ति चक्षूंषि त्वत्कृतेनैव देहिनाम्

॥२०॥

तव वासात्सनिमिषा मानवाः पशवस्तथा ।

पतङ्गाश्च भविष्यन्ति पुनश्चानिमिषाः सुराः

॥२१॥

इति दत्त्वा वरं तस्मै तदा श्रीवरदेवता ।

आमन्त्र्य च मुनीन्सर्वांस्तत्रैवान्तर्हिताभवत्

॥२२॥

अन्तर्हितायां देव्यां तु मुनयस्तत्र संस्थिताः ।

विचिन्त्य विथिवत्सर्वे निमेर्देहं समाहरन्

॥२३॥

अरणिं तत्र संस्थाप्य ममन्धुर्मन्त्रवत्तदा ।

मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेरथ

॥२४॥

अरण्यां मथ्यमानायां पुत्रः प्रादुरभूत्तदा ।

सर्वलक्षणसम्पन्नः साक्षान्निमिरिवापरः

॥२५॥

अरण्या मथनाज्जातस्तस्मान्मिथिरिति स्मृतः ।

येनायं जनकाज्जातस्तेनासौ जनकोऽभवत्

॥२६॥

विदेहस्तु निमिर्जातो यस्मात्तस्मात्तदन्वये ।

समुद्भूतास्तु राजानो विदेहा इति कीर्तिताः

॥२७॥

एवं निमिसुतो राजा प्रथितो जनकोऽभवत् ।

नगरी निर्मिता तेन गङ्गातीरे मनोहरा

॥२८॥

मिथिलेति सुविख्याता गोपुराट्टालसंयुता ।

धनधान्यसमायुक्ता हट्टशालाविराजिता

॥२९॥

वंशेऽस्मिन्येऽपि राजानस्ते सर्वे जनकास्तथा ।

विख्याता ज्ञानिनः सर्वे विदेहाः परिकीर्तिताः

॥३०॥

एतत्ते कथितं राजन्निमेराख्यानमुत्तमम् ।

शापाद्यस्य विदेहत्वं विस्तरादुदितं मया

॥३१॥

राजोवाच

भगवन्भवता प्रोक्तं निमिशापस्य कारणम् ।

श्रुत्वा सन्देहमापन्नं मनो मेऽतीव चञ्चलम्

॥३२॥

वसिष्ठो ब्राह्मणः श्रेष्ठो राज्ञश्चैव पुरोहितः ।

पुत्रः पङ्कजयोनेस्तु राज्ञा शप्तः कथं मुनिः

॥३३॥

गुरुं च ब्राह्मणं ज्ञात्वा निमिना न कृता क्षमा ।

यज्ञकर्म शुभं कृत्वा कथं क्रोधमुपागतः

॥३४॥

ज्ञात्वा धर्मस्य विज्ञानं कथमिक्ष्वाकुसम्भवः ।

क्रोधस्य वशमापन्तः शप्तवान्ब्राह्मणं गुरुम्

॥३५॥

व्यास उवाच

क्षमातिदुर्लभा राजन्प्राणिभिरजितात्मभिः ।

क्षमावान्दुर्लभो लोके सुसमर्थो विशेषतः

॥३६॥

सर्वसङ्गपरित्यागी मुनिर्भवतु तापसः ।

निद्राक्षुधोर्विजेता च योगाभ्यासे सुनिष्ठितः

॥३७॥

कामः क्रोधस्तथा लोभो ह्यहङ्कारश्चतुर्थकः ।

दुर्ज्ञेया देहमध्यस्था रिपवस्तेन सर्वथा

॥३८॥

न भूतपूर्वः संसारे न चैव वर्ततेऽधुना ।

भविता न पुमान्कश्चिद्यो जयेत रिपूनिमान्

॥३९॥

न स्वर्गे न च भूलोके ब्रह्मलोके हरेः पदे ।

कैलासे नेदृशः कश्चिद्यो जयेत रिपूनिमान्

॥४०॥

मुनयो ब्रह्मपुत्राश्च तथान्ये तापसोत्तमाः ।

तेऽपि गुणत्रयाविद्धाः किं पुनर्मानवा भुवि

॥४१॥

कपिलः सांख्यवेत्ता च योगाभ्यासरतः शुचिः ।

तेनापि दैवयोगाद्धि प्रदग्धाः सगरात्मजाः

॥४२॥

तस्माद्राजन्नहङ्कारात्सञ्जातं भुवनत्रयम् ।

कार्यकारणभावात्तु तद्वियुक्तं कथं भवेत्

॥४३॥

ब्रह्मा गुणत्रयाविष्टो विष्णुश्चैवाथ शङ्करः ।

प्रभवन्ति शरीरेषु तेषां भावाः पृथक्पृथक्

॥४४॥

मानवानां च का वार्ता सत्त्वैकान्तव्यवस्थितौ ।

गुणानां सङ्करो राजन्सर्वत्र समवस्थितः

॥४५॥

कदाचित्सत्त्ववृद्धिः स्यात्कदाचिद्रजसः किल ।

कदाचित्तमसो वृद्धिः समभावः कदाचन

॥४६॥

निर्गुणः परमात्मासौ निर्लेपः परमोऽव्ययः ।

अलक्ष्यः सर्वसत्त्वानामप्रमेयः सनातनः

॥४७॥

तथैव परमा शक्तिर्निर्गुणा ब्रह्मसंस्थिता ।

दुर्ज्ञेया चाल्पमतिभिः सर्वभूतव्यवस्थितिः

॥४८॥

परात्मनस्तथा शक्तेस्तयोरैक्यं सदैव हि ।

अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते सर्वदोषतः

॥४९॥

तज्ज्ञानादेव मोक्षः स्यादिति वेदान्तडिण्डिमः ।

यो वेद स विमुक्तोऽस्मिन्संसारे त्रिगुणात्मके

॥५०॥

ज्ञानं तु द्विविधं प्रोक्तं शाब्दिकं प्रथमं स्मृतम् ।

वेदशास्त्रार्थविज्ञानात्तद्भवेद्बुद्धियोगतः

॥५१॥

विकल्पास्तत्र बहवो भवन्ति मतिकल्पिताः ।

(कुतर्ककल्पिताः केचित्सतर्ककल्पिताः परे ।

वितर्कैर्विभ्रमोत्पत्तिर्विभ्रमाद्बुद्धिभ्रंशता ।

बुद्धिभ्रंशाज्ज्ञाननाशः प्राणिनां परिकीर्तितः ।

) अनुभवाख्यं द्वितीयं तु ज्ञानं तद्दुर्लभं नृप

॥५२॥

तत्तदा प्राप्यते तस्य वेत्तुः सङ्गो यदा भवेत् ।

शब्दज्ञानान्न कार्यस्य सिद्धिर्भवति भारत

॥५३॥

तस्मान्नानुभवज्ञानं सम्भवत्यतिमानुषम् ।

अन्तर्गतं तमश्छेत्तुं शाब्दबोधो हि न क्षमः

॥५४॥

यथा न नश्यति तमः कृतया दीपवार्तया ।

तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये

॥५५॥

आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ।

शीलं परहितत्वं च कोपाभावः क्षमा धृतिः

॥५६॥

सन्तोषश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् ।

विद्यया तपसा वापि योगाभ्यासेन भूपते

॥५७॥

विना कामादिशत्रूणां नैव नाशः कदाचन ।

(मनस्तु चञ्चलं रास्वभावादतिदुर्ग्रहम् ।

तद्वशः सर्वथा प्राणी त्रिविधो भुवनत्रये ।

) कामक्रोधादयो भावाश्चित्तजाः परिकीर्तिताः

॥५८॥

ते तदा न भवन्त्येव यदा वै निर्जितं मनः ।

तस्मात्तु निमिना राजन्न क्षमा विहिता मुनौ

॥५९॥

यथा ययातिना पूर्वं कृता शुक्रे कृतागसि ।

भृगुपुत्रेण शप्तोऽपि ययातिर्नृपसत्तमः

॥६०॥

न शशाप मुनिं क्रोधाज्जरां राजा गृहीतवान् ।

कश्चित्सौम्यो भवेत्कश्चित्क्रूरो भवति पार्थिवः

॥६१॥

स्वभावभेदान्नृपते कस्य दोषोऽत्र कल्प्यते ।

हैहया भार्गवान्पूर्वं धनलोभात्पुरोहितान्

॥६२॥

ब्राह्मणान्मूलतः सर्वांश्चिच्छिदुः क्रोधमूर्च्छिताः ।

पातकं पृष्ठतः कृत्वा ब्रह्महत्यासमुद्भवम्

॥६३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे देवीमहिम्नि नानाभाववर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥