मायाप्राबल्यवर्णनम्
नारद उवाच
मां दृष्ट्वा नारदं विप्रं विस्मितोऽसौ महीपतिः ।
क्व गता मम भार्या सा कुतोऽयं मुनिसत्तमः
॥१॥विललाप नृपस्तत्र हा प्रियेति मुहुर्मुहुः ।
क्व गता मां परित्यज्य विलपन्तं वियोगिनम्
॥२॥विना त्वां विपुलश्रोणि वृथा मे जीवितं गृहम् ।
राज्यं कमलपत्राक्षि किं करोमि शुचिस्मिते
॥३॥न प्राणा मे बहिर्यान्ति विरहेण तवाधुना ।
गतो वै प्रीतिधर्मस्तु त्वामृते प्राणधारणात्
॥४॥विलपामि विशालाक्षि देहि प्रत्युत्तरं प्रियम् ।
क्व गता सा मयि प्रीतिर्याभूत्प्रथमसङ्गमे
॥५॥निमग्ना किं जले सुभ्रूर्भक्षिता मत्स्यकच्छपैः ।
गृहीता वरुणेनाशु मम दौर्भाग्ययोगतः
॥६॥धन्या सुचारुसर्वाङ्गि या त्वं पुत्रैः समागता ।
अकृत्रिमस्तु पुत्रेषु स्नेहस्तेऽमृतभाषिणि
॥७॥न युक्तमधुना यन्मां विहाय त्रिदिवं गता ।
विलपन्तं पतिं दीनं पुत्रस्नेहेन यन्त्रिता
॥८॥उभयं मे गतं कान्ते पुत्रास्त्वं प्राणवल्लभा ।
तथापि मरणं नास्ति दुःखितस्य भृशं प्रिये
॥९॥किं करोमि क्व गच्छामि रामो नास्ति महीतले ।
रामाविरहजं दुःखं जानाति रघुनन्दनः
॥१०॥विधिना निष्ठुरेणात्र विपरीतं कृतं भुवि ।
दम्पत्योर्मरणं भिन्नं सर्वथा समचित्तयोः
॥११॥उपकारस्तु नारीणां मुनिभिर्विहितः किल ।
यदुक्तं धर्मशास्त्रेषु ज्वलनं पतिना सह
॥१२॥एवं विलपमानं तं राजानं भगवान्हरिः ।
निवारयामास तदा वचनैर्युक्तियोजितैः
॥१३॥श्रीभगवानुवाच
किं विषीदसि राजेन्द्र क्व गता ते प्रियाङ्गना ।
न श्रुतं किं त्वया शास्त्रं न कृतोऽसौ बुधाश्रयः
॥१४॥का सा कस्त्वं क्व संयोगो वियोगः कीदृशस्तव ।
प्रवाहरूपे संसारे नृणां नौतरतामिव
॥१५॥गृहे गच्छ नृपश्रेष्ठ वृथा ते रुदितेन किम् ।
संयोगश्च वियोगश्च दैवाधीनः सदा नृणाम्
॥१६॥अनया सह ते राजन् संयोगस्त्विह संवृतः ।
भुक्ता त्वया विशालाक्षी सुन्दरी तनुमध्यमा
॥१७॥न दृष्टौ पितरावस्यास्त्वया प्राप्ता सरोवरे ।
काकतालीप्रसङ्गेन यद्भूतं तत्तथा गतम्
॥१८॥मा शोकं कुरु राजेन्द्र कालो हि दुरतिक्रमः ।
कालयोगं समासाद्य भुङ्क्ष्व भोगान् गृहे यथा
॥१९॥यथागता गता सा तु तथैव वरवर्णिनी ।
यथा पूर्वं तथा तत्र गच्छ कार्यं कुरु प्रभो
॥२०॥रुदितेन तवाद्यैव नागमिष्यति कामिनी ।
वृथा शोचसि पृध्वीश योगयुक्तो भवाधुना
॥२१॥भोगः कालवशादेति तथैव प्रतियाति च ।
नात्र शोकस्तु कर्तव्यो निष्फले भववर्त्मनि
॥२२॥नैकत्र सुखसंयोगो दुःखयोगस्तु नैकतः ।
घटिकायन्त्रवत्कामं भ्रमणं सुखदुःखयोः
॥२३॥मनः कृत्वा स्थिरं भूप कुरु राज्यं यथासुखम् ।
अथवा न्यस्य दायादे वनं सेवय साम्प्रतम्
॥२४॥दुर्लभो मानुषो देहः प्राणिनां क्षणभङ्गुरः ।
तस्मिन्प्राप्ते तु कर्तव्यं सर्वथैवात्मसाधनम्
॥२५॥जिह्वोपस्थरसो राजन् पशुयोनिषु वर्तते ।
ज्ञानं मानुषदेहे वै नान्यासु च कुयोनिषु
॥२६॥तस्माद्गच्छ गृहं त्यक्त्वा शोकं कान्तासमुद्भवम् ।
मायेयं भगवत्यास्तु यया सम्मोहितं जगत्
॥२७॥नारद उवाच
इत्युक्तो हरिणा राजा प्रणम्य कमलापतिम् ।
कृत्वा स्नानविधिं सम्यग्जगाम निजमन्दिरम्
॥२८॥दत्त्वा राज्यं स्वपौत्राय प्राप्य निर्वेदमद्भुतम् ।
वनं जगाम भूपालस्तत्त्वज्ञानमवाप च
॥२९॥गते राजन्यहं वीक्ष्य भगवन्तमधोक्षजम् ।
तमब्रवं जगन्नाथं हसन्तं मां पुनः पुनः
॥३०॥वञ्चितोऽहं त्वया देव ज्ञातं मायाबलं महत् ।
स्मरामि चरितं सर्वं स्त्रीदेहे यत्कृतं मया
॥३१॥ब्रूहि मे देवदेवेश प्रविष्टोऽहं सरोवरे ।
विगतं पूर्वविज्ञानं स्नानादेव कथं हरे
॥३२॥योषिद्देहं समासाद्य मोहितोऽहं जगद्गुरो ।
पतिं प्राप्य नृपश्रेष्ठं पुलोमी वासवं यथा
॥३३॥मनस्तदेव तच्चित्तं देहः स च पुरातनः ।
लिङ्गं तदेव देवेश स्मृतेर्नाशः कथं हरे
॥३४॥विस्मयोऽयं महान्मेऽत्र ज्ञाननाशं प्रति प्रभो ।
कथयाद्य रमाकान्त कारणं परमं च यत्
॥३५॥नारीदेहं मया प्राप्य भुक्ता भोगा ह्यनेकशः ।
सुरापानं कृतं नित्यं विधिहीनं च भोजनम्
॥३६॥मया तदेव न ज्ञातं नारदोऽहमिति स्फुटम् ।
जानाम्यद्य यथा सर्वं विविक्तं न तथा तदा
॥३७॥विष्णुरुवाच
पश्य नारद मायावी विलासोऽयं महामते ।
देहेषु सर्वजन्तूनां दशाभेदा ह्यनेकशः
॥३८॥जाग्रत्स्वप्नसुषुप्तिश्च तुरीया देहिनां दशा ।
तथा देहान्तरे प्राप्ते सन्देहः कीदृशः पुनः
॥३९॥सुप्तो नरो न जानाति न शृणोति वदत्यपि ।
पुनः प्रबुद्धो जानाति सर्वं ज्ञातमशेषतः
॥४०॥निद्रया चाल्यते चित्तं भवन्ति स्वप्नसम्भवाः ।
नानाविधा मनोभेदा मनोभावा ह्यनेकशः
॥४१॥गजो मां हन्तुमायाति न शक्तोऽस्मि पलायने ।
किं करोमि न मे स्थानं यत्र गच्छामि सत्वरः
॥४२॥मृतं पितामहं स्वप्ने पश्यति स्वगृहागतम् ।
संयोगस्तेन वार्ता च भोजनं सह मन्यते
॥४३॥प्रबुद्धः खलु जानाति स्वप्ने दृष्टं सुखासुखम् ।
स्मृत्वा सर्वं जनेभ्यस्तु विस्तरात्प्रवदत्यपि
॥४४॥स्वप्नेकोऽपि न जानाति भ्रमोऽयमिति निश्चयः ।
तथा तथैव विभवो मायाया दुर्गमः किल
॥४५॥नाहं नारद जानामि पारं परमदुर्घटम् ।
गुणानां किल मायाया नैव शम्भुर्न पद्मजः
॥४६॥कोऽन्यो ज्ञातुं समर्थोऽभून्मानतो मन्दधीः पुनः ।
मायागुणपरिज्ञानं न कस्यापि भवेदिह
॥४७॥गुणत्रयकृतं सर्वं जगत्स्थावरजङ्गमम् ।
विना गुणैर्न संसारो वर्तते किञ्चिदप्यदः
॥४८॥अहं सत्त्वप्रधानोऽस्मि रजस्तमसमन्वितः ।
न कदाचित्त्रिभिर्हीनो भवामि भुवनेश्वरः
॥४९॥तथा ब्रह्मा पिता तेऽत्र रजोमुख्यः प्रकीर्तितः ।
तमःसत्त्वसमायुक्तो न ताभ्यामुज्झितः किल
॥५०॥शिवस्तथा तमोमुख्यो रजःसत्त्वसमावृतः ।
गुणत्रयविहीनस्तु नैव कोऽपि मया श्रुतः
॥५१॥तस्मान्मोहो न कर्तव्यः संसारेऽस्मिन्मुनीश्वर ।
मायाविनिर्मितेऽसारेऽपारे परमदुर्घटे
॥५२॥दृष्टा माया त्वयाद्यैव भुक्ता भोगा ह्यनेकशः ।
किं पृच्छसि महाभाग तस्याश्चरितमद्भुतम्
॥५३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे मायाप्राबल्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥