मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय २१

3
षष्ठस्कन्धः · 21

राजपुत्र्याः एकावल्याः वर्णनम्

व्यास उवाच

जातकर्मादिसंस्कारांश्चकार नृपतिस्तदा ।

दिने दिने जगामाशु वृद्धिं बालः सुलालितः

॥१॥

नृपः संसारजं प्राप्य सुखं पुत्रसभुद्भवम् ।

ऋणत्रयविमोक्षं च मेने तेन महात्मना

॥२॥

षष्ठेऽन्नप्राशनं तस्य कृत्वा मासि यथाविधि ।

तृतीयेऽथ तथा वर्षे चूडाकरणमुत्तमम्

॥३॥

चकार ब्राह्मणान् द्रव्यैः सम्पूज्य विविधैर्धनैः ।

गोभिश्च विविधैर्दानैर्याचकानितरानपि

॥४॥

वर्षे चैकादशे तस्य मौञ्जीबन्धनकर्म वै ।

कारयित्वा धनुर्वेदमध्यापयत पार्थिवः

॥५॥

अधीतवेदं पुत्रं तं राजधर्मविशारदम् ।

दृष्ट्वा तस्याभिषेकाय मतिं चक्रे जनाधिपः

॥६॥

पुष्यार्कयोगसंयुक्ते दिवसे नृपसत्तमः ।

कारयामास सम्भारानभिषेकार्थमादरात्

॥७॥

द्विजानाहूय वेदज्ञान् सर्वशास्त्रविचक्षणान् ।

अभिषेकं चकारासौ विधिवत् स्वात्मजस्य ह

॥८॥

जलमानीय तीर्थेभ्यः सागरेभ्यश्च पार्थिवः ।

स्वयं चकार विथिवदभिषेकं शुभे दिने

॥९॥

धनं दत्त्वाथ विप्रेभ्यो राज्यं पुत्रे निवेश्य सः ।

जगाम वनमेवाशु स्वर्गकामः स भूपतिः

॥१०॥

एकवीरं नृपं कृत्वा सम्मान्य सचिवानथ ।

भार्यया सह भूपालः प्रविवेश वनं वशी

॥११॥

मैनाकशिखरे राजा कृत्वा तार्तीयमाश्रमम् ।

नित्यं पत्रफलाहारश्चिन्तयामास पार्वतीम्

॥१२॥

एवं स नृपतिः कृत्वा दिष्टान्ते सह भार्यया ।

मृतोऽसौ वासवं लोकं गतः पुण्येन कर्मणा

॥१३॥

इन्द्रलोकं पिता प्राप्त इति श्रुत्वाथ हैहयः ।

चकार वेदनिर्दिष्टं कर्म चैवौर्ध्वदैहिकम्

॥१४॥

कृत्वोत्तराः क्रियाः सर्वाः पितुः पार्थिवनन्दनः ।

राज्यं चकार मेधावी पित्रा दत्तं सुसम्मतम्

॥१५॥

एकवीरोऽथ धर्मज्ञः प्राप्य राज्यमनुत्तमम् ।

बुभुजे विविधान् भोगान्सचिवैश्च सुमानितः

॥१६॥

एकस्मिन् दिवसे राजा मन्त्रिपुत्रैः समन्वितः ।

जगाम जाह्नवीतीरे हयारूढः प्रतापवान्

॥१७॥

सम्पश्यन् पादपान् रम्यान् कोकिलालापसंयुतान् ।

पुष्पितान् फलसंयुक्तान् षट्पदालिविराजितान्

॥१८॥

मुनीनामाश्रमान्दिव्यान् वेदध्वनिनिनादितान् ।

होमधूमावृताकाशान् मृगशावसमावृतान्

॥१९॥

केदाराञ्छालिसम्पक्वान् गोपिकाभिः सुरक्षितान् ।

प्रफुल्लपङ्कजारामान्निकुञ्जांश्च मनोरमान्

॥२०॥

प्रेक्षमाणः प्रियालांस्तु चम्पकान् पनसद्रुमान् ।

बकुलांस्तिलकान्नीपान्मन्दारांश्च प्रफुल्लितान्

॥२१॥

शालांस्तालांस्तमालांश्च जम्बूचूतकदम्बकान् ।

स गच्छञ्जाह्नवीतोये प्रफुल्लं शतपत्रकम्

॥२२॥

पङ्कजं चातिगन्धाढ्यमपश्यदवनीपतिः ।

दक्षिणे जलजस्याथ पार्श्वे कमललोचनाम्

॥२३॥

कनकाभां सुकेशीं च कम्बुग्रीवां कृशोदरीम् ।

बिम्बोष्ठी सुन्दरीं किञ्चित्समुद्यत्सुपयोधराम्

॥२४॥

सुनासां चारुसर्वाङ्गीमपश्यत् कन्यकां नृपः ।

रुदतीं तां सखीं त्यक्त्वा विह्वलां दुःखपीडिताम्

॥२५॥

साश्रुनेत्रां क्रन्दमानां विजने कुररीमिव ।

संवीक्ष्य राजा पप्रच्छ कन्यकां शोककारणम्

॥२६॥

सुनसे ब्रूहि कासि त्वं कस्य पुत्री शुभानने ।

गन्धर्वी देवकन्याथ कथं रोदिषि सुन्दरि

॥२७॥

कथमेकाकिनी बाले त्यक्ता केन पिकस्वरे ।

पतिस्ते क्व गतः कान्ते पिता वा ब्रूहि साम्प्रतम्

॥२८॥

किं ते दुःखमरालभ्रु कथयाद्य ममान्तिके ।

करोमि दुःखनाशं ते सर्वथैव कृशोदरि

॥२९॥

न राज्ये मम तन्वङ्गि पीडां कोऽपि करोत्यलम् ।

न भयं चौरजं कान्ते न राक्षसभयं तथा

॥३०॥

मयि शासति भूपाले नोत्पाता दारुणा भुवि ।

भयं न व्याघ्रसिंहेभ्यो न भयं कस्यचिद्भवेत्

॥३१॥

वद वामोरु कस्मात्त्वं विलापं जाह्नवीतटे ।

करोषि त्राणहीनात्र किं ते दुःखं वदस्व मे

॥३२॥

हन्म्यहं दुःखमत्युग्रं प्राणिनां पृथिवीतले ।

दैवं च मानुषं कान्ते व्रतमेतन्ममाद्भुतम्

॥३३॥

विशाललोचने ब्रूहि करोमि तव चिन्तितम् ।

इत्युक्ते वचने राज्ञा श्रुत्वोवाच मृदुस्वना

॥३४॥

शृणु राजेन्द्र वक्ष्यामि मम शोकस्य कारणम् ।

विपत्तिरहितः प्राणी कथं रुदति भूपते

॥३५॥

प्रब्रवीमि महाबाहो यदर्थं रुदती त्वहम् ।

तव राज्यादन्यदेशे राजा परमधार्मिकः

॥३६॥

रैभ्यो नाम महाराजः सन्तानरहितो भृशम् ।

तस्य भार्या सुविख्याता रुक्मरेखेति नामतः

॥३७॥

सुरूपा चतुरा साध्वी सर्वलक्षणसंयुता ।

अपुत्रा दुःखिता कान्तमित्युवाच पुनः पुनः

॥३८॥

किं जीवितेन मे नाथ धिग्वृथा जीवितं मम ।

वन्ध्यायाः सुखहीनाया ह्यपुत्राया धरातले

॥३९॥

इत्येवं भार्यया भूपः प्रेरितो मखमुत्तमम् ।

चकार ब्राह्मणांस्तज्ज्ञानाहूय विधिवत्तदा

॥४०॥

पुत्रकामो धनं भूरि ददावथ यथोदितम् ।

हूयमाने घृतेऽत्यर्थं पावकादतिसुप्रभात्

॥४१॥

आविर्बभूव चार्वङ्गी कन्यका शुभलक्षणा ।

बिम्बोष्ठी सुदती सुभ्रूः पूर्णचन्द्रनिभानना

॥४२॥

कनकाभा सुकेशान्ता रक्तपाणितला मृदुः ।

सुरक्तनयना तन्वी रक्तपादतला भृशम्

॥४३॥

हुताशनात्समुद्भूता होत्रा सा स्वीकृता तदा ।

होता प्रोवाच राजानं गृहीत्वा तां सुमध्यमाम्

॥४४॥

राजन् पुत्रीं गृहाणेमां सर्वलक्षणसंयुताम् ।

एकावलीव सम्भूता हूयमानाद्धुताशनात्

॥४५॥

नाम्ना चैकावली लोके ख्याता पुत्री भविष्यति ।

सुखितो भव भूपाल पुत्र्या पुत्रसमानया

॥४६॥

सन्तोषं कुरु राजेन्द्र दत्ता देवेन विष्णुना ।

होतुर्वाक्यं नृपः श्रुत्वा दृष्ट्वा तां कन्यकां शुभाम्

॥४७॥

जग्राह परमप्रीतो होत्रा दत्तां सुसम्मताम् ।

गृहीत्वा नृपतिस्तां तु ददौ पत्न्यै वराननाम्

॥४८॥

आभाष्य रुक्मरेखायै गृहाण सुभगे सुताम् ।

सा तां कमलपत्राक्षीं प्राप्य कन्यां मनोरमाम्

॥४९॥

जहर्ष मुदिता राज्ञी पुत्रं प्राप्य यथासुखम् ।

चकार मङ्गलं कर्म जातकर्मादिकं शुभम्

॥५०॥

पुत्रजन्मसमुत्थं यत्तत्सर्वं विधिवत्ततः ।

समाप्य च मखं राजा द्विजेभ्यो दक्षिणां शुभाम्

॥५१॥

दत्त्वा विसृज्य विप्रेन्द्रान् मुदं प्राप महीपतिः ।

दिने दिनेऽसितापाङ्गी पुत्रवृद्ध्या भृशं बभौ

॥५२॥

मुदं च परमां प्राप नृपभार्या सुतान्विता ।

उत्सवस्तद्दिने तस्य प्रवृत्तः सुतजन्मजः

॥५३॥

पुत्री पुत्रसमात्यर्थं बभूव वल्लभा किल ।

राज्ञो मन्त्रिसुता चाहं सुबुद्धे मन्मथाकृते

॥५४॥

यशोवती च मे नाम समानं वय आवयोः ।

वयस्याहं कृता राज्ञा क्रीडनाय तया सह

॥५५॥

सदा सहचरी जाता प्रेमयुक्ता दिवानिशम् ।

एकावली गन्धवन्ति यत्र पद्मानि पश्यति

॥५६॥

तत्र सा रमते बाला नान्यत्र सुखमाप्नुयात् ।

सुदूरे जाह्नवीतीरे भवन्ति कमलान्यपि

॥५७॥

रममाणा तत्र याता मत्समेता सखीयुता ।

मया निवेदितं राजन् पुत्री ते कमलाकरान्

॥५८॥

प्रेक्षमाणातिदूरे सा प्रयाति निर्जने वने ।

निषेधिताथ पित्रासौ गृहे कृत्वा जलाशयान्

॥५९॥

कमलान् वापयित्वाथ पुष्पितान् भ्रमरावृतान् ।

तथापि निर्ययौ बाला कमलासक्तचेतना

॥६०॥

तदा राज्ञा रक्षपालाः प्रेरिताः शस्त्रपाणयः ।

एवं रक्षायुता तन्वी मत्समेता सखीयुता ।

क्रीडार्थं जाह्नवीतोये नित्यमायाति याति च

॥६१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे राजपुत्र्याः एकावल्याः वर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥