हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनम्
जनमेजय उवाच
कुले कस्य समुत्पन्नाः क्षत्रिया हैहयाश्च ते ।
ब्रह्महत्यामनादृत्य निजघ्नुर्भार्गवांश्च ये
॥१॥वैरस्य कारणं तेषां किं मे ब्रूहि पितामह ।
निमित्तेन विना क्रोधं कथं कुर्वन्ति सत्तमाः
॥२॥वैरं पुरोहितैः सार्धं कस्मात्तेषामजायत ।
नाल्पहेतोर्हि तद्वैरं क्षत्रियाणां भविष्यति
॥३॥अन्यथा ब्राह्मणान् पूज्यान्कथं जघ्नुरनागसः ।
बाहुजा बलवन्तोऽपि पापभीताः कथं न ते
॥४॥स्वल्पेऽपराधे को हन्याद्वाडवान्क्षत्रियर्षभः ।
सन्देहो मे मुनिश्रेष्ठ कारणं वक्तुमर्हसि
॥५॥सूत उवाच
इति पृष्टस्तदा तेन राज्ञा सत्यवतीसुतः ।
उवाच परमप्रीतः कथां संस्मृत्य चेतसा
॥६॥व्यास उवाच
शृणु पारिक्षिते वार्तां क्षत्रियाणां पुरातनीम् ।
आश्चर्यकारिणीं सम्यग्विदितां च पुरा मया
॥७॥कार्तवीर्येति नाम्नाभूद्धैहयः पृथिवीपतिः ।
सहस्रबाहुर्बलवानर्जुनो धर्मतत्परः
॥८॥दत्तात्रेयस्य शिष्योऽभूदवतारो हरेरिव ।
सिद्धः सर्वार्थदः शाक्तो भृगूणां याज्य एव सः
॥९॥यज्वा परमधर्मिष्ठः सदा दानपरायणः ।
ददौ वित्तं भृगुभ्योऽसौ कृत्वा यज्ञाननेकशः
॥१०॥धनिनस्ते द्विजा जाता भृगवो नृपदानतः ।
हयरत्नसमृद्ध्याढ्याः सञ्जाताः प्रथिता भुवि
॥११॥स्वर्याते नृपशार्दूले कार्तवीर्यार्जुने पुनः ।
हैहया निर्धना जाताः कालेन महता नृप
॥१२॥धनकार्यं समुत्पन्नं हैहयानां कदाचन ।
याचिष्णवोऽभिजग्मुस्तान्भूगूंस्ते हैहया नृप
॥१३॥विनयं क्षत्रियाः कृत्वाप्ययाचन्त धनं बहु ।
न ददुस्तेऽतिलोभार्ता नास्ति नास्तीतिवादिनः
॥१४॥भूमौ च निदधुः केचिद्भृगवो धनमुत्तमम् ।
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्
॥१५॥कृत्वा स्थानान्तरे द्रव्यं ब्राह्मणा भयविह्वलाः ।
त्यक्त्वाऽऽश्रमान्ययुः सर्वे भृगवस्तृष्णयान्विताः
॥१६॥याज्यांश्च दुःखितान्दृष्ट्वा न ददुर्लोभमोहिताः ।
पलायित्वा गताः सर्वे गिरिदुर्गानुपाश्रिताः
॥१७॥ततस्ते हैहयास्तात दुःखिताः कार्यगौरवात् ।
भृगूणामाश्रमाञ्जग्मुर्द्रव्यार्थं क्षत्रियर्षभाः
॥१८॥भृगूंस्तु निर्गतान्वीक्ष्य शून्यांस्त्यक्त्या गृहानथ ।
चखनुर्भूतलं तत्र द्रव्यार्थं हैहया भृशम्
॥१९॥खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ।
ददृशुः क्षत्रियाः सर्वे तद्वित्तं श्रमकर्शिताः
॥२०॥यत्र यत्र समुत्पन्नं भूरि द्रव्यं महीतलात् ।
तदा ते पार्श्वभागस्थब्राह्मणानां गृहाण्यपि
॥२१॥निर्भिद्य हैहया द्रव्यं ददृशुर्धनलिप्सया ।
ब्राह्मणाश्चुकुशः सर्वे भीताश्च शरणं गताः
॥२२॥अतिचिन्वत्सु विप्राणां भवनान्निःसृतं बहु ।
निजघ्नुस्ताञ्छरैः कोपाद्वाडवाञ्छरणागतान्
॥२३॥ययुस्ते गिरिदुर्गांश्च यत्र वै भृगवः स्थिताः ।
आगर्भादनुकृन्तन्तश्चेरुश्चैव महीमिमाम्
॥२४॥प्राप्तान्प्राप्तान्भृगून्सर्वान्निजघ्नुर्निशितैः शरैः ।
आबालवृद्धानपरानवमन्य च पातकम्
॥२५॥एवमुत्पाट्यमानेषु भार्गवेषु यतस्ततः ।
हन्युर्गर्भांश्च नारीणां गृहीत्वा हैहया भृशम्
॥२६॥रुरुदुस्ताः स्त्रियः कामं कुरर्य इव दुःखिताः ।
गर्भाश्च कृन्तिता यासां क्षत्रियैः पापनिश्चयैः
॥२७॥अन्येऽप्याहुश्च तान्दृप्तान्मुनयस्तीर्थवासिनः ।
मुञ्चन्तु क्षत्रियाः क्रोधं ब्राह्मणेषु भयावहम्
॥२८॥अयुक्तमेतदारब्धं भवद्भिः कर्म गर्हितम् ।
यद्गर्भान्भृगुपत्नीनां निहन्युः क्षत्रियर्षभाः
॥२९॥अत्युग्रपुण्यपापानामिहैव फलमाप्नुयात् ।
तस्माज्जुगुप्सितं कर्म त्यक्तव्यं भूतिमिच्छता
॥३०॥तानाहुर्हैहयाः क्रुद्धा मुनीनथ दयापरान् ।
भवन्तः साधवः सर्वे नार्थज्ञाः पापकर्मणाम्
॥३१॥एभिर्हृतं धनं सर्वं पूर्वजानां महात्मनाम् ।
वञ्चयित्वा छलाभिज्ञैर्मार्गे पाटच्चरैरिव
॥३२॥एते प्रतारका दम्भास्तादृशा बकवृत्तयः ।
उत्पन्ने च महाकार्ये प्रार्थिता विनयेन ते
॥३३॥न ददुः प्रार्थितं विप्राः पादवृद्ध्यापि याचिताः ।
नास्तीतिवादिनः स्तब्धाः दुःखितान्वीक्ष्य याज्यकान्
॥३४॥धनं प्राप्तं कार्तवीर्याद्रक्षितं केन हेतुना ।
न कृताः क्रतवः किं तैर्दानं चार्थिषु भूरिशः
॥३५॥न सञ्चितव्यं विप्रैस्तु धनं चापि कदाचन ।
यष्टव्यं विधिवद्देयं भोक्तव्यं च यथासुखम्
॥३६॥द्रव्ये चौरभयं प्रोक्तं तथा राजभयं द्विजाः ।
वह्नेर्भयं महाघोरं तथा धूर्तभयं महत्
॥३७॥येन केनाप्युपायेन धनं त्यजति रक्षकम् ।
अथवासौ मृतो याति द्रव्यं त्यक्त्वा ह्यसद्गतिम्
॥३८॥पादवृद्ध्या तथास्माभिः प्रार्थितं विनयान्वितैः ।
तथापि लोभसन्दिग्धैर्न दत्तं नः पुरोहितैः
॥३९॥दानं भोगस्तथा नाशो धनस्य गतिरीदृशी ।
दानभोगौ कृतीनां च नाशः पापात्मनां किल
॥४०॥न दाता न च यो भोक्ता कृपणो गुप्तितत्परः ।
राज्ञासौ सर्वथा दण्ड्यो वञ्चको दुःखभाङ्नरः
॥४१॥तस्माद्वयं गुरूनेतान्वञ्चकान्ब्राह्मणाधमान् ।
हन्तुं समुद्यताः सर्वे न क्रोधव्यं महात्मभिः
॥४२॥व्यास उवाच
इत्युक्त्वा हेतुमद्वाक्यं तानाश्वास्य मुनीनथ ।
विचेरुश्च विचिन्वाना भृगुदाराननेकशः
॥४३॥भयार्ता भृगुपत्न्यस्तु हिमवन्तं धराधरम् ।
प्रपेदिरे रुदन्त्यश्च वेपमानाः कृशा भृशम्
॥४४॥एवं ते हैहयैर्विप्राः पीडिता धनकामुकैः ।
निहताश्च यथाकामं संरब्धैः पापकर्मभिः
॥४५॥लोभ एव मनुष्याणां देहसंस्थो महारिपुः ।
सर्वदुःखाकरः प्रोक्तो दुःखदः प्राणनाशकः
॥४६॥सर्वपापस्य मूलं हि सर्वदा तृष्णयान्वितः ।
विरोधकृत्त्रिवर्णानां सर्वार्तेः कारणं तथा
॥४७॥लोभात्त्यजन्ति धर्मं वै कुलधर्मं तथैव हि ।
मातरं भ्रातरं हन्ति पितरं बान्धवं तथा
॥४८॥गुरुं मित्रं तथा भार्यां पुत्रं च भगिनीं तथा ।
लोभाविष्टो न किं कुर्यादकृत्यं पापमोहितः
॥४९॥क्रोधात्कामादहङ्काराल्लोभ एव महारिपुः ।
प्राणांस्त्यजति लोभेन किं पुनः स्यादनावृतम्
॥५०॥पूर्वजास्ते महाराज धर्मज्ञाः सत्पथे स्थिताः ।
पाण्डवाः कौरवाश्चैव लोभेन निधनं गताः
॥५१॥यत्र भीष्मश्च द्रोणश्च कृपः कर्णश्च बाह्लिकः ।
भीमसेनो धर्भपुत्रस्तथैवार्जुनकेशवौ
॥५२॥तथापि युद्धमत्युग्रं कृतं तैश्च परस्परम् ।
कुटुम्बकदनं भूरि कृतं लोभातुरैरिह
॥५३॥हतो द्रोणो हतो भीष्मस्तथैव पाण्डवात्मजाः ।
भ्रातरः पितरः पुत्राः सर्वे वै निहता रणे
॥५४॥तस्माल्लोभाभिभूतस्तु किं न कुर्यान्नरः किल ।
हैहयैर्निहताः सर्वे भृगवः पापबुद्धिभिः
॥५५॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयैर्धनाहरणेन सह भृगूणां वधवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥