इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम्
व्यास उवाच
अथ तं पतितं दृष्ट्वा विष्णुर्विष्णुपुरीं ययौ ।
मनसा शङ्कमानस्तु तस्य हत्याकृतं भयम्
॥१॥इन्द्रोऽपि भयसंत्रस्तो ययाविन्द्रपुरीं ततः ।
मुनयो भयसंविग्ना ह्यभवन्निहते रिपौ
॥२॥किमस्माभिः कृतं पापं यदसौ वञ्चितः किल ।
मुनिशब्दो वृथा जातः सुरेशस्य च सङ्गमात्
॥३॥अस्माकं वचनाद्वृत्रो विश्वासमगमत्किल ।
विश्वासघातिनः सङ्गाद्वयं विश्वासघातकाः
॥४॥धिगियं ममता पापमूलमेवमनर्थकृत् ।
यदस्माभिश्छलं कृत्वा शपथैर्वञ्चितोऽसुरः
॥५॥मन्त्रकृद्बुद्धिदाता च प्रेरकः पापकारिणाम् ।
पापभाक्स भवेन्नूनं पक्षकर्ता तथैव च
॥६॥विष्णुनापि कृतं पापं यत्साहाय्यमवाप्तवान् ।
वज्रं प्रविश्य येनासौ पातितः सत्त्वमूर्तिना
॥७॥नूनं स्वार्थपरः प्राणी न पापात्त्रासमश्नुते ।
हरिणा हरिसङ्गेन सर्वथा दुष्कृतं कृतम्
॥८॥द्वावेव स्तः पदार्थानां द्वावेव निधनं गतौ ।
प्रथमश्च तुरीयश्च यौ त्रिलोक्यां तु दुर्लभौ
॥९॥अर्थकामौ प्रशस्तौ द्वौ सर्वेषां सम्मतौ प्रियौ ।
धर्माधर्मेति वाग्वादो दम्भोऽयं महतामपि
॥१०॥मुनयोऽपि मनस्तापमेवं कृत्वा पुनः पुनः ।
जग्मुः स्वानाश्रमानेव विमनस्का हतोद्यमाः
॥११॥त्वष्टा तु निहतं श्रुत्वा पुत्रमिन्द्रेण भारत ।
रुरोद दुःखसन्तप्तो निर्वेदमगमत्पुनः
॥१२॥यत्रासौ पतितस्तत्र गत्वा वीक्ष्य तथागतम् ।
संस्कारं कारयामास विधिवत्पारलौकिकम्
॥१३॥स्नात्वास्य सलिलं दत्त्वा कृत्वा चैवौर्ध्वदैहिकम् ।
शशापेन्द्रं स शोकार्तः पापिष्ठं मित्रघातकम्
॥१४॥यथा मे निहतः पुत्रः प्रलोभ्य शपथैर्भृशम् ।
तथेन्द्रोऽपि महद्दुःखं प्राप्नोतु विधिनिर्मितम्
॥१५॥इति शप्त्वा सुरेशानं त्वष्टा तापसमन्वितः ।
मेरोः शिखरमास्थाय तपस्तेपे सुदुष्करम्
॥१६॥जनमेजय उवाच
हत्वा त्वाष्ट्रं सुरेशोऽथ कामवस्थामवाप्तवान् ।
सुखं वा दुःखमेवाग्रे तन्मे ब्रूहि पितामह
॥१७॥व्यास उवाच
किं पृच्छसि महाभाग सन्देहः कीदृशस्तव ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्
॥१८॥बलिष्ठैर्दुर्बलैर्वापि स्वल्पं वा बहु वा कृतम् ।
सर्वथैव हि भोक्तव्यं सदेवासुरमानुषैः
॥१९॥शक्रायेत्थं मतिर्दत्ता हरिणा वृत्रघातिने ।
प्रविष्टोऽथ पविं विष्णुः सहायः प्रत्यपद्यत
॥२०॥न चापदि सहायोऽभूद्वासुदेवः कथञ्चन ।
समये स्वजनः सर्वः संसारेऽस्मिन्नराधिप
॥२१॥दैवे विमुखतां प्राप्ते न कोऽप्यस्ति सहायवान् ।
पिता माता तथा भार्या भ्राता वाथ सहोदरः
॥२२॥सेवको वापि मित्रं वा पुत्रश्चैव तथौरसः ।
प्रतिकूले गते दैवे न कोऽप्येति सहायताम्
॥२३॥भोक्ता पापस्य पुण्यस्य कर्ता भवति सर्वथा ।
वृत्रं हत्वा गताः सर्वे निस्तेजस्कः शचीपतिः
॥२४॥शेपुस्तं त्रिदशाः सर्वे ब्रह्महेत्यब्रुवञ्छनैः ।
को नाम शपथान्कृत्वा सत्यं दत्त्वा वचः पुनः
॥२५॥जिघांसति सुविश्वस्तं मुनिं मित्रत्वमागतम् ।
देवगोष्ठ्यां सुरोद्याने गन्धर्वाणां समागमे
॥२६॥सर्वत्रैव कथा तस्य विस्तारमगमत्किल ।
किं कृतं दुष्कृतं कर्म शक्रेणाद्य जिघांसता
॥२७॥वृत्रं छलेन विश्वस्तं मुनिभिश्च प्रतारितम् ।
वेदप्रमाणमुत्सृज्य स्वीकृतं सौगतं मतम्
॥२८॥यदयं निहतः शनुर्वञ्चयित्वातिसाहसात् ।
को नाम वचनं दत्त्वा विपरीतमथाचरेत्
॥२९॥विना शक्रं हरिं वापि यथायं विनिपातितः ।
एवंविधाः कथाश्चान्याः समाजेष्वभवन्भृशम्
॥३०॥शुश्रावेन्द्रोऽपि विविधाः स्वकीर्तेर्हानिकारकाः ।
यस्य कीर्तिर्हता लोके धिक्तस्यैव कुजीवितम्
॥३१॥यं दृष्ट्वा पथि गच्छन्तं शत्रुः स्मेरमुखो भवेत् ।
इन्द्रद्युम्नोऽपि राजर्षिः पतितः कीर्तिसंक्षयात्
॥३२॥स्वर्गादकृतपापोऽसौ पापकृत्किं न पात्यते ।
स्वल्पेऽपराधेऽपि नृपो ययातिः पतितः किल
॥३३॥नृपः कर्कटतां प्राप्तो युगानष्टादशैव तु ।
भृगुपत्नीशिरश्छेदाद्भगवान्हरिरच्युतः
॥३४॥ब्रह्मशापात्पशोर्योनौ सञ्जातो मकरादिषु ।
विष्णुश्च वामनो भूत्वा याचनार्थं बलेर्गृहे
॥३५॥गतः किमपरं दुःखं प्राप्नोति दुष्कृती नरः ।
रामोऽपि वनवासेषु सीताविरहजं बहु
॥३६॥दुःखं च प्राप्तवान्घोरं भृगुशापेन भारत ।
तथेन्द्रोऽपि ब्रह्महत्याकृतं प्राप्य महद्भयम्
॥३७॥न स्वास्थ्यं प्राप गेहेऽसौ सर्वसिद्धिसमन्विते ।
पौलोमी तं सभाहीनं दृष्ट्वा प्रोवाच वासवम्
॥३८॥निःश्वसन्तं भयत्रस्तं नष्टसंज्ञं विचेतसम् ।
किं प्रभोऽद्य भयार्तोऽसि मृतस्ते दारुणो रिपुः
॥३९॥का चिन्ता वर्तते कान्त तव शत्रुनिषूदन ।
कस्माच्छोचसि लोकेश निःश्वसन्प्राकृतो यथा
॥४०॥नान्योऽस्ति बलवाञ्छत्रुर्येन चिन्तापरो भवान् ।
इन्द्र उवाच ।
नारातिर्बलवान्मेऽस्ति न शान्तिर्न सुखं तथा
॥४१॥ब्रह्महत्याभयाद्राज्ञि बिभेमि सततं गृहे ।
न नन्दनं सुखकरं नामृतं न गृहं वनम्
॥४२॥गन्धर्वाणां तथा गेयं नृत्यमप्सरसां पुनः ।
न त्वं सुखकरा नारी नाना च सुरयोषितः
॥४३॥न तथा कामधेनुश्च देववृक्षः सुखप्रदः ।
किं करोमि क्व गच्छामि क्व शर्म मम जायते
॥४४॥इति चिन्तापरः कान्ते न लभे सुखमात्मनि ।
व्यास उवाच ।
इत्युक्त्वा वचनं शक्रः प्रियां परमकातराम्
॥४५॥निर्जगाम गृहान्मन्दो मानसं सर उत्तमम् ।
पद्मनाले प्रविष्टोऽसौ भयार्तः शोककर्षितः
॥४६॥न प्राज्ञायत देवेन्द्रस्त्वभिभूतश्च कल्मषैः ।
प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः
॥४७॥असहायस्तुराषाडैच्चिन्तार्तो विकलेन्द्रियः ।
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते
॥४८॥सुराश्चिन्तातुराश्चासन्नुत्पाताश्चाभवन्नथ ।
ऋषयः सिद्धगन्धर्वा भयार्ताश्चाभवन्भृशम्
॥४९॥अराजकं जगत्सर्वमभिभूतमुपद्रवैः ।
अवर्षणं तदा जातं पृथिवी क्षीणवैभवा
॥५०॥विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि वै ।
एवं त्वराजके जाते देवता मुनयस्तथा
॥५१॥विचार्य नहुषं चक्रुः शक्रं सर्वे दिवौकसः ।
सम्प्राप्य नहुषो राजा धर्मिष्ठोऽपि रजोबलात्
॥५२॥बभूव विषयासक्तः पञ्चबाणशराहतः ।
अप्सरोभिर्वृतः क्रीडन्देवोद्यानेषु भारत
॥५३॥शक्रपत्नीगुणाञ्छ्रुत्वा चकमे तां स पार्थिवः ।
ऋषीनाह किमिन्द्राणी नोपगच्छति मां किल
॥५४॥भवद्भिश्चामरैः सर्वैः कृतोऽहं वासवस्त्विह ।
प्रेषयध्वं सुराः कामं सेवार्थं मम वै शचीम्
॥५५॥प्रियं चेन्मम कर्तव्यं सर्वथा मुनयोऽमराः ।
अहमिन्द्रोऽद्य देवानां लोकानां च तथेश्वरः
॥५६॥आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ।
इति तस्य वचः श्रुत्वा देवा देवर्षयस्तथा
॥५७॥गत्वा चिन्तातुराः प्रोचुः पौलोमीं प्रणतास्ततः ।
इन्द्रपत्नि दुराचारो नहुषस्त्वामिहेच्छति
॥५८॥कुपितोऽस्मानुवाचेदं प्रेषयध्वं शचीमिह ।
किं कुर्मस्तदधीनाः स्मो येनेन्द्रोऽयं कृतः किल
॥५९॥तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह ।
रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता
॥६०॥बृहस्पतिरुवाच
न भेतव्यं त्वया देवि नहुषात्पापमोहितात् ।
न त्वां दास्याम्यहं वत्से त्यक्त्वा धर्मं सनातनम्
॥६१॥शरणागतमार्तं च यो ददाति नराधमः ।
स एव नरकं याति यावदाभूतसंप्लवम् ।
स्वस्था भव पृथुश्रोणि न त्यक्ष्ये त्वां कदाचन
॥६२॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥