मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय १८

3
षष्ठस्कन्धः · 18

शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम्

जनमेजय उवाच

इति शप्ता भगवता सिन्धुजा कोपयोगतः ।

कथं सा वडवा जाता रेवन्तेन च किं कृतम्

॥१॥

कस्मिन्देशेऽब्धिजा देवी वडवारूपधारिणी ।

संस्थितैकाकिनी बाला परोषित्पतिका यथा

॥२॥

कालं कियन्तमायुष्मन् वियुक्ता पतिना रमा ।

संस्थिता विजनेऽरण्ये किं कृतं च तया पुनः

॥३॥

समागमं कदा प्राप्ता वासुदेवस्य सिन्धुजा ।

पुत्रः कथं तया प्राप्तो नारायणवियुक्तया

॥४॥

एतद्वृत्तान्तमार्येश कथयस्व सविस्तरम् ।

श्रोतुकामोऽस्मि विप्रेन्द्र कथाख्यानमनुत्तमम्

॥५॥

सूत उवाच

इति पृष्टस्तदा व्यासः परीक्षित्तनयेन वै ।

कथयामास भो विप्राः कथामेतां सुविस्तराम्

॥६॥

व्यास उवाच

शृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् ।

पावनीं सुखदां कर्णे विशदाक्षरसंयुताम्

॥७॥

रेवन्तस्तु रमां दृष्ट्वा शप्ता देवेन कामिनीम् ।

भयार्तः प्रययौ दूरात्प्रणम्य जगतां पतिम्

॥८॥

पितुः सकाशं त्वरितो वीक्ष्य कोपं जगत्पतेः ।

निवेदयामास कथां भास्कराय स शापजाम्

॥९॥

दुःखिता सा रमा देवी प्रणम्य जगदीश्वरम् ।

आज्ञप्ता मानुषं लोकं प्राप्ता कमललोचना

॥१०॥

सूर्यपत्न्या तपस्तप्तं यत्र पूर्वं सुदारुणम् ।

तत्रैव सा ययावाशु वडवारूपधारिणी

॥११॥

कालिन्दीतमसासङ्गे सुपर्णाक्षस्य चोत्तरे ।

सर्वकामप्रदे स्थाने सुरम्यवनमण्डिते

॥१२॥

तत्र स्थिता महादेवं शङ्करं वाञ्छितप्रदम् ।

दध्यौ चैकेन मनसा शूलिनं चन्द्रशेखरम्

॥१३॥

पञ्चाननं दशभुजं गौरीदेहार्धधारिणम् ।

कर्पूरगौरदेहाभं नीलकण्ठं त्रिलोचनम्

॥१४॥

व्याघ्राजिनधरं देवं गजचर्मोत्तरीयकम् ।

कपालमालाकलितं नागयज्ञोपवीतिनम्

॥१५॥

सागरस्य सुता कृत्वा हयीरूपं मनोहरम् ।

तस्मिंस्तीर्थे रमादेवी चकार दुश्चरं तपः

॥१६॥

ध्यायमाना परं देवं वैराग्यं समुपाश्रिता ।

दिव्यं वर्षसहस्रं तु गतं तत्र महीपते

॥१७॥

ततस्तुष्टो महादेवो वृषारूढस्त्रिलोचनः ।

प्रत्यक्षोऽभून्महेशानः पार्वतीसहितः प्रभुः

॥१८॥

तत्रैत्य सगणः शम्भुस्तामाह हरिवल्लभाम् ।

तपस्यन्तीं महाभागामश्विनीरूपधारिणीम्

॥१९॥

किं तपस्यसि कल्याणि जगन्मातर्वदस्व मे ।

सर्वार्थदः पतिस्तेऽस्ति सर्वलोकविधायकः

॥२०॥

हरिं त्यक्त्वाद्य मां कस्मात्स्तौषि देवि जगत्पतिम् ।

वासुदेवं जगन्नाथं भुक्तिमुक्तिप्रदायकम्

॥२१॥

वेदोक्तं वचनं कार्यं नारीणां देवता पतिः ।

नान्यस्मिन्सर्वथा भावः कर्तव्यः कर्हिचित्क्वचित्

॥२२॥

पतिशुश्रूषणं स्त्रीणां धर्म एव सनातनः ।

यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया

॥२३॥

नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि ।

तं त्यक्त्वा देवदेवेशं किं मां ध्यायसि सिन्धुजे

॥२४॥

लक्ष्मीरुवाच

आशुतोष महेशान शप्ताहं पतिना शिव ।

मां समुद्धर देवेश शापादस्माद्दयानिधे

॥२५॥

तदोक्तं हरिणा शम्भो शापानुग्रहकारणम् ।

विज्ञप्तेन मया कामं दयायुक्तेन विष्णुना

॥२६॥

यदा ते भविता पुत्रस्तदा शापस्य मोक्षणम् ।

भविष्यति च वैकुण्ठवासस्ते कमलालये

॥२७॥

इत्युक्ताहं तपस्तप्तुमागतास्मि तपोवने ।

आराधितो मया देव त्वं सर्वार्थप्रदायकः

॥२८॥

पतिसङ्गं विना पुत्रं देवदेव लभे कथम् ।

स तु तिष्ठति वैकुण्ठे त्यक्त्वा वामामनागसम्

॥२९॥

वरं मे देहि देवेश यदि तुष्टोऽसि शङ्कर ।

तव तस्य द्विधा भावो नास्ति नूनं कदाचन

॥३०॥

मयैतद्गिरिजाकान्त ज्ञातं पत्युः पुरो हर ।

यस्त्वं योऽसौ पुनर्योऽसौ स त्वं नास्त्यत्र संशयः

॥३१॥

एकत्वं च मया ज्ञात्वा मया ते स्मरणं कृतम् ।

अन्यथा मम दोषस्त्वामाश्रयन्त्या भवेच्छिव

॥३२॥

शिव उवाच

कथं ज्ञातस्त्वया देवि मम तस्य च सुन्दरि ।

ऐक्यभावो हरेर्नूनं सत्यं मे वद सिन्धुजे

॥३३॥

एकत्वं च न जानन्ति देवाश्च मुनयस्तथा ।

ज्ञानिनो वेदतत्त्वज्ञाः कुतर्कोपहताः किल

॥३४॥

मद्भक्ता वासुदेवस्य निन्दका बहवस्तथा ।

विष्णभक्तास्तु बहवो मम निन्दापरायणाः

॥३५॥

भवन्ति कालभेदेन कलौ देवि विशेषतः ।

कथं ज्ञातस्त्वया भद्रे दुर्ज्ञेयो ह्यकृतात्मभिः

॥३६॥

सर्वथा त्वैक्यभावस्तु हरेर्मम च दुर्लभः ।

व्यास उवाच ।

इति सा शम्भुना पुष्टा तुष्टेन हरिवल्लभा

॥३७॥

वृत्तान्तं तस्य विज्ञातं प्रवक्तुमुपचक्रमे ।

शिवं प्रति रमा तत्र प्रसन्नवदना भृशम्

॥३८॥

लक्ष्मीरुवाच

एकदा देवदेवेश विष्णुर्ध्यानपरो रहः ।

दृष्टो मया तपः कुर्वन्पद्मासनगतो यदा

॥३९॥

तदाहं विस्मिता देवं तमपृच्छं पतिं किल ।

प्रबुद्धं सुप्रसन्नं च ज्ञात्वा विनयपूर्वकम्

॥४०॥

देवदेव जगन्नाथ यदाहं निर्गतार्णवात् ।

मथ्यमानात्सुरैर्दैत्यैः सर्वैर्ब्रह्मादिभिः प्रभो

॥४१॥

वीक्षिताश्च मया सर्वे पतिकामनया तदा ।

वृतस्त्वं सर्वदेवेभ्यः श्रेष्ठोऽसीति विनिश्चयात्

॥४२॥

त्वं कं ध्यायसि सर्वेश संशयोऽयं महान्मम ।

प्रियोऽसि कैटभारे मे कथयस्व मनोगतम्

॥४३॥

विष्णुरुवाच

शृणु कान्ते प्रवक्ष्यामि यं ध्यायामि सुरोत्तमम् ।

आशुतोषं महेशानं गिरिजावल्लभं हृदि

॥४४॥

कदाचिद्देवदेवो मां ध्यायत्यमितविक्रमः ।

ध्यायाम्यहं च देवेशं शङ्करं त्रिपुरान्तकम्

॥४५॥

शिवस्याहं प्रियः प्राणः शङ्करस्तु तथा मम ।

उभयोरन्तरं नास्ति मिथः संसक्तचेतसोः

॥४६॥

नरकं यान्ति ते नूनं ये द्विषन्ति महेश्वरम् ।

भक्ता मम विशालाक्षि सत्यमेतद्ब्रवीम्यहम्

॥४७॥

इत्युक्तं देवदेवेन विष्णुना प्रभविष्णुना ।

एकान्ते किल पृष्टेन मया शैलसुताप्रिय

॥४८॥

तस्मात्त्वां वल्लभं विष्णोर्ज्ञात्वा ध्यातवती ह्यहम् ।

तथा कुरु महेशान यथा मे प्रियसङ्गमः

॥४९॥

व्यास उवाच

इति श्रियो वचः श्रुत्वा प्रत्युवाच महेश्वरः ।

तामाश्वास्य प्रियैर्वाक्यैर्यथार्थं वाक्यकोविदः

॥५०॥

स्वस्था भव पृथुश्रोणि तुष्टोऽहं तपसा तव ।

समागमस्ते पतिना भविष्यति न संशयः

॥५१॥

अत्रैव हयरूपेण भगवाञ्जगदीश्वरः ।

आगमिष्यति ते कामं पूर्णं कर्तुं मयेरितः

॥५२॥

तथाहं प्रेरयिष्यामि तं देवं मधुसूदनम् ।

यथासौ हयरूपेण त्वामेष्यति मदातुरः

॥५३॥

पुत्रस्ते भविता सुभ्रु नारायणसमः क्षितौ ।

भविष्यति स भूपालः सर्वलोकनमस्कृतः

॥५४॥

सुतं प्राप्य महाभागे त्वं तेन पतिना सह ।

गन्तासि देवि वैकुण्ठं प्रिया तस्य भविष्यसि

॥५५॥

एकवीरेति नाम्नासौ ख्यातिं यास्यति ते सुतः ।

तस्मात्तु हैहयो वंशो भुवि विस्तारमेष्यति

॥५६॥

परं तु विस्मृतासि त्वं हृदिस्थां परमेश्वरीम् ।

मदान्धा मत्तचित्ता च तेन ते फलमीदृशम्

॥५७॥

अतस्तद्दोषशान्त्यर्थं हृदिस्थां परदेवताम् ।

शरणं याहि सर्वात्मभावेन जलधेः सुते

॥५८॥

अन्यथा तव चित्तं तु कथं गच्छेद्धयोत्तमे ।

व्यास उवाच ।

इति दत्त्वा वरं देव्यै भगवाञ्छैलजापतिः

॥५९॥

अन्तर्धानं गतः साक्षादुमया सहितः शिवः ।

सापि तत्रैव चार्वङ्गी संस्थिता कमलासना

॥६०॥

ध्यायन्ती चरणाम्भोजं देव्याः परमशोभनम् ।

देवासुरशिरोरत्ननिघृष्टनखमण्डलम्

॥६१॥

प्रेमगद्गदया वाचा तुष्टाव च मुहुर्मुहुः ।

प्रतीक्षमाणा भर्तारं हयरूपधरं हरिम्

॥६२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥