मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय ८

3
षष्ठस्कन्धः · 8

इन्द्राण्या शक्रदर्शनम्

व्यास उवाच

नहुषस्त्वथ तां श्रुत्वा गुरोस्तु शरणं गताम् ।

चुक्रोध स्मरबाणार्तस्तमाङ्गिरसमाशु वै

॥१॥

देवानाहाङ्गिरासूनुर्हन्तव्योऽयं मया किल ।

इतीन्द्राणीं गृहे मूढो रक्षतीति मया श्रुतम्

॥२॥

इति तं कुपितं दृष्ट्वा देवाः सर्षिपुरोगमाः ।

अब्रुवन्नहुषं घोरं सामपूर्वं वचस्तदा

॥३॥

क्रोधं संहर राजेन्द्र त्यज पापमतिं प्रभो ।

निन्दन्ति धर्मशास्त्रेषु परदाराभिमर्शनम्

॥४॥

शक्रपत्नी सदा साध्वी जीवमाने पतौ पुनः ।

कथमन्ये पतिं कुर्यात्सुभगातिपतिव्रता

॥५॥

त्रिलोकीशस्त्वमधुना शास्ता धर्मस्य वै विभो ।

त्वादृशोऽधर्ममातिष्ठेत्तदा नश्येत्प्रजा ध्रुवम्

॥६॥

सर्वथा प्रभुणा कार्यं शिष्टाचारस्य रक्षणम् ।

वारमुख्याश्च शतशो वर्तन्तेऽत्र शचीसमाः

॥७॥

रतिस्तु कारणं प्रोक्तं शृङ्गारस्य महात्मभिः ।

रसहानिर्बलात्कारे कृते सति तु जायते

॥८॥

उभयोः सदृशं प्रेम यदि पार्थिवसत्तम ।

तदा वै सुखसम्पत्तिरुभयोरुपजायते

॥९॥

तस्माद्भावमिमं मुञ्च परदाराभिमर्शने ।

सद्भावं कुरु देवेन्द्र पदं प्राप्तोऽस्यनुत्तमम्

॥१०॥

ऋद्धिक्षयस्तु पापेन पुण्येनातिविवर्धनम् ।

तस्मात्पापं परित्यज्य सन्मतिं कुरु पार्थिव

॥११॥

नहुष उवाच

गौतमस्य यदा भुक्ता दाराः शक्रेण देवताः ।

वाचस्पतेस्तु सोमेन क्व यूयं संस्थितास्तदा

॥१२॥

परोपदेशे कुशला प्रभवन्ति नराः किल ।

कर्ता चैवोपदेष्टा च दुर्लभः पुरुषो भवेत्

॥१३॥

मामागच्छतु सा देवी हितं स्यादद्भुतं हि वः ।

एतस्याः परमं देवाः सुखमेव भविष्यति

॥१४॥

अन्यथा न हि तुष्येऽहं सत्यमेतद्ब्रवीमि वः ।

विनयाद्वा बलाद्वापि तामाशु प्रापयन्त्विह

॥१५॥

इति तस्य वचः श्रुत्वा देवाश्च मुनयस्तथा ।

तमूचुश्चातिसन्त्रस्ता नहुषं मदनातुरम्

॥१६॥

इन्द्राणीमानयिष्यामः सामपूर्वं तवान्तिकम् ।

इत्युक्त्वा ते तदा जग्मुर्बृहस्पतिनिकेतनम्

॥१७॥

व्यास उवाच

ते गत्वाङ्गिरसः पुत्रं प्रोचुः प्राञ्जलयः सुराः ।

जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि

॥१८॥

सा देया नहुषायाद्य वासवोऽसौ कृतो यतः ।

वृणोत्वियं वरारोहा पतित्वे वरवर्णिनी

॥१९॥

बृहस्पतिः सुरानाह तच्छ्रुत्वा दारुणं वचः ।

नाहं त्यक्ष्ये तु पौलोमीं सतीं च शरणागताम्

॥२०॥

देवा ऊचुः

उपायोऽन्यः प्रकर्तव्यो येन सोऽद्य प्रसीदति ।

अन्यथा कोपसंयुक्तो दुराराध्यो भविष्यति

॥२१॥

गुरुरुवाच

तत्र गत्वा शची भूपं प्रलोभ्य वचसा भृशम् ।

करोतु समयं बाला पतिं ज्ञात्वा मृतं भजे

॥२२॥

इन्द्रे जीवति मे कान्ते कथमन्यं करोम्यहम् ।

अन्वेषणार्थं गन्तव्यं मया तस्य महात्मनः

॥२३॥

इति सा समयं कृत्वा वञ्चयित्वा च भूपतिम् ।

भर्तुरानयने यत्नं करोतु मम वाक्यतः

॥२४॥

इति सञ्चिन्त्य मे सर्वे बृहस्पतिपुरोगमाः ।

नहुषं सहिता जग्मुरिन्द्रपत्न्या दिवौकसः

॥२५॥

तानागतान्ममीक्ष्याह तदा कृत्रिमवासवः ।

जहर्ष च मुदायुक्तस्तां वीक्ष्य मुदितोऽब्रवीत्

॥२६॥

अद्यास्मि वासवः कान्ते भज मां चारुलोचने ।

पतित्वे सर्वलोकस्य पूज्योऽहं विहितः सुरैः

॥२७॥

इत्युक्ता सा नृपं प्राह वेपमाना त्रपायुता ।

वरमिच्छाम्यहं राजंस्त्वत्तः प्राप्तं सुरेश्वर

॥२८॥

किञ्चित्कालं प्रतीक्षस्व यावत्कुर्वे विनिर्णयम् ।

इन्द्रोऽस्तीति न वास्तीति सन्देहो मे हृदि स्थितः

॥२९॥

ततस्त्वां समुपस्थास्ये कृत्वा निश्चयमात्मनि ।

तावत्क्षमस्व राजेन्द्र सत्यमेतद्ब्रवीमि ते

॥३०॥

न हि विज्ञायते शक्रो नष्टः किं वा क्व वा गतः ।

एवमुक्तः स चेन्द्राण्या नहुषः प्रीतिमानभूत्

॥३१॥

व्यसर्जयत्स तां देवीं तथेत्युक्त्वा मुदान्वितः ।

सा विसृष्टा नृपेणाशु गत्वा प्राह सुरान्सती

॥३२॥

इन्द्रस्यागमने यत्नं कुरुताद्य कृतोद्यमाः ।

श्रुत्वा तद्वचनं देवा इन्द्राण्या रसवच्छुचि

॥३३॥

मन्त्रयामासुरेकाग्राः शक्रार्थं नृपसत्तम ।

ते गत्वा वैष्णवं धाम तुष्टुवुः परमेश्वरम्

॥३४॥

आदिदेवं जगन्नाथं शरणागतवत्सलम् ।

ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः

॥३५॥

देवदेव सुरपतिर्ब्रह्महत्याप्रपीडितः ।

अदृश्यः सर्वभूतानां क्वापि तिष्ठति वासवः

॥३६॥

त्वद्धिया निहते विप्रे ब्रह्महत्या कुतः प्रभो ।

त्वं गतिस्तस्य भगवन्नस्माकं च तथैव हि

॥३७॥

त्राहि नः परमापन्नान्मोक्षं तस्य विनिर्दिश ।

देवानां वचनं श्रुत्वा कातरं विष्णुरब्रवीत्

॥३८॥

यजतामश्वमेधेन शक्रपापनिवृत्तये ।

पुण्येन हयमेधेन पावितः पाकशासनः

॥३९॥

पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ।

हयमेधेन सन्तुष्टा देवी श्रीजगदम्बिका

॥४०॥

ब्रह्महत्यादिपापानि नाशयिष्यत्यसंशयम् ।

यस्याः स्मरणमात्रेण पापजालं विनश्यति

॥४१॥

किं पुनर्वाजिमेधेन तत्प्रीत्यर्थं कृतेन च ।

इन्द्राणी कुरुतान्नित्यं भगवत्याः प्रपूजनम्

॥४२॥

आराधनं शिवायास्तु सुखकारि भविष्यति ।

नहुषोऽपि जगन्मातुर्मायया मोहितः किल

॥४३॥

विनाशं स्वकृतेनाशु गमिष्यत्येनसा सुराः ।

पावितश्चाश्वमेधेन तुराषाडपि वैभवम्

॥४४॥

प्राप्स्यत्यचिरकालेन स्वमासनमनुत्तमम् ।

ते तु श्रुत्वा शुभां वाणीं विष्णोरमिततेजसः

॥४५॥

जग्मुस्तं देशमनिशं यत्रास्ते पाकशासनः ।

तमाश्वास्य सुराः शक्रं बृहस्पतिपुरोगमाः

॥४६॥

कारयामासुरखिलं हयमेधं महाक्रतुम् ।

विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च

॥४७॥

पर्वतेषु पृथिव्यां च स्त्रीषु चैवाक्षिपद्विभुः ।

तां विसृज्य च भूतेषु विपापः पाकशासनः

॥४८॥

विज्वरः समभूद्भूयः कालाकाङ्क्षी स्थितो जले ।

अदृश्यः सर्वभूतानां पद्मनाले व्यतिष्ठत

॥४९॥

देवास्तु निर्गताः स्थाने कृत्वा कार्यं तदद्भुतम् ।

पौलोमी तु गुरुं प्राह दुःखिता विरहाकुला

॥५०॥

कृतयज्ञोऽपि मे भर्ता किमदृश्यः पुरन्दरः ।

कथं द्रक्ष्ये प्रियं स्वामिंस्तमुपायं वदस्व मे

॥५१॥

बृहस्पतिरुवाच

त्वमाराधय पौलोमि देवीं भगवतीं शिवाम् ।

दर्शयिष्यति ते नाथं देवी विगतकल्मषम्

॥५२॥

आराधिता जगद्धात्री नहुषं वारयिष्यति ।

मोहयित्वा नृपं स्थानात्पातयिष्यति चाम्बिका

॥५३॥

इत्युक्ता सा तदा तेन पुलोमतनया नृप ।

जग्राह मन्त्रं विधिवद्गुरोर्देव्याः ससाधनम्

॥५४॥

विद्यां प्राप्य गुरोर्देवी देवीं श्रीभुवनेश्वरीम् ।

सम्यगाराधयामास बलिपुष्पार्चनैः शुभै

॥५५॥

त्यक्तान्यभोगसम्भारा तापसीवेषधारिणी ।

चकार पूजनं देव्याः प्रियदर्शनलालसा

॥५६॥

कालेन कियता तुष्टा प्रत्यक्षं दर्शनं ददौ ।

सौम्यरूपधरा देवी वरदा हंसवाहिनी

॥५७॥

सूर्यकोटिप्रतीकाशा चन्द्रकोटिसुशीतला ।

विद्युत्कोटिसमानाभा चतुर्वेदसमन्विता

॥५८॥

पाशांकुशाभयवरान्दधती निजबाहुभिः ।

आपादलम्बिनीं स्वच्छां मुक्तामालां च बिभ्रती

॥५९॥

प्रसन्तस्मेरवदना लोचनत्रयभूषिता ।

आब्रह्मकीटजननी करुणामृतसागरा

॥६०॥

अनन्तकोटिब्रह्माण्डनायिका परमेश्वरी ।

सौम्यानन्तरसैर्युक्तस्तनद्वयविराजिता

॥६१॥

सर्वेश्वरी च सर्वज्ञा कूटस्थाक्षररूपिणी ।

तामुवाच प्रसन्ना सा शक्रपत्नीं कृतोद्यमाम्

॥६२॥

मेघगम्भीरशब्देन मुदमाददती भृशम् ।

देव्युवाच ।

वरं वरय सुश्रोणि वाञ्छितं शक्रवल्लभे

॥६३॥

ददाम्यद्य प्रसन्नास्मि पूजिता सुभृशं त्वया ।

वरदाहं समायाता दर्शनं सहजं न मे

॥६४॥

अनेककोटिजन्मोत्थपुण्यपुञ्जैर्हि लभ्यते ।

इत्युक्ता सा तदा देवी तामाह प्रणता पुरः

॥६५॥

शक्रपत्नी भगवतीं प्रसन्नां परमेश्वरीम् ।

वाञ्छामि दर्शनं मातः पत्युः परमदुर्लभम्

॥६६॥

नहुषाद्भयनाशं च स्वपदप्रापणं तथा ।

देव्युवाच ।

गच्छ त्वमनया दूत्या सार्धं श्रीमानसं सरः

॥६७॥

यत्र मे मूर्तिरचला विश्वकामाभिधा मता ।

तत्र पश्यसि शक्रं त्वं दुःखितं भयविह्वलम्

॥६८॥

मोहयिष्यामि राजानं कालेन कियता पुनः ।

स्वस्था भव विशालाक्षि करोमि तव चेप्सितम्

॥६९॥

भ्रंशयिष्यामि भूपालं मोहितं त्रिदशासनात् ।

व्यास उवाच ।

देवीदूती तां गृहीत्वा शक्रपत्नीं त्वरान्विता

॥७०॥

प्रापयामास सान्निध्यं स्वपत्युः परमेश्वरीम् ।

सा दृष्ट्वा तं पतिं बाला सुरेशं गुप्तसंस्थितम् ।

मुदिताभूद्वरं वीक्ष्य बहुकालाभिवाञ्छितम्

॥७१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे इन्द्राण्या शक्रदर्शनं नामाष्टमोऽध्यायः ॥ ८ ॥