मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय २८

3
षष्ठस्कन्धः · 28

नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम्

नारद उवाच

निशामय मुनिश्रेष्ठ गदतो मम सत्कथाम् ।

मायाबलं सुदुर्ज्ञेयं मुनिभिर्योगवित्तमैः

॥१॥

मायया मोहितं सर्वं जगत्स्थावरजङ्गमम् ।

ब्रह्मादिस्तम्बपर्यन्तमजया दुर्विभाव्यया

॥२॥

कदाचित्सत्यलोकाद्वै श्वेतद्वीपे मनोहरे ।

गतोऽहं दर्शनाकाङ्क्षी हरेरद्भुतकर्मणः

॥३॥

वादयन्महतीं वीणां स्वरतानविभूषिताम् ।

गायत्रं गायमानस्तु साम सप्तस्वरान्वितम्

॥४॥

दृष्टो मया देवदेवश्चक्रपाणिर्गदाधरः ।

कौस्तुभोद्भासितोरस्को मेघश्यामश्चतुर्भुजः

॥५॥

पीताम्बरपरीधानो मुकुटाङ्गदराजितः ।

लक्ष्म्या सह विलासिन्या क्रीडमानो मुदा युतः

॥६॥

वीक्ष्य मां कमला देवी गतान्तर्धानमन्तिकात् ।

सर्वलक्षणसम्पन्ना सर्वभूषणभूषिता

॥७॥

नारीणां प्रवरा कान्ता रूपयौवनगर्विता ।

सुप्रिया वासुदेवस्य वरचामीकरप्रभा

॥८॥

अन्तर्गृहं गता दृष्ट्वा सिन्धुजां व्यञ्जनान्विताम् ।

मया पृष्टो देवदेवो वनमाली जगत्प्रभुः

॥९॥

भगवन्देवदेवेश पद्मनाभ सुरारिहन् ।

कथं च मा गता दृष्ट्वा मामागच्छन्तमन्तिकात्

॥१०॥

नाहं विटो न वा धूर्तः तापसोऽहं जगद्गुरो ।

जितेन्द्रियो जितक्रोधो जितमायो जनार्दन

॥११॥

नारद उवाच

निशम्य वचनं किञ्चिद्गर्वयुक्तं जनार्दनः ।

उवाच मां स्मितं कृत्वा वीणावन्मधुरां गिरम्

॥१२॥

विष्णुरुवाच

नारदैवंविधा नीतिर्न स्थातव्यं कदाचन ।

पतिं विनान्यसानिध्ये कस्यचिद्योषया क्वचित्

॥१३॥

माया सुदुर्जया विद्वन् योगिभिर्जितमारुतैः ।

सांख्यविद्भिर्निराहारैस्तापसैश्च जितेन्द्रियैः

॥१४॥

देवैश्च मुनिशार्दूल यत्त्वयोक्तं वचोऽधुना ।

जितमायोऽस्मि गीतज्ञ नैवं वाच्यं कदाचन

॥१५॥

नाहं शिवो न वा ब्रह्मा जेतुं तां प्रभवोऽप्यजाम् ।

मुनयः सनकाद्याश्च कस्त्वं केऽन्ये क्षमा जये

॥१६॥

देवदेहं नृदेहं वा तिर्यग्देहमथापि वा ।

बिभृयाद्यः शरीरं च स कथं तां जयेदजाम्

॥१७॥

त्रियुतस्तां कथं मायां जेतुं शक्तः पुमाम्भवेत् ।

वेदविद्योगविद्वापि सर्वज्ञो विजितेन्द्रियः

॥१८॥

कालोऽपि तस्या रूपं हि रूपहीनः स्वरूपकृत् ।

तद्वशे वर्तते देही विद्वान्मूर्खोऽथ मध्यमः

॥१९॥

कालः करोति धर्मज्ञं कदाचिद्विकलं पुनः ।

स्वभावात्कर्मतो वापि दुर्ज्ञेयं तस्य चेष्टितम्

॥२०॥

नारद उवाच

इत्युक्त्वा विरतो विष्णुरहं विस्मयमानसः ।

तमब्रवं जगन्नाथं वासुदेवं सनातनम्

॥२१॥

रमापते कथंरूपा माया सा कीदृशी पुनः ।

कियद्बला क्व संस्थाना कस्याधारा वदस्व मे

॥२२॥

द्रष्टुकामोऽस्मि तां मायां दर्शयाशु महीधर ।

ज्ञातुमिच्छामि तां सम्यक्प्रसादं कुरु मापते

॥२३॥

विष्णुरुवाच

त्रिगुणा साखिलाधारा सर्वज्ञा सर्वसम्मता ।

अजेयानेकरूपा च सर्वं व्याप्य स्थिता जगत्

॥२४॥

दिदृक्षा यदि ते चित्ते नारदारोहणं कुरु ।

गरुडे मत्समेतोऽद्य गच्छावोऽन्यत्र साम्प्रतम्

॥२५॥

दर्शयिष्यामि ते मायां दुर्जयामजितात्मभिः ।

दृष्ट्वा तां ब्रह्मपुत्र त्वं विषादे मा मनः कृथाः

॥२६॥

इत्युक्त्वा देवदेवो मां सस्मार विनतासुतम् ।

स्मृतमात्रस्तु गरुडस्तदागाद्धरिसन्निधौ

॥२७॥

आगतं गरुडं वीक्ष्य आरुरोह जनार्दनः ।

समारोप्य च मां पृष्ठे गमनाय कृतादरः

॥२८॥

चलितो विनतापुत्रो वैकुण्ठाद्वायुवेगवान् ।

प्रेरितो यत्र कृष्णेन गन्तुकामेन काननम्

॥२९॥

महावनानि दिव्यानि सरांसि सरितस्तथा ।

पुरग्रामाकरादींश्च खेटखर्वटगोव्रजान्

॥३०॥

मुनीनामाश्रमान् रम्यान् वापीश्च सुमनोहराः ।

पल्वलानि विशालानि ह्रदान् पङ्कजभूषितान्

॥३१॥

मृगाणां च वराहाणां वृन्दान्यप्यवलोक्य च ।

गतावावां कान्यकुब्जसमीपं गरुडासनौ

॥३२॥

तत्र रम्यं सरो दिव्यं दृष्टं पङ्कजमण्डितम् ।

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्

॥३३॥

नानावर्णैः प्रफुल्लैश्च पङ्कजैरुपरञ्जितम् ।

शुचि मिष्टजलं भृङ्गयूथनादविराजितम्

॥३४॥

मामाह भगवान् वीक्ष्य तडागं परमाद्भुतम् ।

स्पर्धकं चोदधेः क्षीरं मिष्टं वारि विशेषतः

॥३५॥

श्रीभगवानुवाच

पश्य नारद गम्भीरं सरः सारसनादितम् ।

सर्वत्र पङ्कजैश्छन्नं स्वच्छनीरप्रपूरितम्

॥३६॥

अत्र स्नात्वा गमिष्यावः कान्यकुब्जं पुरोत्तमम् ।

इत्युक्त्वा गरुडादाशु मामुत्तार्य व्यतारयत्

॥३७॥

विहस्य भगवांस्तत्र जग्राह मम तर्जनीम् ।

स्तुवन्सरोवरं भूयस्तीरे मामनयत्प्रभुः

॥३८॥

विश्रम्य तटभागे तु स्निग्धच्छाये मनोहरे ।

मामुवाच मुने स्नानं कुरु त्वं विमले जले

॥३९॥

पश्चादहं करिष्यामि तडागेऽस्मिन्सुपावने ।

साधूनामिव चेतांसि जलानि निर्मलानि च

॥४०॥

सुरभीणि परागैस्तु पङ्कजानां विशेषतः ।

इत्युक्तोऽहं भगवता मुक्त्वा वीणां मृगाजिनम्

॥४१॥

स्नानाय कृतधीस्तीरे गतः प्रेमसमन्वितः ।

पादौप्रक्षाल्य हस्तौच शिखां बद्ध्वा कुशग्रहम्

॥४२॥

कृत्वाऽऽचम्य शुचिस्तोये स्नातवानस्मि तज्जले ।

यदा तस्मिज्जले रम्ये स्नातोऽहं पश्यतो हरेः

॥४३॥

विहाय पौरुषं रूपं प्राप्तः स्त्रीत्वमनुत्तमम् ।

हरिर्गृहीत्वा वीणां मे तथा कृष्णाजिनं शुभम्

॥४४॥

आरुह्य गरुडं तूर्णं जगाम स्वगृहं क्षणात् ।

ततोऽहं स्त्रीत्वमापन्नश्चारुभूषणभूषितः

॥४५॥

तत्क्षणान्मनसो जाता पूर्वदेहस्य विस्मृतिः ।

विस्मृतोऽसौ जगन्नाथो महती विस्मृता पुनः

॥४६॥

सम्प्राप्य मोहिनीरूपं तडागान्निर्गतो बहिः ।

अपश्यं नलिनीजुष्टं सरस्तद्विमलोदकम्

॥४७॥

किमेतदिति मनसाकरवं विस्मयं मुहुः ।

एवं चिन्तयमानस्य नारीरूपधरस्य मे

॥४८॥

सहसा दृक्पथं प्राप्तस्तत्र तालध्वजो नृपः ।

गजाश्वरथवृन्दैश्च संवृतो रथसंस्थितः

॥४९॥

युवा भूषणसंवीतो देहवानिव मन्मथः ।

वीक्ष्य मां भूपतिस्तत्र दिव्यभूषणभूषिताम्

॥५०॥

राकाचन्द्रमुखीं योषां विस्मयं परमं गतः ।

पप्रच्छ कासि कल्याणि कस्य पुत्री सुरस्य वा

॥५१॥

मानुषस्य च वा कान्ते गन्धर्वस्योरगस्य च ।

एकाकिनी कथं बाला रूपयौवनभूषिता

॥५२॥

विवाहिताथ कन्या वा सत्यं वद सुलोचने ।

किं पश्यसि सुकेशान्ते तडागेऽस्मिन्सुमध्यमे

॥५३॥

चिकीर्षितं पिकालापे ब्रूहि मन्मथमोहिनि ।

भुङ्क्षव भोगान्मरालाक्षि मया सह कृशोदरि ।

वाञ्छितान्मनसा नूनं कृत्वा मां पतिमुत्तमम्

॥५४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदेन स्वस्त्रीत्वप्राप्तिवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥