हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम्
राजोवाच
तीर्थानि भुवि पुण्यानि ब्रूहि मे मुनिसत्तम ।
गम्यानि मानवैर्देवैः क्षेत्राणि सरितस्तथा
॥१॥फलं च यादृशं यत्र तीर्थेषु स्नानदानतः ।
विधिं तु तीर्थयात्रायां नियमांश्च विशेषतः
॥२॥व्यास उवाच
शृणु राजन् प्रवक्ष्यामि तीर्थानि विविधानि च ।
येषु तीर्थेषु देवीनां प्रशस्तान्यायनानि च
॥३॥नदीनां जाह्नवी श्रेष्ठा यमुना च सरस्वती ।
नर्मदा गण्डकी सिन्धुर्गोमती तमसा तथा
॥४॥कावेरी चन्द्रभागा च पुण्या वेत्रवती शुभा ।
चर्मण्वती च सरयूस्तापी साभ्रमती तथा
॥५॥एताश्च कथिता राजन्नन्याश्च शतशः पुनः ।
तासां समुद्रगाः पुण्याः स्वल्पपुण्या ह्यनब्धिगाः
॥६॥समुद्रगानां ताः पुण्याः सर्वदौघवहास्तु याः ।
मासद्वयं श्रावणादौ ताश्च सर्वा रजस्वलाः
॥७॥भवन्ति वृष्टियोगेन ग्राम्यवारिवहास्तथा ।
पुष्करं च कुरुक्षेत्रं धर्मारण्यं सुपावनम्
॥८॥प्रभासं च प्रयागं च नैमिषारण्यमेव च ।
विश्रुतं चार्बुदारण्यं शैलाश्च पावनास्तथा
॥९॥श्रीशैलश्च सुमेरुश्च पर्वतो गन्धमादनः ।
सरांसि चैव पुण्यानि मानसं सर्वविश्रुतम्
॥१०॥तथा बिन्दुसरः श्रेष्ठमच्छोदं नाम पावनम् ।
आश्रमास्तु तथा पुण्या मुनीनां भावितात्मनाम्
॥११॥विश्रुतस्तु सदा पुण्यः ख्यातो बदरिकाश्रमः ।
नरनारायणौ यत्र तेपाते तौ मुनी तपः
॥१२॥वामनाश्रम आख्यातः शतयूपाश्रमस्तथा ।
येन यत्र तपस्तप्तं तस्य नाम्नातिविश्रुतः
॥१३॥एवं पुण्यानि स्थानानि ह्यसंख्यातानि भूतले ।
मुनिभिः परिगीतानि पावनानि महीपते
॥१४॥एषु स्थानेषु सर्वत्र देवीस्थानानि भूपते ।
दर्शनात्पापहारीणि वसन्ति नियमेन च
॥१५॥कथयिष्यामि तान्यग्रे प्रसङ्गेन च कानिचित् ।
तीर्थानि नृप दानानि व्रतानि च मखास्तथा
॥१६॥तपांसि पुण्यकर्माणि सापेक्षाणि महीपते ।
द्रव्यशुद्धिं क्रियाशुद्धिं मनःशुद्धिमपेक्ष्य च
॥१७॥पावनानि हि तीर्थानि तपांसि च व्रतानि च ।
कदाचिद्द्रव्यशुद्धिः स्यात्क्रियाशुद्धिः कदाचन
॥१८॥दुर्लभा मनसः शुद्धिः सर्वेषां सर्वदा नृप ।
मनस्तु चञ्चलं राजन्ननेकविषयाश्रितम्
॥१९॥कथं शुद्धं भवेद्राजन्नानाभावसमाश्रितम् ।
कामक्रोधौ तथा लोभो ह्यहङ्कारो मदस्तथा
॥२०॥सर्वविघ्नकरा ह्येते तपस्तीर्थव्रतेषु च ।
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः
॥२१॥स्वधर्मपालनं राजन् सर्वतीर्थफलप्रदम् ।
नित्यकर्मपरित्यागान्मार्गे संसर्गदोषतः
॥२२॥व्यर्थं तीर्थाधिगमनं पापमेवावशिष्यते ।
क्षालयन्ति हि तीर्थानि सर्वथा देहजं मलम्
॥२३॥मानसं क्षालितुं तानि न समर्थानि वै नृप ।
शक्तानि यदि चेत्तानि गङ्गातीरनिवासिनः
॥२४॥मुनयो द्रोहसंयुक्ताः कथं स्युर्भावितेश्वराः ।
वसिष्ठसदृशाः प्रह्वा विश्वामित्रादयः किल
॥२५॥रागद्वेषरताः सर्वे कामक्रोधाकुलाः सदा ।
चित्तशुद्धिमयं तीर्थं गङ्गादिभ्योऽतिपावनम्
॥२६॥यदि स्याद्दैवयोगेन क्षालयत्यान्तरं मलम् ।
विशेषेण तु सत्सङ्गो ज्ञाननिष्ठस्य भूपते
॥२७॥न वेदा न च शास्त्राणि न व्रतानि तपांसि न ।
न मखा न च दानानि चित्तशुद्धेस्तु कारणम्
॥२८॥वसिष्ठो ब्रह्मणः पुत्रो वेदविद्याविशारदः ।
रागद्वेषान्वितः कामं गङ्गातीरसमाश्रितः
॥२९॥आडीबकं महायुद्धं विश्वामित्रवसिष्ठयोः ।
जातं निरर्थकं द्वेषाद्देवानां विस्मयप्रदम्
॥३०॥विश्वामित्रो बकस्तत्र जातः परमतापसः ।
शप्तः स तु वसिष्ठेन हरिश्चन्द्रस्य कारणात्
॥३१॥कौशिकेन वसिष्ठोऽपि शस्त्वाडीदेहभाक्कृतः ।
शापादाडीबकौ जातौ तौ मुनी विशदप्रभौ
॥३२॥निवासं प्रापतुस्तीरे सरसो मानसस्य च ।
चक्रतुर्दारुणं युद्धं नखचञ्चुप्रताडनैः
॥३३॥वर्षाणामयुतं यावत्तावृषी रोषसंयुतौ ।
युयुधाते मदोन्मत्तौ सिंहाविव परस्परम्
॥३४॥राजोवाच
कथं तौ मुनिशार्दूलौ तापसौ धर्मतत्परौ ।
परस्परं वैरपरौ सञ्जातौ केन हेतुना
॥३५॥शापं परस्परं केन कारणेन महामती ।
दत्तवन्तौ मिथः क्लेशकारकौ दुःखदौ नृणाम्
॥३६॥व्यास उवाच
हरिश्चन्द्रो नृपश्रेष्ठस्त्रिशंकुतनयः पुरा ।
बभूव रविवंशीयो रामचन्द्रस्य पूर्वजः
॥३७॥अनपत्यः स राजर्षिर्वरुणाय महाक्रतुम् ।
प्रतिजज्ञे पुत्रकामो नरमेधं दुरासदम्
॥३८॥वरुणस्तस्य सन्तुष्टो यज्ञस्य नियमे कृते ।
दधार गर्भं राज्ञस्तु भार्या परमसुन्दरी
॥३९॥राजा बभूव सन्तुष्टो दृष्ट्वा भार्यां सदोहदाम् ।
चकार विधिवत्कर्म गर्भसंस्कारकारकम्
॥४०॥सुषुवे तनयं नारी सर्वलक्षणसंयुतम् ।
मुदं प्राप नृपस्तत्र पुत्रे जाते विशाम्पते
॥४१॥कृतवाञ्जातकर्मादिसंस्कारविधिमुत्तमम् ।
ददौ हिरण्यं गा दोग्धीर्ब्राह्मणेभ्यो विशेषतः
॥४२॥जन्मोत्सवेऽतिसंवृत्ते गेहे वै यादसाम्पतिः ।
आजगाम महाराज विप्रवेषधरस्तथा
॥४३॥पूजितः पार्थिवेनाथ दत्त्वा विधिवदासनम् ।
कार्ये पृष्टेऽब्रवीद्वाक्यं वरुणोऽस्मीति भूपतिम्
॥४४॥कुरु यज्ञं सुतं कृत्वा पशुं परमपावनम् ।
सत्यवाग्भव राजेन्द्र संकल्पस्तु त्वया कृतः
॥४५॥तच्छ्रुत्वा वचनं राजा विह्वलोऽतिव्यथाकुलः ।
संस्तभ्याधिं नृपः प्राह वरुणं सत्कृताञ्जलिः
॥४६॥स्वामिन्करोमि तं यज्ञं सर्वथा विधिपूर्वकम् ।
मया ते यत्प्रतिज्ञातं भवामि सत्यवागहम्
॥४७॥पूर्णे मासे विशुध्येत धर्मपत्नी सुरोत्तम ।
विशुद्धायां तु भार्यायां कर्तव्यः स पशोर्मखः
॥४८॥व्यास उवाच
इत्युक्ते वचने राज्ञा वरुणः स्वगृहं गतः ।
राजा बभूव सन्तुष्टः किञ्चिच्चिन्तातुरस्तथा
॥४९॥पूर्णे मासि पुनः पाशी परीक्षार्थं नृपालये ।
आजगाम द्विजो भूत्वा सुवेषः सुष्ठुभाषकः
॥५०॥कृतार्हणं सुखासीनं भूपतिस्तं सुरोत्तमम् ।
उवाच विनयोपेतो हेतुगर्भं वचस्तदा
॥५१॥असंस्कृतं सुतं स्वामिन्यूपे बध्नामि तं कथम् ।
संस्कत्य क्षत्रियं कृत्वा यजेऽहं यज्ञमुत्तमम्
॥५२॥दयसे यदि देव त्वं ज्ञात्वा दीनं स्वसेवकम् ।
असंस्कृतस्य बालस्य नाधिकारोऽस्ति कुत्रचित्
॥५३॥वरुण उवाच
प्रतारयसि राजेन्द्र कृत्वा समयमग्रतः ।
दुस्त्यजस्तव जानामि सुतस्नेहो ह्यपुत्रिणः
॥५४॥गृहं व्रजामि भूपाल वचनात्तव कोमलात् ।
कियत्कालं प्रतीक्ष्याहमागमिष्यामि ते गृहम्
॥५५॥भवितव्यं त्वया तात तदा सत्यवचोऽन्वितम् ।
अन्यथा त्वयि मुञ्चामि कोपं शापसमन्वितम्
॥५६॥राजोवाच
समावर्तनकर्मान्ते सर्वथा यादसांपते ।
कृत्वा पुत्रपशुं यज्ञे यजिष्ये विधिपूर्वकम्
॥५७॥व्यास उवाच
तच्छ्रुत्वा वचनं राज्ञो वरुणः प्रीतमानसः ।
तथेत्युक्त्वा ययौ तूर्णं नृपस्तु सुस्थितोऽभवत्
॥५८॥रोहिताख्य इति ख्यातः सुतस्तस्य विवृद्धिमान् ।
सञ्जातश्चतुरः सर्वविद्यानां च विशारदः
॥५९॥यज्ञस्य कारणं तेन ज्ञातं सर्वं सविस्तरम् ।
भयभीतस्ततः सोऽपि मत्वा मरणमात्मनः
॥६०॥कृत्वा पलायनं वीरो गतोऽसौ गिरिगह्वरे ।
अगम्ये नृपतिस्थाने स्थितस्तत्र भयातुरः
॥६१॥प्राप्ते कालेऽथ वरुणो यज्ञार्थी नृपतेर्गृहम् ।
गत्वा तमाह भूपालं कुरु यज्ञं विशांपते
॥६२॥प्रम्लानवदनो राजा तमाह व्यथितेन्द्रियः ।
किं करोमि गतः क्वापि सुतो मे सुरसत्तम
॥६३॥श्रुत्वा तद्वचनं राज्ञः कुपितो यादसांपतिः ।
शशाप तं नृपं कोपादसत्यवादिनं भृशम्
॥६४॥जलोदराभिधो व्याधिर्देहे भवतु ते नृप ।
यतः प्रतारितश्चाहं कृत्वा कपटपण्डित
॥६५॥इति शप्त्वा ययौ धाम स्वकं पाशधरस्तदा ।
राजा चिन्तातुरस्तस्थौ भवने व्याधिपीडितः
॥६६॥यदातिव्याधितो राजा रोगेण शापजेन ह ।
तदा शुश्राव पुत्रोऽपि पितरं व्याधिपीडितम्
॥६७॥पान्थिकः प्राह पुत्रं हि पिता ते भृशदुःखितः ।
जलोदरविकारेण शापजेन नृपात्मज
॥६८॥विनष्टं जीवितं तेऽद्य वृथा जातस्य दुर्मते ।
यत्त्यक्त्वा पितरं दुःस्थं प्राप्तोऽसि गिरिगह्वरम्
॥६९॥किमनेन शरीरेण प्राप्तं ते जन्मनः फलम् ।
देहदं दुःखितं कृत्वा स्थितोऽस्यत्र सुताधम
॥७०॥प्राणास्त्याज्याः पितुः कार्ये सत्पुत्रेणेति निश्चयः ।
त्वदर्थे दुःखितो राजा क्रन्दति व्याधिपीडितः
॥७१॥व्यास उवाच
तदाकर्ण्य वचस्तथ्यं पान्थिकाद्धर्मसंयुतम् ।
यदा चक्रे मनो गन्तुं द्रष्टुं तातं व्यथातुरम्
॥७२॥तदा विप्रवपुर्भूत्वा वासवस्तमुपागमत् ।
रहः प्राह हितं वाक्यं दयावानिव भारत
॥७३॥मूर्खोऽसि राजपुत्र त्वं गमनाय मतिं वृथा ।
करोषि पितरं त्वद्य न जानासि व्यथायुतम्
॥७४॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥