मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — षष्ठस्कन्धः, अध्याय १३

3
षष्ठस्कन्धः · 13

आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम्

इन्द्र उवाच

साहसं कृतवान् राजा पूर्वं यत्कथितो मखः ।

वरुणाय प्रतिज्ञातः पुत्रं कृत्वा पशुं प्रियम्

॥१॥

गते त्वयि पिता पुत्रं बद्ध्वा यूपेऽघृणः पुनः ।

पशुं कृत्वा महाबुद्धे वधिष्यति व्यथातुरः

॥२॥

इत्थं निषिद्धस्तत्पुत्रः शक्रेणामिततेजसा ।

स्थितस्तत्रैव मायेशीमायया मोहितो भृशम्

॥३॥

यदा पुनः पुनः श्रुत्वा पितरं रोगपीडितम् ।

गमनाय मतिं चक्रे तदेन्द्रः प्रत्यषेधयत्

॥४॥

हरिश्चन्द्रोऽतिदुःखार्तः पप्रच्छ गुरुमन्तिके ।

स्थितं वसिष्ठमेकान्ते सर्वज्ञं हिततत्परम्

॥५॥

राजोवाच

भगवन् कि करोम्यद्य कातरोऽस्मि व्यथाकुलः ।

त्राहि मां दुःखमनसं महाव्याधिभयातुरम्

॥६॥

वसिष्ठ उवाच

शृणु राजन्नुपायोऽस्ति रोगनाशं प्रति स्तुतः ।

त्रयोदशविधाः पुत्राः कथिता धर्मसंग्रहे

॥७॥

तस्मात्क्रीतं सुतं कृत्वा यजस्व मखमुत्तमम् ।

द्रव्यं दत्त्वा यथोद्दिष्टमानयस्व द्विजोत्तमम्

॥८॥

एवं कृते मखे भूप रोगनाशो भविष्यति ।

वरुणोऽपि प्रसन्नात्मा भविष्यति यथासुखम्

॥९॥

व्यास उवाच

इति तस्य वचः श्रुत्वा राजा प्रोवाच मन्त्रिणम् ।

अन्वेषय महाबुद्धे विषयेष्वतियत्नतः

॥१०॥

कदाचित्कोऽपि लोभार्थी ददाति स्वसुतं पिता ।

समानय धनं दत्त्वा यावत्प्रार्थयतेऽप्यसौ

॥११॥

सर्वथैव समानेयो यज्ञार्थे द्विजबालकः ।

न कार्या कृपणा बुद्धिस्त्वया मत्कार्यहेतवे

॥१२॥

प्रार्थनीयस्त्वया पुत्रः कस्यचिद्द्विजवादिनः ।

द्रव्येण देहि यज्ञार्थं कर्तव्योऽसौ पशुः किल

॥१३॥

इति सञ्चोदितस्तेन सचिवः कार्यहेतवे ।

अन्वेषयामास पुरे ग्रामे ग्रामे गृहे गृहे

॥१४॥

एवमन्वेषतस्तस्य विषये कश्चिदातुरः ।

निर्धनस्त्रिसुतश्चासीदजीगर्तेति नामतः

॥१५॥

तस्य पुत्रं शुनःशेपं मध्यमं मन्त्रिसत्तमः ।

आनयामास दत्त्वार्थं प्रार्थितं यद्धनं तदा

॥१६॥

समानीय शुनःशेपं सचिवः कार्यतत्परः ।

राज्ञे निवेदयामास पशुयोग्यं द्विजात्मजम्

॥१७॥

राजातिमुदितस्तेन विप्रानानीय सर्वतः ।

कारयामास सम्भारान्यज्ञार्थं वेदवित्तमान्

॥१८॥

प्रारब्धे तु मखे तत्र विश्वामित्रो महामुनिः ।

बद्धं दृष्ट्वा शुनःशेपं निषिषेध नृपं तदा

॥१९॥

राजन्मा साहसं कार्षीर्मुञ्चैनं द्विजबालकम् ।

प्रार्थयाम्यहमायुष्मन् सुखं तेऽद्य भविष्यति

॥२०॥

क्रन्दत्ययं शुनःशेपः करुणा मां दुनोत्यपि ।

दयावान्भव राजेन्द्र कुरु मे वचनं नृप

॥२१॥

परदेहस्य रक्षायै स्वदेहं ये दयापराः ।

ददति क्षत्रियाः पूर्वं स्वर्गकामाः शुचिव्रताः

॥२२॥

त्वं स्वदेहस्य रक्षार्थं हंसि द्विजसुतं बलात् ।

पापं मा कुरु राजेन्द्र दयावान् भव बालके

॥२३॥

सर्वेषां सदृशी प्रीतिर्देहे वेत्सि स्वयं नृप ।

मुञ्चैनं बालकं तस्मात्प्रमाणं यदि मे वचः

॥२४॥

व्यास क्त्वच अनादृत्य च तद्वाक्यं राजा दुःखातुरो भृशम् ।

न मुमोच मुनिस्तस्मै चूकोपातीव तापसः

॥२५॥

उपदेशं ददौ तस्मै शुनःशेपाय कौशिकः ।

मन्त्रं पाशधरस्याथ दयावान्वेदवित्तमः

॥२६॥

शुनःशेपोऽपि तं मन्त्रमसकृद्वधकर्शितः ।

स्तुतस्वरेण चुक्रोश संस्मरन्वरुणं भृशम्

॥२७॥

स्तुवन्तं मुनिपुत्रं तं ज्ञात्वा वै यादसां पतिः ।

तत्रागत्य शुनःशेपं मुमोच करुणार्णवः

॥२८॥

रोगहीनं नृपं कृत्वा वरुणः स्वगृहं ययौ ।

विश्वामित्रस्तु तं पुत्रं कृतवान्मोचितं मृतेः

॥२९॥

न कृतं वचनं राज्ञा कौशिकस्य महात्मनः ।

रोषं दधार मनसा राजोपरि स गाधिजः

॥३०॥

एकस्मिन्समये राजा हयारूढो वनं गतः ।

सूकरं हन्तुकामस्तु मध्याह्ने कौशिकीतटे

॥३१॥

वृद्धब्राह्मणवेषेण विश्वामित्रेण वञ्चितः ।

सर्वस्वं प्रार्थितं तस्य गृहीतं राज्यमद्भुतम्

॥३२॥

पीडितोऽसौ हरिश्चन्द्रो यजमानो यतो भृशम् ।

वसिष्ठः कौशिकं प्राह वने प्राप्तं यदृच्छया

॥३३॥

क्षत्रियाधम दुर्बुद्धे वृथा ब्राह्मणवेषभृत् ।

बकधर्म वृथा किं त्वं गर्वं वहसि दाम्भिक

॥३४॥

कस्मात्त्वया नृपश्रेष्ठो यजमानो ममाप्यसौ ।

अपराधं विना जाल्म गमितो दुःखमद्भुतम्

॥३५॥

बकध्यानपरो यस्मात्तस्मात्त्वं वै बको भव ।

इति शप्तो वसिष्ठेन कौशिकः प्राह तं पुनः

॥३६॥

त्वमप्याडिर्भवायुष्मन् बकोऽहं यावदेव हि ।

व्यास उवाच ।

एवं परस्परं दत्त्वा शापं तौ क्रोधपीडितौ

॥३७॥

अण्डजौ तरसा जातौ सरस्याडीबकौ मुनी ।

एकस्मिन्पादपे नीडं कृत्वासौ बकरूपभाक्

॥३८॥

विश्वामित्रः स्थितस्तत्र दिव्ये सरसि मानसे ।

अन्यस्मित्पादपे कृत्वा वसिष्ठो नीडमुत्तमम्

॥३९॥

आडीरूपधरस्तस्थावन्योन्यं द्वेषतत्परौ ।

दिने दिने तौ संग्रामं चक्रतुः क्रोधसंयुतौ

॥४०॥

दुःखदं सर्वलोकानां क्रन्दमानावुभौ भृशम् ।

चञ्चुपक्षप्रहारैस्तु नखाघातैः परस्परम्

॥४१॥

जघ्नतू रुधिरक्लिनौ पुष्पिताविव किंशुकौ ।

एवं बहूनि वर्षाणि पक्षिरूपधरौ मुनी

॥४२॥

स्थितौ तत्र महाराज शापपाशेन यन्त्रितौ ।

राजोवाच ।

कथं मुक्तौ मुनिश्रेष्ठौ शापाद्वसिष्ठकौशिकौ

॥४३॥

तन्ममाचक्ष्व विप्रर्षे परं कौतूहलं हि मे ।

व्यास उवाच ।

युध्यमानाब्वुभौ दृष्ट्वा ब्रह्मा लोकपितामहः

॥४४॥

तत्राजगामानिमिषैर्वृतः सर्वैर्दयापरैः ।

तावाश्वास्य जगत्कर्ता युद्धतो विनिवार्य च

॥४५॥

शापं संमोचयामास तयोः क्षिप्तं परस्परम् ।

ततो जग्मुः सुराः सर्वे स्वानि धिष्ण्यानि पद्मभूः

॥४६॥

सत्यलोकं जगामाशु हंसारूढः प्रतापवान् ।

विश्वामित्रोऽप्यगात्तूर्णं वसिष्ठः स्वाश्रमं गतः

॥४७॥

मिथः स्नेहं ततः कृत्वा प्रजापत्युपदेशतः ।

मैत्रावरुणिनाप्येवं कृतं युद्धमकारणम्

॥४८॥

कौशिकेन समं भूप दुःखदं च परस्परम् ।

को नाम मानवो लोके देवो वा दानवोऽपि वा

॥४९॥

अहङ्कारजयं कृत्वा सर्वदा सुखभाग्भवेत् ।

तस्माद्राजंश्चित्तशुद्धिर्महतामपि दुर्लभा

॥५०॥

यत्नेन साधनीया सा तद्विहीनं निरर्थकम् ।

तीर्थं दानं तपः सत्यं यत्किञ्चिद्धर्मसाधनम्

॥५१॥

(श्रद्धात्र त्रिविधा प्रोक्ता सात्त्विकी राजसी तथा ।

तामसी सर्वदेहेषु देहिनां धर्मकर्मसु ।

सात्त्विकी दुर्लभा लोके यथोक्तफलदा सदा ।

तदर्धफलदा प्रोक्ता राजसी विधिसंयुता ।

तामसी त्वफला राजन्न तु कीर्तिकरी पुनः ।

कामक्रोधाभिभूतानां जनानां नृपसत्तम ।

) वासनारहितं कृत्वा तच्चित्तं श्रवणादिना ।

तीर्थादिषु वसेन्नित्यं देवीपूजनतत्परः

॥५२॥

देवीनामानि वचसा गृह्णंस्तस्या गुणान्स्तुवन् ।

ध्यायंस्तस्याः पदाम्भोजं कलिदोषभयार्दितः

॥५३॥

एवं तु कुर्वतस्तस्य न कदाचित्कलेर्भयम् ।

अनायासेन संसारान्मुच्यते पातकी जनः

॥५४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादलसाहस्र्यां संहितायां षष्ठस्कन्धे आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥