मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय १

3
सप्तमस्कन्धः · 1

दक्षप्रजापतिवर्णनम्

सूत उवाच

श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः ।

व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः

॥१॥

जनमेजय उवाच

स्वामिन् सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम् ।

तथा सोमान्वयानां च श्रोतुकामोऽस्मि सर्वथा

॥२॥

कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम् ।

चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः

॥३॥

ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् ।

देवीभक्तस्य चरितं शृण्वन्कोऽस्ति विरक्तिभाक्

॥४॥

इति राजर्षिणा पृष्टो व्यासः सत्यवतीसुतः ।

तमुवाच मुनिश्रेष्ठः प्रसन्नवदनो मुनिः

॥५॥

व्यास उवाच

निशामय महाराज विस्तराद्गदतो मम ।

सोमसूर्यान्वयानां च तथान्येषां समुद्भवम्

॥६॥

विष्णोर्नाभिसरोजाद्वै ब्रह्माभूच्चतुराननः ।

तपस्तप्त्वा समाराध्य महादेवीं सुदुर्गमाम्

॥७॥

तया दत्तवरो धाता जगत्कर्तुं समुद्यतः ।

नाशकन्मानुषीं सृष्टिं कर्तुं लोकपितामहः

॥८॥

विचिन्त्य बहुधा चित्ते सृष्ट्यर्थं चतुराननः ।

न विस्तारं जगामाशु रचितापि महात्मना

॥९॥

(ससर्ज मानसान्पुत्रान्सप्तसंख्यान्प्रजापतिः) मरीचिरङ्गिरात्रिश्च वसिष्ठः पुलहः क्रतुः ।

पुलस्त्यश्चेति विख्याताः सप्तैते मानसाः सुताः

॥१०॥

रुद्रो रोषात्समुत्पन्नोऽप्युत्सङ्गान्नारदोऽभवत् ।

दक्षोऽङ्गुष्ठात्तथान्येऽपि मानसाः सनकादयः

॥११॥

वामाङ्गुष्ठाद्दक्षपत्नी जाता सर्वाङ्गसुन्दरी ।

वीरिणी नाम विख्याता पुराणेषु महीपते

॥१२॥

असिक्नीति च नाम्ना सा यस्यां जातोऽथ नारदः ।

देवर्षिप्रवरः कामं ब्रह्मणो मानसः सुतः

॥१३॥

जनमेजय उवाच

अत्र मे संशयो ब्रह्मन् यदुक्तं भवता वचः ।

वीरिण्यां नारदो जातो दक्षादिति महातपाः

॥१४॥

कथं दक्षस्य पत्न्यां तु वीरिण्यां नारदो मुनिः ।

जातो हि ब्रह्मणः पुत्रो धर्मज्ञस्तापसोत्तमः

॥१५॥

विचित्रमिदमाख्यातं भवता नारदस्य च ।

दक्षाज्जन्मास्य भार्यायां तद्वदस्व सविस्तरम्

॥१६॥

पूर्वदेहः कथं मुक्तः शापात्कस्य महामना ।

नारदेन बहुज्ञेन कस्माज्जन्म कृतं मुने

॥१७॥

व्यास उवाच

ब्रह्मणासौ समादिष्टो दक्षः सृष्ट्यर्थमादितः ।

प्रजाः सृजेति सुभृशं वृद्धिहेतोः स्वयम्भुवा

॥१८॥

ततः पञ्चसहस्रांश्च जनयामास वीर्यवान् ।

दक्षः प्रजापतिः पुत्रान् वीरिण्यां बलवत्तरान्

॥१९॥

दृष्ट्वा तान्नारदः पुत्रान्सर्वान्वर्धयिषून्प्रजाः ।

उवाच प्रहसन्वाचं देवर्षिः कालनोदितः

॥२०॥

भुवः प्रमाणमज्ञात्वा स्रष्टुकामाः प्रजाः कथम् ।

लोकानां हास्यतां यूयं गमिष्यथ न संशयः

॥२१॥

पृथिव्या वै प्रमाणं तु ज्ञात्वा कार्यः समुद्यमः ।

कृत्तोऽसौ सिद्धिमायाति नान्यथेति विनिश्चयः

॥२२॥

बालिशा बत यूयं वै यदज्ञात्वा भुवस्तलम् ।

समुद्यताः प्रजाः कर्तुं कथं सिद्धिर्भविष्यति

॥२३॥

व्यास उवाच

नारदेनैवमुक्तास्ते हर्यश्वा दैवयोगतः ।

अन्योन्यमूचुः सहसा सम्यगाह मुनिः किल

॥२४॥

ज्ञात्व प्रमाणमुर्व्यास्तु सुखं स्रक्ष्यामहे प्रजाः ।

इति सञ्चिन्त्य ते सर्वे प्रयाताः प्रेक्षितुं भुवः

॥२५॥

तलं सर्वं परिज्ञातुं वचनान्नारदस्य च ।

प्राच्यां केचिद्गताः कामं दक्षिणस्यां तथापरे

॥२६॥

प्रतीच्यामुत्तरस्यां तु कृतोत्साहाः समन्ततः ।

दक्षः पुत्रान्गतान्दृष्ट्वा पीडितस्तु शुचा भृशम्

॥२७॥

अन्यानुत्पादयामास प्रजार्थं कृतनिश्चयः ।

तेऽपि तत्रोद्यताः कर्तुं प्रजार्थमुद्यमं सुताः

॥२८॥

नारदः प्राह तान्दृष्ट्वा पूर्वं यद्वचनं मुनिः ।

बालिशा बत यूयं वै यदज्ञात्वा भुवः किल

॥२९॥

प्रमाणं तु प्रजाः कर्तुं प्रवृत्ताः केन हेतुना ।

श्रुत्वा वाक्यं मुनेस्तेऽपि मत्वा सत्यं विमोहिताः

॥३०॥

जग्मुः सर्वे यथापूर्वं भ्रातरश्चलितास्तथा ।

तान्सुतान्प्रस्थितान्दृष्ट्वा दक्षः कोपसमवितः

॥३१॥

शशाप नारदं कोपात् पुत्रशोकसमुद्भवात् ।

दक्ष उवाच ।

नाशिता मे सुता यस्मात् तस्मान्नाशमवाप्नुहि

॥३२॥

पापेनानेन दुर्बुद्धे गर्भवासं व्रजेति च ।

पुत्रो मे भव कामं त्वं यतो मे भ्रंशिताः सुताः

॥३३॥

इति शप्तस्ततो जातो वीरिण्यां नारदो मुनिः ।

षष्टिर्भूयोऽसृजत्कन्या वीरिण्यामिति नः श्रुतम्

॥३४॥

शोकं विहाय पुत्राणां दक्षः परमधर्मवित् ।

तासां त्रयोदश प्रादात्कश्यपाय महात्मने

॥३५॥

दश धर्माय सोमाय सप्तविंशति भूपते ।

द्वे चैव भृगवे प्रादाच्चतस्रोऽरिष्टनेमिने

॥३६॥

द्वे चैवाङ्गिरसे कन्ये तथैवाङ्गिरसे पुनः ।

तासां पुत्राश्च पौत्राश्च देवाश्च दानवास्तथा

॥३७॥

जाता बलसमायुक्ताः परस्परविरोधकाः ।

रागद्वेषान्विताः सर्वे परस्परविरोधिनः ।

सर्वे मोहावृताः शूरा ह्यभवन्नतिमायिनः

॥३८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सोमसूर्यवंशवर्णने दक्षप्रजापतिवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥