मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय २२

3
सप्तमस्कन्धः · 22

हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम्

व्यास उवाच

स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः ।

प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः

॥१॥

नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् ।

यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम्

॥२॥

एवमुक्त्वा ततो राजा गत्वा नगरमातुरः ।

अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः ।

बाष्पगद्गदकण्ठस्तु ततो वचनमब्रवीत् ।

भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम

॥४॥

कस्यचिद्यदि कार्यं स्याद्दास्या प्राणेष्टया मम ।

स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम्

॥५॥

तेऽब्रुवन्पण्डिताः कस्त्वं पत्नीं विक्रेतुमागतः ।

राजोवाच ।

किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः

॥६॥

राक्षसो वास्मि कठिनस्ततः पापं करोम्यहम् ।

व्यास उवाच ।

तं शब्दं सहसा श्रुत्वा कौशिको विप्ररूपधृक्

॥७॥

वृद्धरूपं समास्थाय हरिश्चन्द्रमभाषत ।

समर्पयस्व मे दासीमहं क्रेता धनप्रदः

॥८॥

अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया ।

गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे

॥९॥

अहं गृह्णामि दासीं तु कति दास्यामि ते धनम् ।

एवमुक्ते तु विप्रेण हरिश्चन्द्रस्य भूपतेः

॥१०॥

विदीर्णं तु मनो दुःखान्न चैनं किञ्चिदब्रवीत् ।

विप्र उवाच ।

कर्मणश्च वयोरूपशीलानां तव योषितः

॥११॥

अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् ।

धर्मशास्त्रेषु यद् दृष्टं स्त्रियो मौल्यं नरस्य च

॥१२॥

द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ।

कोटिमौल्यं सुवर्णस्य स्त्रियः पुंसस्तथार्बुदम्

॥१३॥

इत्याकर्ण वचस्तस्य हरिश्चन्द्रो महीपतिः ।

दुःखेन महताऽऽविष्टो न चैनं किञ्चिदब्रवीत्

॥१४॥

ततः स विप्रो नृपतेः पुरतो वल्कलोपरि ।

धनं निधाय केशेषु धृत्वा राज्ञीमकर्षयत्

॥१५॥

राज्ञ्युवाच

मुञ्च मुञ्चार्य मां सद्यो यावत्पश्याम्यहं सुतम् ।

दुर्लभं दर्शनं विप्र पुनरस्य भविष्यति

॥१६॥

पश्येह पुत्र मामेवं मातरं दास्यतां गताम् ।

मां मास्प्राक्षी राजपुत्र न स्पृश्याहं त्वयाधुना

॥१७॥

ततः स बालः सहसा दृष्ट्वाऽऽकृष्टां तु मातरम् ।

समभ्यधावदम्बेति वदन्साश्रुविलोचनः

॥१८॥

हस्ते वस्त्रं समाकर्षन् काकपक्षधरः स्खलन् ।

तमागतं द्विजः क्रोधाद् बालमप्याहनत्तदा

॥१९॥

वदंस्तथापि सोऽम्बेति नैव मुञ्चति मातरम् ।

राज्ञ्युवाच ।

प्रसादं कुरु मे नाथ क्रीणीष्वेमं हि बालकम्

॥२०॥

क्रीतापि नाहं भविता विनैनं कार्यसाधिका ।

इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो

॥२१॥

ब्राह्मण उवाच

गृह्यतां वित्तमेतत्ते दीयतां मम बालकः ।

स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम्

॥२२॥

शतं सहस्रं लक्षं च कोटिमौल्यं तथापरैः ।

द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता

॥२३॥

कोटिमौल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्बुदम् ।

सूत उवाच ।

तथैव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः

॥२४॥

प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् ।

प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः

॥२५॥

प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता ।

बाष्पपर्याकुला दीना त्विदं वचनमब्रवीत्

॥२६॥

यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि ।

तेन पुण्येन मे भर्ता हरिश्चन्द्रोऽस्तु वै पुनः

॥२७॥

पादयोः पतितां दृष्ट्वा प्राणेभ्योऽपि गरीयसीम् ।

हाहेति च वदन् राजा विललापाकुलेन्द्रियः

॥२८॥

वियुक्तेयं कथं जाता सत्यशीलगुणान्विता ।

वृक्षच्छायापि वृक्षं तं न जहाति कदाचन

॥२९॥

एवं भार्यां वदित्वाथ सुसम्बद्धं परस्परम् ।

पुत्रं च तमुवाचेदं मां त्वं हित्वा क्व यास्यसि

॥३०॥

कां दिशं प्रति यास्यामि को मे दुःखं निवारयेत् ।

राज्यत्यागे न मे दुःखं वनवासे न मे द्विज

॥३१॥

यत्पुत्रेण वियोगो मे एवमाह स भूपतिः ।

सद्भर्तृभोग्या हि सदा लोके भार्या भवन्ति हि

॥३२॥

मया त्यक्तासि कल्याणि दुःखेन विनियोजिता ।

इक्ष्वाकुवंशसम्भूतं सर्वराज्यसुखोचितम्

॥३३॥

मामीदृशां पतिं प्राप्य दासीभावं गता ह्यसि ।

ईदृशे मज्जमानं मां सुमहच्छोकसागरे

॥३४॥

को मामुद्धरते देवि पौराणाख्यानविस्तरैः ।

सूत उवाच ।

पश्यतस्तस्य राजर्षेः कशाघातैः सुदारुणैः

॥३५॥

घातयित्वा तु विप्रेशो नेतुं समुपचक्रमे ।

नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः

॥३६॥

विललापातिदुःखार्तो निःश्वस्योष्णं पुनः पुनः ।

यां न वायुर्न वाऽऽदित्यो न चन्द्रो न पृथ्ग्जनाः

॥३७॥

दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता ।

सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः

॥३८॥

सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम् ।

हा प्रिये हा शिशो वत्स ममानार्यस्य दुर्नयः

॥३९॥

दैवाधीनदशां प्राप्तो न मृतोऽस्मि तथापि धिक् ।

व्यास उवाच ।

एवं विलपितो राज्ञोऽग्रे विप्रोऽन्तरधीयत

॥४०॥

वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः ।

अत्रान्तरे मुनिश्रेष्ठस्त्वाजगाम महातपाः

॥४१॥

सशिष्यः कौशिकेन्द्रोऽसौ निष्ठुरः क्रूरदर्शनः ।

विश्वामित्र उवाच ।

या त्वयोक्ता पुरा राजन् राजसूयस्य दक्षिणा

॥४२॥

तां ददस्व महाबाहो यदि सत्यं पुरस्कृतम् ।

हरिश्चन्द्र उवाच ।

नमस्करोमि राजर्षे गृहाणेमां स्वदक्षिणाम्

॥४३॥

राजसूयस्य यागस्य या मयोक्ता पुरानघ ।

विश्वामित्र उवाच ।

कुतो लब्धमिदं द्रव्यं दक्षिणार्थे प्रदीयते

॥४४॥

एतदाचक्ष्व राजेन्द्र यथा द्रव्यं त्वयार्जितम् ।

राजोवाच ।

किमनेन महाभाग कथितेन तवानघ

॥४५॥

शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत ।

ऋषिरुवाच ।

अशस्तं नैव गृह्णामि शस्तमेव प्रयच्छ मे

॥४६॥

द्रव्यस्यागमनं राजन् कथयस्व यथातथम् ।

राजोवाच ।

मया देवी तु सा भार्या विक्रीता कोटिसम्मितैः ।

निष्कैः पुत्रो रोहिताख्यो विक्रीतोऽर्बुदसंख्यया ।

विप्रैकादशकोट्यस्त्वं सुवर्णस्य गृहाण मे

॥४८॥

सूत उवाच

तद्वित्तं स्वप्लमालक्ष्य दारविक्रयसम्भवम् ।

शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत्

॥४९॥

ऋषिरुवाच

राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा ।

अन्यदुत्पादय क्षिप्रं सम्पूर्णा येन सा भवेत्

॥५०॥

क्षत्रबन्धो ममेमां त्वं सदृशीं यदि दक्षिणाम् ।

मन्यसे तर्हि तत्क्षिप्रं पश्य त्वं मे परं बलम्

॥५१॥

तपसोऽस्य सुतप्तस्य ब्राह्मणस्यामलस्य च ।

मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च

॥५२॥

राजोवाच

अन्यद्दास्यामि भगवन् कालः कश्चित्प्रतीक्ष्यताम् ।

अधुनैवास्ति विक्रीता पत्नी पुत्रश्च बालकः

॥५३॥

विश्वामित्र उवाच

चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप ।

एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया

॥५४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥