च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम्
व्यास उवाच
इति पप्रच्छ तान्सर्वान् राजा चिन्ताकुलस्तथा ।
पर्यपृच्छत्सुहृद्वर्गं साम्ना चोग्रतयापि च
॥१॥पीड्यमानं जनं वीक्ष्य पितरं दुःखितं तथा ।
विचिन्त्य शूलभेदं सा सुकन्या चेदमब्रवीत्
॥२॥वने मया पितस्तत्र वल्मीको वीरुधावृतः ।
क्रीडन्त्या सुदृढो दृष्टश्छिद्रद्वयसमन्वितः
॥३॥तत्र खद्योतवद्दीप्तज्योतीषी वीक्षिते मया ।
सूच्याविद्धे महाराज पुनः खद्योतशङ्कया
॥४॥जलक्लिन्ना तदा सूची मया दृष्टा पितः किल ।
हाहेति च श्रुतः शब्दो मन्दो वल्मीकमध्यतः
॥५॥तदाहं विस्मिता राजन्किमेतदिति शङ्कया ।
न जाने किं मया विद्धं तस्मिन्वल्मीकमण्डले
॥६॥राजा श्रुत्वा तु शर्यातिः सुकन्यावचनं मृदु ।
मुनेस्तद्धेलनं ज्ञात्वा वल्मीकं क्षिप्रमभ्यगात्
॥७॥तत्रापश्यत्तपोवृद्धं च्यवनं दुःखितं भृशम् ।
स्फोटयामास वल्मीकं मुनिदेहावृतं भृशम्
॥८॥प्रणम्य दण्डवद्भूमौ राजा तं भार्गवं प्रति ।
तुष्टाव विनयोपेतस्तमुवाच कृताञ्जलिः
॥९॥पुत्र्या मम महाभाग क्रीडन्त्या दुष्कृतं कृतम् ।
अज्ञानाद्बालया ब्रह्मन् कृतं तत्क्षन्तुमर्हसि
॥१०॥अक्रोधना हि मुनयो भवन्तीति मया श्रुतम् ।
तस्मात्त्वमपि बालायाः क्षन्तुमर्हसि साम्प्रतम्
॥११॥व्यास उवाच
इति श्रुत्वा वचस्तस्य च्यवनो वाक्यमब्रवीत् ।
विनयोपनतं दृष्ट्वा राजानं दुःखितं भृशम्
॥१२॥च्यवन उवाच
राजन्नाहं कदाचिद्वै करोमि क्रोधमण्वपि ।
न मयाद्यैव शप्तस्त्वं दुहित्रा पीडने कृते
॥१३॥नेत्रे पीडा समुत्पन्ना मम चाद्य निरागसः ।
तेन पापेन जानामि दुःखितस्त्वं महीपते
॥१४॥अपराधं परं कृत्वा देवीभक्तस्य को जनः ।
सुखं लभेत यदपि भवेत् त्राता शिवः स्वयम्
॥१५॥किं करोमि महीपाल नेत्रहीनो जरावृतः ।
अन्धस्य परिचर्यां च कः करिष्यति पार्थिव
॥१६॥राजोवाच
सेवका बहवः सेवां करिष्यन्ति तवानिशम् ।
क्षमस्व मुनिशार्दूल स्वल्पक्रोधा हि तापसाः
॥१७॥च्यवन उवाच
अन्धोऽहं निर्जनो राजंस्तपस्तप्तुं कथं क्षमः ।
त्वदीयाः सेवकाः किं ते करिष्यन्ति मम प्रियम्
॥१८॥क्षमापयसि चेन्मां त्वं कुरु मे वचनं नृप ।
देहि मे परिचर्यार्थं कन्यां कमललोचनाम्
॥१९॥तुष्येऽनया महाराज पुत्र्या तव महामते ।
करिष्यामि तपश्चाहं सा मे सेवां करिष्यति
॥२०॥एवं कृते सुखं मे स्यात्तव चैव भविष्यति ।
सन्तुष्टे मयि राजेन्द्र सैनिकानां न संशयः
॥२१॥विचिन्त्य मनसा भूप कन्यादानं समाचर ।
न चात्र दूषणं किञ्चित्तापसोऽहं यतव्रतः
॥२२॥व्यास उवाच
शर्यातिर्वचनं श्रुत्वा मुनेश्चिन्तातुरोऽभवत् ।
न दास्येऽप्यथवा दास्ये किञ्चिन्नोवाच भारत
॥२३॥कथमन्धाय वृद्धाय कुरूपाय सुतामिमाम् ।
देवकन्योपमां दत्त्वा सुखी स्यामात्मसम्भवाम्
॥२४॥को वात्मनः सुखार्थाय पुत्र्याः संसारजं सुखम् ।
हरतेऽल्पमतिः पापो जानन्नपि शुभाशुभम्
॥२५॥प्राप्य सा च्यवनं सुभ्रूः पञ्चबाणशरार्दिता ।
अन्धं वृद्धं पतिं प्राप्य कथं कालं नयिष्यति
॥२६॥यौवने दुर्जयः कामो विशेषेण सुरूपया ।
आत्मतुल्यं पतिं प्राप्य किमु वृद्धं विलोचनम्
॥२७॥गौतमं तापसं प्राप्य रूपयौवनसंयुता ।
अहल्या वासवेनाशु वञ्चिता वरवर्णिनी
॥२८॥शप्ता च पतिना पश्चाज्ज्ञात्वा धर्मविपर्ययम् ।
तस्माद्भवतु मे दुःखं न ददामि सुकन्यकाम्
॥२९॥इति सञ्चिन्त्य शर्यातिर्विमना स्वगृहं ययौ ।
सचिवांश्च समादाय मन्त्रं चक्रेऽतिदुःखितः
॥३०॥भो मन्त्रिणो ब्रुवन्त्वद्य किं कर्तव्यं मयाधुना ।
पुत्री देयाथ विप्राय भोक्तव्यं दुःखमेव वा
॥३१॥विचारयध्वं मिलिता हितं स्यान्मम वै कथम् ।
मन्त्रिण ऊचुः ।
किं ब्रूमोऽस्मिन्महाराज सङ्कटेऽतिदुरासदे
॥३२॥दुर्भगाय सुकन्यैषा कथं देयातिसुन्दरी ।
व्यास उवाच ।
तदा चिन्ताकुलं वीक्ष्य पितरं मन्त्रिणस्तदा
॥३३॥सुकन्या त्विङ्गितं ज्ञात्वा प्रहस्येदमुवाच ह ।
पितः कस्माद्भवानद्य चिन्ताव्याकुलितेन्द्रियः
॥३४॥मत्कृते दुःखसंविग्नो विषण्णवदनोऽसि वै ।
अहं गत्वा मुनिं तत्र समाश्वास्य भयार्दितम्
॥३५॥करिष्यामि प्रसन्नं तं आत्मदानेन वै पितः ।
इति राजा वचः श्रुत्वा भाषितं यत्सुकन्यया
॥३६॥तामुवाच प्रसन्नात्मा सचिवानां च शृण्वताम् ।
कथं पुत्रि त्वमन्धस्य परिचर्यां वनेऽबला
॥३७॥करिष्यसि जरार्तस्य क्रोधनस्य विशेषतः ।
कथमन्धाय चानेन रूपेण रतिसन्निभाम्
॥३८॥ददामि जरया ग्रस्तदेहाय सुखवाञ्छया ।
पित्रा पुत्री प्रदातव्या वयोज्ञातिबलाय च
॥३९॥धनधान्यसमृद्धाय नाधनाय कदाचन ।
क्व ते रूपं विशालाक्षि क्वासौ वृद्धो वनेचरः
॥४०॥कथं देया मया पुत्री तस्मै नातिवराय च ।
उटजे नियतं वासो यस्य नित्यं मनोहरे
॥४१॥कथमम्बुजपत्राक्षि कल्पनीयो मया तव ।
मरणं मे वरं प्राप्तं सैनिकानां तथैव च
॥४२॥न ते प्रदानमन्धाय रोचते पिकभाषिणि ।
भवितव्यं भवत्येव धैर्यं नैव त्यजाम्यहम्
॥४३॥सुस्थिरा भव सुश्रोणि न दास्येऽन्धाय कर्हिचित् ।
राज्यं तिष्ठतु वा यातु देहोऽयं च तथैव मे
॥४४॥न त्वां दास्याम्यहं तस्मै नेत्रहीनाय बालिके ।
सुकन्या तं तदा प्राह श्रुत्व तद्वचनं पितुः
॥४५॥प्रसन्नवदनातीव स्नेहयुक्तमिदं वचः ।
सुकन्योवाच ।
न मे चिन्ता पितः कार्या देहि मां मुनयेऽधुना
॥४६॥सुखं भवतु सर्वेषां लोकानां मत्कृतेन हि ।
सेवयिष्यामि सन्तुष्टा पतिं परमपावनम्
॥४७॥भक्त्या परमया चापि वृद्धं च विजने वने ।
सतीधर्मपरा चाहं चरिष्यामि सुसम्मतम्
॥४८॥न भोगेच्छास्ति मे तात स्वस्थं चित्तं ममानघ ।
व्यास उवाच ।
तच्छ्रुत्वा भाषितं तस्या मन्त्रिणो विस्मयं गताः
॥४९॥राजा च परमप्रीतो जगाम मुनिसन्निधौ ।
गत्वा प्रणम्य शिरसा तमुवाच तपोधनम्
॥५०॥स्वामिन् गृहाण पुत्रीं मे सेवार्थं विधिवद्विभो ।
इत्युक्त्वासौ ददौ पुत्रीं विवाहविधिना नृपः
॥५१॥प्रतिगृह्य मुनिः कन्यां प्रसन्नो भार्गवोऽभवत् ।
पारिबर्हं न जग्राह दीयमानं नृपेण ह
॥५२॥कन्यामेवाग्रहीत्कामं परिचर्यार्थमात्मनः ।
प्रसन्नेऽस्मिन्मुनौ जातं सैनिकानां सुखं तदा
॥५३॥राज्ञश्च परमाह्लादः सञ्जातस्तत्क्षणादपि ।
दत्त्वा पुत्रीं यदा राजा गमनाय गृहं प्रति
॥५४॥मतिं चकार तवङ्गी तदोवाच नृपं सुता ।
सुकन्योवाच ।
गृहाण मम वासांसि भूषणानि च मे पितः
॥५५॥वल्कलं परिधानाय प्रयच्छाजिनमुत्तमम् ।
वेषं तु मुनिपत्नीनां कृत्वा तपसि सेवनम्
॥५६॥करिष्यामि तथा तात यथा ते कीर्तिरच्युता ।
भविष्यति भुवः पृष्ठे तथा स्वर्गे रसातले
॥५७॥परलोकसुखायाहं चरिष्यामि दिवानिशम् ।
दत्त्वान्धाय च वृद्धाय सुन्दरीं युवतीं तु माम्
॥५८॥चिन्ता त्वया न कर्तव्या शीलनाशसमुद्भवा ।
अरुन्धती वसिष्ठस्य धर्मपत्नी यथा भुवि
॥५९॥तथैवाहं भविष्यामि नात्र कार्या विचारणा ।
अनसूया यथा साध्वी भार्यात्रेः प्रथिता भुवि
॥६०॥तथैवाहं भविष्यामि पुत्री कीर्तिकरी तव ।
सुकन्यावचनं श्रुत्वा राजा परमधर्मवित्
॥६१॥दत्त्वाजिनं रुरोदाशु वीक्ष्य तां चारुहासिनीम् ।
त्यक्त्वा भूषणवासांसि मुनिवेषधरां सुताम्
॥६२॥विवर्णवदनो भूत्वा स्थितस्तत्रैव पार्थिवः ।
राज्ञ्यः सर्वाः सुतां दृष्ट्वा वल्कलाजिनधारिणीम्
॥६३॥रुरुदुर्भृशशोकार्ता वेपमाना इवाभवन् ।
तामापृच्छ्य महीपालो मन्त्रिभिः परिवारितः ।
ययौ स्वनगरं राजन् मुक्त्वा पुत्रीं शुचार्पिताम्
॥६४॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥