हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम्
व्यास उवाच
प्रवृत्ते सदने तस्य राज्ञः पुत्रमहोत्सवे ।
आजगाम तदा पाशी विप्रवेषधरः शुभः
॥१॥स्वस्तीत्युक्त्वा नृपं प्राह वरुणोऽहं निशामय ।
पुत्रो जातस्तवाधीश यजानेन नृपाशु माम्
॥२॥सत्यं कुरु वचो राजन् यत्प्रोक्तं भवतः पुरा ।
वन्ध्यत्वं तु गतं तेऽद्य वरदानेन मे किल
॥३॥इति तस्य वचः श्रुत्वा राजा चिन्तां चकार ह ।
कथं हन्मि सुतं जातं जलजेन समाननम्
॥४॥लोकपालः समायातो विप्रवेषेण वीर्यवान् ।
न देवहेलनं कार्यं सर्वथा शुभमिच्छता
॥५॥पुत्रस्नेहः सुदुश्छेद्यः सर्वथा प्राणिभिः सदा ।
किं करोमि कथं मे स्यात्सुखं सन्ततिसम्भवम्
॥६॥धैर्यमालम्ब्य भूपालस्तं नत्वा प्रतिपूज्य च ।
उवाच वचनं श्लक्ष्णं युक्तं विनयपूर्वकम्
॥७॥राजोवाच
देवदेव तवानुज्ञां करोमि करुणानिधे ।
वेदोक्तेन विधानेन मखं च बहुदक्षिणम्
॥८॥पुत्रे जाते दशाहेन कर्मयोग्यो भवेत्पिता ।
मासेन शुध्येज्जननी दम्पती तत्र कारणम्
॥९॥सर्वज्ञोऽसि प्रचेतस्त्वं धर्मं जानासि शाश्वतम् ।
कृपां कुरु त्वं वारीश क्षमस्व परमेश्वर
॥१०॥व्यास उवाच
इत्युक्तस्तु प्रचेतास्तं प्रत्युवाच जनाधिपम् ।
स्वस्ति तेऽस्तु गमिष्यामि कुरु कार्याणि पार्थिव
॥११॥आगमिष्यामि मासान्ते यष्टव्यं सर्वथा त्वया ।
कृत्वौत्थानिकमाचारं पुत्रस्य नृपसत्तम
॥१२॥इत्युक्त्वा श्लक्ष्णया वाचा राजानं यादसां पतिः ।
हरिश्चन्द्रो मुदं प्राप गते पाशिनि पार्थिवः
॥१३॥कोटिशः प्रददौ गास्ता घटोध्नीर्हेमपूरिताः ।
विप्रेभ्यो वेदविद्भ्यश्च तथैव तिलपर्वतान्
॥१४॥राजा पुत्रमुखं दृष्ट्वा सुखमाप महत्तरम् ।
नामास्य रोहितश्चेति चकार विधिपूर्वकम्
॥१५॥पूर्णे मासे ततः पाशी विप्रवेषेण भूपतेः ।
आजगाम गृहे सद्यो यजस्वेति ब्रुवन्मुहुः
॥१६॥वीक्ष्य तं नृपतिर्देवं निमग्नः शोकसागरे ।
प्रणिपत्य कृतातिथ्यं तमुवाच कृताञ्जलिः
॥१७॥दिष्ट्या देव त्वमायातो गृहं मे पावितं प्रभो ।
मखं करोमि वारीश विधिवद्वाञ्छितं तव
॥१८॥अदन्तो न पशुः श्लाघ्य इत्याहुर्वेदवादिनः ।
तस्माद्दन्तोद्भवे तेऽहं करिष्यामि महामखम्
॥१९॥व्यास उवाच
इत्युक्तस्तेन वरुणस्तथेत्युक्त्वा ययावथ ।
हरिश्चन्द्रो मुदं प्राप्य विजहार गृहाश्रमे
॥२०॥पुनर्दन्तोद्भवं ज्ञात्वा प्रचेता द्विजरूपवान् ।
आजगाम गृहे तस्य कुरु कार्यमिति ब्रुवन्
॥२१॥भूपालोऽपि जलाधीशं वीक्ष्य प्राप्तं द्विजाकृतिम् ।
प्रणम्यासनसम्मानैः पूजयामास सादरम्
॥२२॥स्तुत्वा प्रोवाच वचनं विनयानतकन्धरः ।
करोमि विधिवत्कामं मखं प्रबलदक्षिणम्
॥२३॥बालोऽप्यकृतचौलोऽयं गर्भकेशो न सम्मतः ।
यज्ञार्थे पशुकरणे मया वृद्धमुखाच्छ्रुतम्
॥२४॥तावत्क्षमस्व वारीश विधिं जानासि शाश्वतम् ।
कर्तव्यः सर्वथा यज्ञो मुण्डनान्ते शिशोः किल
॥२५॥तस्येति वचनं श्रुत्वा प्रचेताः प्राह तं पुनः ।
प्रतारयसि मां राजन् पुनः पुनरिदं ब्रुवन्
॥२६॥अपि ते सर्वसामग्री वर्तते नृपतेऽधुना ।
पुत्रस्नेहनिबद्धस्त्वं वञ्चयस्येव साम्प्रतम्
॥२७॥क्षौरकर्मविधिं कृत्वा न कर्तासि मखं यदि ।
तदाहं दारुणं शापं दास्ये कोपसमन्वितः
॥२८॥अद्य गच्छामि राजेन्द्र वचनात्तव मानद ।
न मृषा वचनं कार्यं त्वयेक्ष्वाकुकुलोद्भव
॥२९॥इत्याभाष्य ययावाशु प्रचेता नृपतेर्गृहात् ।
राजा परमसन्तुष्टो ननन्द भवने तदा
॥३०॥चूडाकरणकाले तु प्रवृत्ते परमोत्सवे ।
सम्प्राप्तस्तरसा पाशी भवनं नृपतेः पुनः
॥३१॥यदाङ्के सुतमादाय राज्ञी नृपतिसन्निधौ ।
उपविष्टा क्रियाकाले तदैव वरुणोऽभ्यगात्
॥३२॥कुरु कर्मेति विस्पष्टं वचनं कथयन्नृपम् ।
विप्ररूपधरः श्रीमान् प्रत्यक्ष इव पावकः
॥३३॥नृपतिस्त्वं समालोक्य बभूवातीव विह्वलः ।
नमश्चकार तं भीत्या कृताञ्जलिपुटः पुरः
॥३४॥विधिवत्पूजयित्वा तं राजोवाच विनीतवान् ।
स्वामिन् कार्यं करोम्यद्य मखस्य विधिपूर्वकम्
॥३५॥वक्तव्यमस्ति तत्रापि शृणुष्वैकमना विभो ।
युक्तं चेन्मन्यसे स्वामिंस्तद् ब्रवीमि तवाग्रतः
॥३६॥ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
संस्कृताश्चान्यथा शूद्रा एवं वेदविदो विदुः
॥३७॥तस्मादयं सुतो मेऽद्य शुद्रवद्वर्तते शिशुः ।
उपनीतः क्रियार्हः स्यादिति वेदेषु निर्णयः
॥३८॥राज्ञामेकादशे वर्षे सदोपनयनं स्मृतम् ।
अष्टमे ब्राह्मणानां च वैश्यानां द्वादशे किल
॥३९॥दयसे यदि देवेश दीनं मां सेवकं तव ।
तदोपनीय कर्तास्मि पशुना यज्ञमुत्तमम्
॥४०॥लोकपालोऽसि धर्मज्ञ सर्वशास्त्रविशारद ।
मन्यसे मद्वचः सत्यं तद् गच्छ भवनं विभो
॥४१॥व्यास उवाच
इति तस्य वचः श्रुत्वा दयावान् यादसां पतिः ।
ओमित्युक्त्वा ययावाशु प्रसन्नवदनो नृपः
॥४२॥गतेऽथ वरुणो राजा बभूवातिमुदान्वितः ।
सुखं प्राप्य सुतस्यैवं राजा मुदमवाप ह
॥४३॥चकार राजकार्याणि हरिश्चन्द्रस्तदा नृपः ।
कालेन व्रजता पुत्रो बभूव दशवार्षिकः
॥४४॥तस्योपवीतसामग्रीं विभूतिसदृशीं नृपः ।
चकार ब्राह्मणैः शिष्टैरन्वितः सचिवैस्तथा
॥४५॥एकादशे सुतास्याब्दे व्रतबन्धविधौ नृपः ।
विदधे विधिवत्कार्यं चित्ते चिन्तातुरः पुनः
॥४६॥वर्तमाने तथा कार्ये उपनीते कुमारके ।
आजगामाथ वरुणो विप्रवेषधरस्तदा
॥४७॥तं वीक्ष्य नृपतिस्तूर्णं प्रणम्य पुरतः स्थितः ।
कृताञ्जलिपुटः प्रीतः प्रत्युवाच सुरोत्तमम्
॥४८॥देव दत्तोपवीतोऽयं पशुयोग्योऽस्ति मे सुतः ।
प्रसादात्तव मे शोको गतो वन्ध्यापवादजः
॥४९॥कर्तुमिच्छाम्यहं यज्ञं प्रभूतवरदक्षिणम् ।
समये शृणु धर्मज्ञ सत्यमद्य ब्रवीम्यहम्
॥५०॥समावर्तनकर्मान्ते करिष्यामि तवेप्सितम् ।
ममोपरि दयां कृत्वा तावत्त्वं क्षन्तुमर्हसि
॥५१॥वरुण उवाच
प्रतारयसि मां राजन् पुत्रप्रेमाकुलो भृशम् ।
मुहुर्मुहुर्मतिं कृत्वा युक्तियुक्तां महामते
॥५२॥गच्छाम्यद्य महाराज वचसा तव नोदितः ।
आगमिष्यामि समये समावर्तनकर्मणि
॥५३॥इत्युक्त्वा प्रययौ पाशी तपापृच्छ्य विशांपते ।
राजा प्रमुदितः कार्यं चकार च यथोत्तरम्
॥५४॥आगतं वरुणं दृष्ट्वा कुमारोऽतिविचक्षणः ।
यज्ञस्य समयं ज्ञात्वा तदा चिन्तातुरोऽभवत्
॥५५॥शोकस्य कारणं राज्ञः पर्यपृच्छदितस्ततः ।
ज्ञात्वात्मवधमायुष्मन् गमनाय मतिं दधौ
॥५६॥निश्चयं परमं कृत्वा सम्मन्त्र्य सचिवात्मजैः ।
प्रययौ नगरात्तस्मान्निर्गत्य वनमप्यसौ
॥५७॥गते पुत्रे नृपः कामं दुःखितोऽभूद् भृशं तदा ।
प्रेरयामास दूतान्स्वांस्तस्यान्वेषणकाम्यया
॥५८॥एवं गतेऽथ कालेऽसौ वरुणस्तद्गृहं गतः ।
राजानं शोकसन्तप्तं कुरु यज्ञमिति ब्रुवन्
॥५९॥राजा प्रणम्य तं प्राह देवदेव करोमि किम् ।
न जाने क्वापि पुत्रो मे गतस्त्वद्य भयाकुलः
॥६०॥सर्वत्र गिरिदुर्गेषु मुनीनामाश्रमेषु च ।
अन्वेषितो मे दूतैस्तु न प्राप्तो यादसांपते
॥६१॥आज्ञापय महाराज किं करोमि गते सुते ।
न मे दोषोऽत्र सर्वज्ञ भाग्यदोषस्तु सर्वथा
॥६२॥व्यास उवाच
इति भूपवचः श्रुत्वा प्रचेताः कुपितो भृशम् ।
शशाप च नृपं क्रोधाद्वञ्चितस्तु पुनः पुनः
॥६३॥नृपतेऽहं त्वया यस्माद्वचसा च प्रवञ्चितः ।
तस्माज्जलोदरो व्याधिस्त्वां तुदत्वतिदारुणः
॥६४॥व्यास उवाच
इति शप्तो महीपालः कुपितेन प्रचेतसा ।
पीडितोऽभूत्तदा राजा व्याधिना दुःखदेन तु
॥६५॥एवं शप्त्वा नृपं पाशी जगाम निजमास्पदम् ।
राजा प्राप्य महाव्याधिं बभूवातीव दुःखितः
॥६६॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥