मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ७

3
सप्तमस्कन्धः · 7

रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम्

व्यास उवाच

दत्ते ग्रहे तु राजेन्द्र वासवः कुपितौ भृशम् ।

प्रोवाच च्यवनं तत्र दर्शयन्बलमात्मनः

॥१॥

मा ब्रह्मबन्धो मर्यादामिमां त्वं कर्त्तुमर्हसि ।

वधिष्यामि द्विषन्तं त्वां विश्वरूपमिवाऽपरम्

॥२॥

च्यवन उवाच

मावमंस्था महात्मानौ रूपद्रविणवर्चसा ।

यौ चक्रतुर्मां मघवन् वृन्दारकमिवापरम्

॥३॥

ऋते त्वां विबुधाश्चान्ये कथं वाददते ग्रहम् ।

अश्विनावपि देवेन्द्र देवौ विद्धि परन्तपौ

॥४॥

इन्द्र उवाच

भिषजौ नार्हतः कामं ग्रहं यज्ञे कथञ्चन ।

यदि दित्ससि मन्दात्मन् शिरश्छेत्स्यामि साम्प्रतम्

॥५॥

व्यास उवाच

अनादृत्य तु तद्वाक्यं वासवस्य च भार्गवः ।

ग्रहं तु ग्राहयामास भर्त्सयन्निव तं भृशम्

॥६॥

सोमपात्रं यदा ताभ्यां गृहीतं तु पिपासया ।

समीक्ष्य बलभिद्देव इदं वचनमब्रवीत्

॥७॥

आभ्यमर्थाय सोमं त्वं ग्राहयिष्यसि चेत्स्वयम् ।

वज्रं तु प्रहरिष्यामि विश्वरूपमिवापरम्

॥८॥

वासवेनैवमुक्तस्तु भार्गवश्चातिगर्वितः ।

जग्राह विधिवत्सोममश्विभ्यामतिमन्युमान्

॥९॥

इन्द्रोऽपि प्राक्षिपत्कोपाद्वज्रमस्मै स्वमायुधम् ।

पश्यतां सर्वदेवानां सूर्यकोटिसमप्रभम्

॥१०॥

प्रेरितं चाशनिं प्रेक्ष्य च्यवनस्तपसा ततः ।

स्तम्भयामास वज्रं स शक्रस्यामिततेजसः

॥११॥

कृत्यया स महाबाहुरिन्द्रं हन्तुमिहोद्यतः ।

जुहावाग्नौ श्रुतं हव्यं मन्त्रेण मुनिसत्तमः

॥१२॥

तत्र कृत्या समुत्पन्ना च्यवनस्य तपोबलात् ।

प्रबलः पुरुषः क्रूरो बृहत्कायो महासुरः

॥१३॥

मदो नाम महाघोरो भयदः प्राणिनामिह ।

शरीरे पर्वताकारस्तीक्ष्णदंष्ट्रो मयानकः

॥१४॥

चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम् ।

इतरे त्वस्य दशना बभूवुर्दशयोजनाः

॥१५॥

बाहू पर्वतसंकाशावायतौ क्रूरदर्शनौ ।

जिह्वा तु भीषणा क्रूरा लेलिहाना नभस्तलम्

॥१६॥

ग्रीवा तु गिरिशृङ्गाभा कठिना भीषणा भृशम् ।

नखा व्याघ्रनखप्रख्याः केशाश्चातीवभीषणाः

॥१७॥

शरीरं कज्जलाभं च तस्य चास्यं भयानकम् ।

नेत्रे दावानलप्रख्ये भीषणेऽतिभयानके

॥१८॥

हनुरेका स्थिता तस्य भूमावेका दिवं गता ।

एवंविधः समुत्पन्नो मदो नाम बृहत्तनुः

॥१९॥

तं विलोक्य सुराः सर्वे भयमाजग्मुरंहसा ।

इन्द्रोऽपि भयसंत्रस्तो युद्धाय न मनो दधे

॥२०॥

दैत्योऽपि वदने कामं वज्रमादाय संस्थितः ।

व्याप्तं नभो घोरदृष्टिर्ग्रसन्निव जगत्त्रयम्

॥२१॥

स भक्ष्ययिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् ।

चक्रुशुश्च सुराः सर्वे हा हताः स्मेति संस्थिताः

॥२२॥

इन्द्रः स्तम्भितबाहुस्तु मुमुक्षुर्वज्रमन्तिकात् ।

न शशाक पविं तस्मिन्प्रहर्तुं पाकशासनः

॥२३॥

वज्रहस्तः सुरेशानस्तं वीक्ष्य कालसन्निभम् ।

सस्मार मनसा तत्र गुरुं समयकोविदम्

॥२४॥

स्मरणादाजगामाशु बृहस्पतिरुदारधीः ।

गुरुस्तत्समयं दृष्ट्वा विपत्तिसदृशं महत्

॥२५॥

विचार्य मनसा कृत्यं तमुवाच शचीपतिम् ।

दुःसाध्योऽयं महामन्त्रैस्त्वयं वज्रेण वासव

॥२६॥

असुरो मदसंज्ञस्तु यज्ञकुण्डात्समुत्थितः ।

तपोबलमृषेः सम्यक् च्यवनस्य महाबलः

॥२७॥

अनिवार्यो ह्ययं शत्रुस्त्वया देवैस्तथा मया ।

शरणं याहि देवेश च्यवनस्य महात्मनः

॥२८॥

स निवारयिता नूनं कृत्यामात्मकृतां किल ।

न निवारयितुं शक्ताः शक्तिभक्तरुषं क्वचित्

॥२९॥

व्यास उवाच

इत्युक्तो गुरुणा शक्रस्तदागच्छन्मुनिं प्रति ।

प्रणम्य शिरसा नम्रः तमुवाच भयान्वितः

॥३०॥

क्षमस्व मुनिशार्दूल शमयासुरमुद्यतम् ।

प्रसन्नो भव सर्वज्ञ वचनं ते करोम्यहम्

॥३१॥

सोमार्हावश्विनावेतावद्यप्रभृति भार्गव ।

भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे

॥३२॥

मिथ्या ते नोद्यमो ह्येष भवत्येव तपोधन ।

जाने त्वमपि धर्मज्ञ मिथ्या नैव करिष्यसि

॥३३॥

सोमपावश्विनावेतौ त्वत्कृतौ च सदैवे हि ।

भविष्यतश्च शर्यातेः कीर्तिस्तु विपुला भवेत्

॥३४॥

मया यद्धि कृतं कर्म सर्वथा मुनिसत्तम ।

परीक्षार्थं तु विज्ञेयं तव वीर्यप्रकाशनम्

॥३५॥

प्रसादं कुरु मे ब्रह्मन् मदं संहर चोत्थितम् ।

कल्याणं सर्वदेवानां तथा भूयो विधीयताम्

॥३६॥

एवमुक्तस्तु शक्रेण च्यवनः परमार्थवित् ।

संजहार तपः कोपं समुत्पन्नं विरोधजम्

॥३७॥

देवमाश्वास्य संविग्नं भार्गवस्तु मदं ततः ।

व्यभजत्स्त्रीषु पानेषु द्यूतेषु मृगयासु च

॥३८॥

मदं विभज्य देवेन्द्रमाश्वास्य चकितं भिया ।

संस्थाप्य च सुरान्सर्वान्मखं तस्य न्यवर्तयत्

॥३९॥

ततस्तु संस्कृतं सोमं वासवाय महात्मने ।

अश्विभ्यां सर्वधर्मात्मा पाययामास भार्गवः

॥४०॥

एवं तौ च्यवनेनार्यावश्विनौ रविपुत्रकौ ।

विहितौ सोमपौ राजन् सर्वथा तपसो बलात्

॥४१॥

सरस्तदपि विख्यातं जातं यूपविमण्डितम् ।

आश्रमस्तु मुनेः सम्यक् पृथिव्यां विश्रुतोऽभवत्

॥४२॥

शर्यातिरपि सन्तुष्टो ह्यभवत्तेन कर्मणा ।

यज्ञं समाप्य नगरे जगाम सचिवैर्वृतः

॥४३॥

राज्यं चकार धर्मज्ञो मनुपुत्रः प्रतापवान् ।

आनर्तस्तस्य पुत्रोऽभूदानर्ताद्रेवतोऽभवत्

॥४४॥

सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् ।

आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दमः

॥४५॥

तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् ।

पुत्री च रेवती नाम्ना सुन्दरी शुभलक्षणा

॥४६॥

वरयोग्या यदा जाता तदा राजा च रेवतः ।

चिन्तयामास राजेन्द्रो राजपुत्रान्कुलोद्भवान्

॥४७॥

रैवतं नाम च गिरिमाश्रितः पृथिवीपतिः ।

चकार राज्यं बलवानानर्तेषु नराधिपः

॥४८॥

विचिन्त्य मनसा राजा कस्मै देया मया सुता ।

गत्वा पृच्छामि ब्रह्माणं सर्वज्ञं सुरपूजितम्

॥४९॥

इति सञ्चिन्त्य भूपालः सुतामादाय रेवतीम् ।

ब्रह्मलोकं जगामाशु प्रष्टुकामः पितामहम्

॥५०॥

यत्र देवाश्च यज्ञाश्च छन्दांसि पर्वतास्तथा ।

अब्धयः सिद्धगन्धर्वाः दिव्यरूपधराः स्थिताः

॥५१॥

ऋषयः सिद्धगन्धर्वाः पन्नगाश्चारणास्तथा ।

तस्थुः प्राञ्जलयः सर्वे स्तुवन्तश्च पुरातनाः

॥५२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥