भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम्
व्यास उवाच
इत्येवं सूर्यवंश्यानां राज्ञां चरितमुत्तमम् ।
सोमवंशोद्भवानां च वर्णनीयं मया कियत्
॥१॥पराशक्तिप्रसादेन महत्त्वं प्रतिपेदिरे ।
राजन् सुनिश्चितं विद्धि पराशक्तिप्रसादतः
॥२॥यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं पराशक्त्यंशसम्भवम्
॥३॥एते चान्ये च राजानः पराशक्तेरुपासकाः ।
संसारतरुमूलस्य कुठारा अभवन्नृप
॥४॥तस्मात्सर्वप्रयत्नेन संसेव्या भुवनेश्वरी ।
पलालमिव धान्यार्थी त्यजेदन्यमशेषतः
॥५॥आमथ्य वेददुग्धाब्धिं प्राप्तं रत्नं मया नृप ।
पराशक्तिपदाम्भोजं कृतकृत्योऽस्म्यहं ततः
॥६॥पञ्चब्रह्मासनारूढा नास्त्यन्या कापि देवता ।
तत एव महादेव्या पञ्चब्रह्मासनं कृतम्
॥७॥पञ्चभ्यस्त्वधिकं वस्तु वेदेऽव्यक्तमितीर्यते ।
यस्मिन्नोतं च प्रोतं च सैव श्रीभुवनेश्वरी
॥८॥तामविज्ञाय राजेन्द्र नैव मुक्तो भवेन्नरः ।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः
॥९॥तदा शिवामविज्ञाय दुःखस्यान्तो भविष्यति ।
अत एव श्रुतौ प्राहुः श्वेताश्वतरशाखिनः
॥१०॥ते ध्यानयोगानुगता अपश्य- न्देवात्मशक्तिं स्वगुणैर्निगूढाम्
॥११॥तस्मात् सर्वप्रयत्नेन जन्मसाफल्यहेतवे ।
लज्जया वा भयेनापि भक्त्या वा प्रेमयुक्तया ।
सर्वसङ्गं परित्यज्य मनो हृदि निरुध्य च
॥१२॥तन्निष्ठस्तत्परो भूयादिति वेदान्तडिण्डिमः ।
येन केन मिषेणापि स्वपंस्तिष्ठन्व्रजन्नपि
॥१३॥कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनात् ।
तस्मात्सर्वप्रयत्नेन भज राजन् महेश्वरीम्
॥१४॥विराड्रूपां सूत्ररूपां तथान्तर्यामिरूपिणीम् ।
सोपानक्रमतः पूर्वं ततः शुद्धे तु चेतसि
॥१५॥सच्चिदानन्दलक्ष्यार्थरूपां तां ब्रह्मरूपिणीम् ।
आराधय परां शक्तिं प्रपञ्चोल्लासवर्जिताम्
॥१६॥तस्यां चित्तलयो यः स तस्या आराधनं स्मृतम् ।
राजन् राज्ञां पराशक्तिभक्तानां चरितं मया
॥१७॥धार्मिकाणां सूर्यसोमवंशजानां मनस्विनाम् ।
पावनं कीर्तिदं धर्मबुद्धिदं सद्गतिप्रदम्
॥१८॥कथितं पुण्यदं पश्चात्किमन्यच्छ्रोतुमिच्छसि ।
जनमेजय उवाच ।
गौरीलक्ष्मीसरस्वत्यो दत्ताः पूर्वं पराम्बया
॥१९॥हराय हरये तद्वन्नाभिपद्मोद्भवाय च ।
तुषाराद्रेश्च दक्षस्य गौरी कन्येति विश्रुतम्
॥२०॥क्षीरोदधेश्च कन्येति महालक्ष्मीरिति स्मृतम् ।
मूलदेव्युद्भवानां च कथं कन्यात्वमन्ययोः
॥२१॥असम्भाव्यमिदं भाति संशयोऽत्र महामुने ।
छिन्धि ज्ञानासिना तं त्वं संशयच्छेदतत्परः
॥२२॥व्यास उवाच
शृणु राजन् प्रवक्ष्यामि रहस्यं परमाद्भुतम् ।
देवीभक्तस्य ते किञ्चिदवाच्यं न हि विद्यते
॥२३॥देवीत्रयं यदा देवत्रयायादात्पराम्बिका ।
तदाप्रभृति ते देवाः सृष्टिकार्याणि चक्रिरे
॥२४॥कस्मिंश्चित्समये राजन् दैत्या हालाहलाभिधाः ।
महापराक्रमा जातास्त्रैलोक्यं तैर्जितं क्षणात्
॥२५॥ब्रह्मणो वरदानेन दर्पिता रजताचलम् ।
रुरुधुर्निजसेनाभिस्तथा वैकुण्ठमेव च
॥२६॥कामारिः कैटभारिश्च युद्धोद्योगं च चक्रतुः ।
षष्टिवर्षसहस्राणामभूद्युद्धं महोत्कटम्
॥२७॥हाहाकारो महानासीद्देवदानवसेनयोः ।
महताथ प्रयत्नेन ताभ्यां ते दानवा हताः
॥२८॥स्वस्वस्थानेषु गत्वा तावभिमानं च चक्रतुः ।
स्वशक्त्योर्निकटे राजन् यद्वशादेव ते हताः
॥२९॥अभिमानं तयोर्ज्ञात्वा छलहास्यं च चक्रतुः ।
महालक्ष्मीश्च गौरी च हास्यं दृष्ट्वा तयोस्तु तौ
॥३०॥देवावतीव संकृद्धौ मोहितावादिमायया ।
दुरुत्तरं च ददतुरवमानपुरःसरम्
॥३१॥ततस्ते देवते तस्मिन्क्षणे त्यक्त्वा तु तौ पुनः ।
अन्तर्हिते चाभवतां हाहाकारस्तदा ह्यभूत्
॥३२॥निस्तेजस्कौ च निःशक्ती विक्षिप्तौ च विचेतनौ ।
अवमानात्तयोः शक्त्योर्जातौ हरिहरौ तदा
॥३३॥ब्रह्मा चिन्तातुरो जातः किमेतत्समुपस्थितम् ।
प्रधानौ देवतामध्ये कथं कार्याक्षमावमू
॥३४॥अकाण्डे किं निमित्तेन संकटं समुपस्थितम् ।
प्रलयो भविता किं वा जगतोऽस्य निरागसः
॥३५॥निमित्तं नैव जानेऽहं कथं कार्या प्रतिक्रिया ।
इति चिन्तातुरोऽत्यर्थं दध्यौ मीलितलोचनः
॥३६॥पराशक्तिप्रकोपात्तु जातमेतदिति स्म ह ।
जानंस्तदा सावधानः पद्मजोऽभून्नृपोत्तम
॥३७॥ततस्तयोश्च यत्कार्यं स्वयमेवाऽकरोत्तदा ।
स्वशक्तेश्च प्रभावेण कियत्कालं तपोनिधिः
॥३८॥ततस्तयोस्तु स्वस्त्यर्थं मन्वादीन्स्वसुतानथ ।
आह्वयामास धर्मात्मा सनकादींश्च सत्वरः
॥३९॥उवाच वचनं तेभ्यः सन्नतेभ्यस्तपोनिधिः ।
कार्यासक्तोऽहमधुना तपः कर्तुं न च क्षमः
॥४०॥पराशक्तेस्तु तोषार्थं जगद्भारयुतोऽस्म्यहम् ।
शिवविष्णू च विक्षिप्तौ पराशक्तिप्रकोपतः
॥४१॥तस्मात्तां परमां शक्तिं यूयं सन्तोषयन्त्वथ ।
अत्यद्भुतं तपः कृत्वा भक्त्या परमया युताः
॥४२॥यथा तौ पूर्ववृत्तौ च स्यात शक्तियुतावपि ां।
तथा कुरुत मत्पुत्रा यशोवृद्धिर्भवेद्धि वः
॥४३॥कुले यस्य भवेज्जन्म तयोः शक्त्योस्तु तत्कुलम् ।
पावयेज्जगतीं सर्वां कृतकृत्यं स्वयं भवेत्
॥४४॥व्यास उवाच
पितामहवचः श्रुत्वा गताः सर्वे वनान्तरे ।
रिराधयिषवः सर्वे दक्षाद्या विमलान्तराः
॥४५॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥