मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ३०

3
सप्तमस्कन्धः · 30

देवीपीठवर्णनम्

व्यास उवाच

ततस्ते तु वनोद्देशे हिमाचलतटाश्रयाः ।

मायाबीजजपासक्तास्तपश्चेरुः समाहिताः

॥१॥

ध्यायतां परमां शक्तिं लक्षवर्षाण्यभून्नृप ।

ततः प्रसन्ना देवी सा प्रत्यक्ष्यं दर्शनं ददौ

॥२॥

पाशाङ्कुशवराभीतिचतुर्बाहुस्त्रिलोचना ।

करुणारससम्पूर्णा सच्चिदानन्दरूपिणी

॥३॥

दृष्ट्वा तां सर्वजननीं तुष्टुवुर्मुनयोऽमलाः ।

नमस्ते विश्वरूपायै वैश्वानरसुमूर्तये

॥४॥

नमस्तेजसरूपायै सुत्रात्मवपुषे नमः ।

यस्मिन्सर्वे लिङ्गदेहा ओतप्रोता व्यवस्थिताः

॥५॥

नमः प्राज्ञस्वरूपायै नमोऽव्याकृतमूर्तये ।

नमः प्रत्यक्स्वरूपायै नमस्ते ब्रह्ममूर्तये

॥६॥

नमस्ते सर्वरूपायै सर्व लक्ष्यात्ममूर्तये ।

इति स्तुत्वा जगद्धात्रीं भक्तिगद्गदया गिरा

॥७॥

प्रणेमुश्चरणांभोजं दक्षाद्या मुनयोऽमलाः ।

ततः प्रसन्ना सा देवी प्रोवाच पिकभाषिणी

॥८॥

वरं ब्रूत महाभागा वरदाहं सदा मता ।

तस्यास्तु वचनं श्रुत्वा हरविष्ण्वोस्तनोः शमम्

॥९॥

तयोस्तच्छक्तिलाभं च वव्रिरे नृपसत्तम ।

दक्षोऽथ पुनरप्याह जन्म देवि कुले मम

॥१०॥

भवेत्तवाम्ब येनाहं कृतकृत्यो भवे इति ।

जपं ध्यानं तथा पूजां स्थानानि विविधानि च

॥११॥

वद मे परमेशानि स्वमुखेनैव केवलम् ।

देव्युवाच ।

मच्छक्त्योरवमानाच्च जातावस्था तयोर्द्वयोः

॥१२॥

नैतादृशः प्रकर्तव्यो मेऽपराधः कदाचन ।

अधुना मत्कृपालेशाच्छरीरे स्वस्थता तयोः

॥१३॥

भविष्यति च ते शक्ती त्वद्गृहे क्षीरसागरे ।

जनिष्यतस्तत्र ताभ्यां प्राप्स्यतः प्रेरिते मया

॥१४॥

मायाबीजं हि मन्त्रो मे मुख्यः प्रियकरः सदा ।

ध्यानं विराट्स्वरूपं मेऽथवा त्वत्पुरतः स्थितम्

॥१५॥

सच्चिदानंदरूपं वा स्थानं सर्वं जगन्मम ।

युष्माभिः सर्वदा चाहं पूज्या ध्येया च सर्वदा

॥१६॥

व्यास उवाच

इत्युक्त्वान्तर्दधे देवी मणिद्वीपाधिवासिनी ।

दक्षाद्या मुनयः सर्वे ब्रह्माणं पुनराययुः

॥१७॥

ब्रह्मणे सर्ववृतान्तं कथयामासुरादरात् ।

हरो हरिश्च स्वस्थौ तौ स्वस्वकार्यक्षमौ नृप

॥१८॥

जातौ पराम्बाकृपया गर्वेण रहितौ तदा ।

कदाचितदथ काले तु महः शाक्तमवातरत्

॥१९॥

दक्षदेहे महाराज त्रैलोक्येऽप्युत्सवोऽभवत् ।

देवाः प्रमुदिताः सर्वे पुष्पवृष्टिं च चक्रिरे

॥२०॥

नेदुर्दुन्दुभयः स्वर्गे करकोणाहता नृप ।

मनांस्यासन्प्रसन्नानि साधूनाममलात्मनाम्

॥२१॥

सरितो मार्गवाहिन्यः सुप्रभोऽभूद्दिवाकरः ।

मङ्गलायां तु जातायां जातं सर्वत्र मङ्गलम्

॥२२॥

तस्या नाम सतीं चक्रे सत्यत्वात्परसंविदः ।

ददौ पुनः शिवायाथ तस्य शक्तिस्तु याभवत्

॥२३॥

सा पुनर्ज्वलने दग्धा दैवयोगान्मनोर्नृप ।

जनमेजय उवाच ।

अनर्थकरमेतत्ते श्रावितं वचनं मुने

॥२४॥

एतादृशं महद्वस्तु कथं दग्धं हुताशने ।

यन्नामस्मरणान्नृणां संसाराग्निभयं न हि

॥२५॥

केन कर्मविपाकेन मनोर्दग्धं तदेव हि ।

व्यास उवाच ।

शृणु राजन् पुरा वृत्तं सतीदायस्य कारणम्

॥२६॥

कदाचिदथ दुर्वासा गतो जाम्बूनदेश्वरीम् ।

ददर्श देवीं तत्रासौ मायाबीजं जजाप सः

॥२७॥

ततः प्रसन्ना देवेशी निजकण्ठगतां स्रजम् ।

भ्रमद्भ्रमरसंसक्तां मकरन्दमदाकुलाम्

॥२८॥

ददौ प्रसादभूतां तां जग्राह शिरसा मुनिः ।

ततो निर्गत्य तरसा व्योममार्गेण तापसः

॥२९॥

आजगाम स यत्रास्ते दक्षः साक्षात्सतीपिता ।

सन्दर्शनार्थमम्बाया ननाम च सतीपदे

॥३०॥

पृष्टो दक्षेण स मुनिर्माला कस्यास्त्यलौकिकी ।

कथं लब्धा त्वया नाथ दुर्लभा भुवि मानवैः

॥३१॥

तच्छ्रुत्वा वचनं तस्य प्रोवाचाश्रुयुतेक्षणः ।

देव्याः प्रसादमतुलं प्रेमगद्गदितान्तरः

॥३२॥

प्रार्थयामास तां मालां तं मुनिं स सतीपिता ।

अदेयं शक्तिभक्ताय नास्ति त्रैलोक्यमण्डले

॥३३॥

इति बुद्ध्या तु तां मालां मनवे स समर्पयत् ।

गृहीता शिरसा माला मनुना निजमन्दिरे

॥३४॥

स्थापिता शयनं यत्र दम्पत्योरतिसुन्दरम् ।

पशुकर्मरतो रात्रौ मालागन्धेन मोदितः

॥३५॥

अभवत्स महीपालस्तेन पापेन शङ्करे ।

शिवे द्वेषमतिर्जातो देव्यां सत्यां तथा नृप

॥३६॥

राजंस्तेनापराधेन तज्जन्यो देह एव च ।

सत्या योगाग्निना दग्धः सतीधर्मदिदृक्षया

॥३७॥

पुनश्च हिमवत्पृष्ठे प्रादुरासीत्तु तन्महः ।

जनमेजय उवाच ।

दह्यमाने सतीदेहे जाते किमकरोच्छिवः

॥३८॥

प्राणाधिका सती तस्य तद्वियोगेन कातरः ।

व्यास उवाच ।

ततः परं तु यज्जातां मया वक्तुं न शक्यते

॥३९॥

त्रैलोक्यप्रलयो जातः शिवकोपाग्निना नृप ।

वीरभद्रः समुत्पन्नो भद्रकालीगणान्वितः

॥४०॥

त्रैलोक्यनाशनोद्युक्तो वीरभद्रो यदाभवत् ।

ब्रह्मादयस्तदा देवां शङ्करं शरणं ययुः

॥४१॥

जाते सर्वस्वनाशेऽपि करुणानिधिरीश्वरः ।

अभयं दत्तवांस्तेभ्यो बस्तवक्रेण तं मनुम्

॥४२॥

अजीवयन्महात्मासौ ततः खिन्नो महेश्वरः ।

यज्ञवाटमुपागम्य रुरोद भृशदुःखितः

॥४३॥

अपश्यत्तां सतीं वह्नौ दह्यमानां तु चित्कलाम् ।

स्कन्धेऽप्यारोपयामास हा सतीति वदन्मुहुः

॥४४॥

बभ्राम भ्रान्तचित्तः सन्नानादेशेषु शङ्करः ।

तदा ब्रह्मादयो देवाश्चिन्तामापुरनुत्तमाम्

॥४५॥

विष्णुस्तु त्वरया तत्र धनुरुद्यम्य मार्गणैः ।

चिच्छेदावयवान्सत्यास्तत्तत्स्थानेषु तेऽपतन्

॥४६॥

तत्तत्स्थानेषु तत्रासीन्नानामूर्तिधरो हरः ।

उवाच च ततो देवान्स्थानेष्वेतेषु ये शिवाम्

॥४७॥

भजन्ति परया भक्त्या तेषां किञ्चिन्न दुर्लभम् ।

नित्यं सन्निहिता यत्र निजाङ्गेषु पराम्बिका

॥४८॥

स्थानेष्वेतेषु ये मर्त्याः पुरश्चरणकर्मिणः ।

तेषां मन्त्राः प्रसिद्ध्यन्ति मायाबीजं विशेषतः

॥४९॥

इत्युक्त्वा शङ्करस्तेषु स्थानेषु विरहातुरः ।

कालं निन्ये नृपश्रेष्ठ जपध्यानसमाधिभिः

॥५०॥

जनमेजय उवाच

कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ ।

कति संख्यानि नामानि कानि तेषां च मे वद

॥५१॥

तत्र स्थितानां देवीनां नामानि च कृपाकर ।

कृतार्थोऽहं भवे येन तद्वदाशु महामुने

॥५२॥

व्यास उवाच

शृणु राजन्प्रवक्ष्यामि देवेपीठानि साम्प्ततम् ।

येषां श्रवणमात्रेण पापहीनो भवेन्नरः

॥५३॥

येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः ।

भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः

॥५४॥

वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी ।

क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी

॥५५॥

प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने ।

मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा

॥५६॥

विश्वकामा भगवती विश्वकामप्रपूरणी ।

गोमन्ते गोमती देवी मन्दरे कामचारिणी

॥५७॥

मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ।

गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले

॥५८॥

एकाम्रपीठे सम्प्रोक्ता देवी सा कीर्तिमत्यपि ।

विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे

॥५९॥

केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी ।

मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका

॥६०॥

स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्रिका ।

श्रीशैले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा

॥६१॥

वराहशैले तु जया कमला कमलालये ।

रुद्राणी रुद्रकोट्यां तु काली कालञ्जरे तथा

॥६२॥

शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ।

महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी

॥६३॥

मायापुर्यां कुमारी स्यात्सन्ताने ललिताम्बिका ।

गंयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे

॥६४॥

उत्पलाषी सहस्राक्षे हिरण्याक्षे महोत्पला ।

विपाशायाममोघाक्षी पाडला पुण्ड्रवर्धने

॥६५॥

नारायणी सुपार्श्वे तु त्रिकुटे रुद्रसुन्दरी ।

विपुले विपुला देवी कल्याणी मलयाचले

॥६६॥

सह्याद्रावकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ।

रमणा रामतीर्थे तु यमुनायां मृगावती

॥६७॥

कोटवी कोटतीर्थे तु सुगन्धा माधवे वने ।

गोदावर्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया

॥६८॥

शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे ।

रुक्मिणी द्वारवयां तु राधा वृन्दावने वने

॥६९॥

देवकी मथुरायां तु पाताले परमेश्वरी ।

चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी

॥७०॥

करवीरे महालक्षीरुमा देवी विनायके ।

आरोग्या वैद्यनाथे तु महाकाले महेश्वरी

॥७१॥

अभयेत्युष्णतीर्थेषु नितम्बा विन्ध्यपर्वते ।

माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे

॥७२॥

छगलण्डे प्रचण्डा तु चण्डीकामरकण्टके ।

सोमेश्वरे वरारोहा प्रभासे पुष्करावती

॥७३॥

देवमाता सरस्वत्यां पारावारा तटे स्मृता ।

महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी

॥७४॥

सिंहिका कृतशौचे तु कार्तिके त्वतिशाङ्करी ।

उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे

॥७५॥

माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे ।

जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते

॥७६॥

देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ।

भीमा देवी हिमाद्रौ तु तुष्टिर्विश्वेश्वरे तथा

॥७७॥

कपालमोचने शुद्धिर्माता कामावरोहणे ।

शङ्खोद्धारे धरा नाम धृतिः पिण्डारके तथा

॥७८॥

कला तु चन्द्रभागायामच्छोदे शिवधारिणी ।

वेणायाममृता नाम बदर्यामुर्वशी तथा

॥७९॥

औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका ।

मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी

॥८०॥

अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ।

गायत्री वेदवदने पार्वती शिवसन्निधौ

॥८१॥

देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ।

सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता

॥८२॥

अरुन्धती सतीनां तु रामासु च तिलोत्तमा ।

चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम्

॥८३॥

इमान्यष्ट शतानि स्युः पीठानि जनमेजय ।

तत्संख्याकायस्तदीशान्यो देव्यश्च परिकीर्तिताः

॥८४॥

सतीदेव्यङ्गभूतानि पीठानि कथितानि च ।

अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले

॥८५॥

यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् ।

सर्वपापविनिर्मुक्तो देवीलोकं परं व्रजेत्

॥८६॥

एतेषु सर्वपीठेषु गच्छेद्यात्राविधानतः ।

सन्तर्पयेच्च पित्रादीञ्छ्राद्धादीनि विधाय च

॥८७॥

कुर्याच्च महतीं पूजां भगवत्या विधानतः ।

क्षमापयेज्जगधात्रीं जगदम्बां मुहुर्मुहुः

॥८८॥

कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय ।

भक्ष्यभोज्यादिभिः सर्वान्ब्राह्मणान्भोजयेत्ततः

॥८९॥

सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप ।

तस्मिन्क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि प्रभो

॥९०॥

देवीरूपाः स्मृताः सर्वे पूजनीयास्ततो हि ते ।

प्रतिग्रहादिकं सर्वं तेषु क्षेत्रेषु वर्जयेत्

॥९१॥

यथाशक्ति पुरश्चर्यां कुर्यान्मन्त्रस्य सत्तमः ।

मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम्

॥९२॥

पूजयेदनिशं राजन् पुरश्चरणकृद्भवेत् ।

वित्तशाठ्यं न कुर्वीत देवीभक्तिपरो नरः

॥९३॥

य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः ।

सहस्रकल्पपर्यन्तं ब्रह्मलोके महत्तरे

॥९४॥

वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा ।

अन्ते लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः

॥९५॥

नामाष्टशतजापेन बहवः सिद्धतां गताः ।

यत्रैतल्लिखितं साक्षात्पुस्तके वापि तिष्ठति

॥९६॥

ग्रहमारीभयादीनि तत्र नैव भवन्ति हि ।

सौभाग्यं वर्धते नित्यं यथा पर्वणि वारिधिः

॥९७॥

न तस्य दुर्लभं किञ्चिन्नामाष्टशतजापिनः ।

कृतकृत्यो भवेन्नूनं देवीभक्तिपरायणः

॥९८॥

नमन्ति देवतास्तं वै देवीरूपो हि स स्मृतः ।

सर्वथा पूज्यन्ते देवैः किं पुनर्मनुजोत्तमैः

॥९९॥

श्राद्धकाले पठेदेतन्नामाष्टशतमुत्तमम् ।

तृप्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम्

॥१००॥

इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च ।

सिद्धपीठानि राजेन्द्र संश्रयेन्मतिमान्नरः

॥१०१॥

पृष्टं यत्तत्त्वया राजन्नुक्तं सर्वं महेशितुः ।

रहस्यातिरहस्यं च किं भूयः सह्रोतुमिच्छसि

॥१०२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादश साहस्र्यां संहितायां सप्तमस्कन्धे देवीपीठवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥