मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ३८

3
सप्तमस्कन्धः · 38

देवीगीतायां महोत्सवव्रतस्थानवर्णनम्

हिमालय उवाच

कति स्थानानि देवेशि द्रष्टव्यानि महीतले ।

मुख्यानि च पवित्राणि देवीप्रियतमानि च

॥१॥

व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि ।

तत्सर्वं देव मे मातः कृतकृत्यो यतो नरः

॥२॥

श्रीदेव्युवाच

सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः ।

उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी

॥३॥

तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते ।

शृणुष्वावहितो भूत्वा नगराज वचो मम

॥४॥

कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता ।

मातुः पुरं द्वितीयं च रेणुकाधिष्ठितं परम्

॥५॥

तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथैव च ।

हिङ्गुलाया महास्थानं ज्वालामुख्यास्तथैव च

॥६॥

शकम्भर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् ।

श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च

॥७॥

विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् ।

अन्नपूर्णमहास्थानं काञ्चीपुरमनुत्तमम्

॥८॥

भीमादेव्याः परं स्थानं विमलास्थानमेव च ।

श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव

॥९॥

नीलाम्बायाः परं स्थानं नीलपर्वतमस्तके ।

जाम्बूनदेश्वरीस्थानं तथा श्रीनगरं शुभम्

॥१०॥

गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् ।

मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदम्बरे

॥११॥

वेदारण्यं महास्थानं सुन्दर्याः समधिष्ठितम् ।

एकाम्बरं महास्थानं परशक्त्या प्रतिष्ठितम्

॥१२॥

महालसा परं स्थानं योगेश्वर्यास्तथैव च ।

तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम्

॥१३॥

वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् ।

श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम्

॥१४॥

श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् ।

भूमण्डले क्षेत्ररत्नं महामायाधिवासितम्

॥१५॥

नातः परतरं स्थानं क्वचिदस्ति धरातले ।

प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला

॥१६॥

तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः ।

पर्वतेषु वसन्त्येव महत्यो देवता अपि

॥१७॥

तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः ।

नातः परतरं स्थानं कामाख्यायोनिमण्डलात्

॥१८॥

गायत्र्याश्च परं स्थानं श्रीमत्पुष्करमीरितम् ।

अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी

॥१९॥

नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी ।

पुरुहूता पुष्कराक्षे आषाढौ च रतिस्तथा

॥२०॥

चण्डमुण्डीमहास्थाने दण्डिनी परमेश्वरी ।

भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी

॥२१॥

चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शाङ्करी स्मृता ।

जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे

॥२२॥

शाङ्करी तु महाकाले शर्वाणी मध्यमाभिधे ।

केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी

॥२३॥

भैरवाख्ये भैरवी सा गयायां मङ्गला स्मृता ।

स्थाणुप्रिया कुरुक्षेत्रे स्वायम्भुव्यपि नाकुले

॥२४॥

कनखले भवेदुग्रा विश्वेशा विमलेश्वरे ।

अट्टहासे महानन्दा महेन्द्रे तु महान्तका

॥२५॥

भीमे भीमेश्वरी प्रोक्ता स्थाने वस्त्रापथे पुनः ।

भवानी शाङ्करी प्रोक्ता रुद्राणी त्वर्धकोटिके

॥२६॥

अविमुक्ते विशालाक्षी महाभागा महालये ।

गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके

॥२७॥

उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसञ्ज्ञके ।

कमलालये तु कमला प्रचण्डा छगलण्डके

॥२८॥

कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी ।

मण्डलेशे शाण्डकी स्यात्काली कालञ्जरे पुनः

॥२९॥

शङ्कुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे ।

ज्ञानिनां हृदयाम्भोजे हृल्लेखा परमेश्वरी

॥३०॥

प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च ।

तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम

॥३१॥

तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् ।

अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम

॥३२॥

अतस्तत्र वसेन्नित्यं देवीभक्तिपरायणः ।

तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम्

॥३३॥

ध्यायंस्तच्चरणाम्भोजं मुक्तो भवति बन्धनात् ।

इमानि देवीनामानि प्रातरुत्थाय यः पठेत्

॥३४॥

भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् ।

श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः

॥३५॥

मुक्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ।

अधुना कथयिष्यामि व्रतानि तव सुव्रत

॥३६॥

नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः ।

व्रतमनन्ततृतीयाख्यं रसकल्याणिनीव्रतम्

॥३७॥

आर्द्रानन्दकरं नाम्ना तृतीयाया व्रतं च यत् ।

शुक्रवारव्रतं चैव तथा कृष्णचतुर्दशी

॥३८॥

भौमवारव्रतं चैव प्रदोषव्रतमेव च ।

यत्र देवो महादेवो देवीं संस्थाप्य विष्टरे

॥३९॥

नृत्यं करोति पुरतः सार्धं देवैर्निशामुखे ।

तत्रोपोष्य रजन्यादौ प्रदोषे पूजयेच्छिवाम्

॥४०॥

प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् ।

सोमवारव्रतं चैव ममातिप्रियकृन्नग

॥४१॥

तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् ।

नवरात्रद्वयं चैव व्रतं प्रीतिकरं मम

॥४२॥

एवमन्यान्यपि विभो नित्यनैमित्तिकानि च ।

व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः

॥४३॥

प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः ।

उत्सवानपि कुर्वीत दोलोत्सवसुखान्विभो

॥४४॥

शयनोत्सवं यथा कुर्यात्तथा जागरणोत्सवम् ।

रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च

॥४५॥

पवित्रोत्सवमेवापि श्रावणो प्रीतिकारकम् ।

मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान्

॥४६॥

मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः ।

कुमारीर्बटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः

॥४७॥

वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः ।

य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः

॥४८॥

स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमञ्जसा ।

सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् ।

नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन

॥४९॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां महोत्सवव्रतस्थानवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥

महाभूत शब्दोपरि टिप्पणी