मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ११

3
सप्तमस्कन्धः · 11

सत्यव्रताय राजनीत्युपदेशवर्णनम्

जनमेजय उवाच

वसिष्ठेन च शप्तोऽसौ त्रिशङ्कुर्नृपतेः सुतः ।

कथं शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते

॥१॥

व्यास उवाच

सत्यव्रतस्तथा शप्तः पिशाचत्वमवाप्तवान् ।

तस्मिन्नेवाश्रमे तस्थौ देवीभक्तिपरायणः

॥२॥

कदाचिन्नृपतिस्तत्र जप्त्वा मन्त्रं नवाक्षरम् ।

होमार्थं ब्राह्मणान्गत्वा प्रणम्योवाच भक्तितः

॥३॥

भूमिदेवाः शृणुध्वं वै वचनं प्रणतस्य मे ।

ऋत्विजो मम सर्वेऽत्र भवन्तः प्रभवन्तु ह

॥४॥

जपस्य च दशांशेन होमः कार्यो विधानतः ।

भवद्भिः कार्यसिद्ध्यर्थं वेदविद्भिः कृपापरैः

॥५॥

सत्यव्रतोऽहं नृपतेः पुत्रो ब्रह्मविदांवराः ।

कार्यं मम विधातव्यं सर्वथा सुखहेतवे

॥६॥

तच्छ्रुत्वा ब्राह्मणास्तत्र तमूचुर्नृपतेः सुतम् ।

शप्तस्त्वं गुरुणा प्राप्तं पिशाचत्वं त्वयाधुना

॥७॥

न यागार्होऽसि तस्मात्त्वं वेदेष्वनधिकारतः ।

पिशाचत्वमनुप्राप्तं सर्वलोकेषु गर्हितम्

॥८॥

व्यास उवाच

तन्निशम्य वचस्तेषां राजा दुःखमवाप ह ।

धिग्जीवितमिदं मेऽद्य किं करोमि वने स्थितः

॥९॥

पित्रा चाहं परित्यक्तः शप्तश्च गुरुणा भृशम् ।

राज्याद्भ्रष्टः पिशाचत्वमनुप्राप्तः करोमि किम्

॥१०॥

तदा पृथुतरां कृत्वा चितां काष्ठैर्नृपात्मजः ।

सस्मार चण्डिकां देवीं प्रवेशमनुचिन्तयन्

॥११॥

स्मृता देवीं महामायां चितां प्रज्वलितां पुरः ।

कृत्वा स्नात्वा प्रवेशार्थं स्थितः प्राञ्जलिरग्रतः

॥१२॥

ज्ञात्वा भगवती तं तु मर्तुकामं महीपतिम् ।

आजगाम तदाऽऽकाशं प्रत्यक्षं तस्य चाग्रतः

॥१३॥

दत्त्वाथ दर्शनं देवी तमुवाच नृपात्मजम् ।

सिंहारूढा महाराज मेघगम्भीरया गिरा

॥१४॥

देव्युवाच

किं ते व्यवसितं साधो हुताशे मा तनुं त्यज ।

स्थिरो भव महाभाग पिता ते जरसान्वितः

॥१५॥

राज्यं दत्त्वा वने तुभ्यं गन्तास्ति तपसे किल ।

विषादं त्यज हे वीर परश्वोऽहनि भूपते

॥१६॥

नेतुं त्वामागमिष्यन्ति सचिवाश्व पितुस्तव ।

मत्प्रसादात्पिता च त्वामभिषिच्य नृपासने

॥१७॥

जित्वा कामं ब्रह्मलोकं गमिष्येत्येष निश्चयः ।

व्यास उवाच ।

इत्युक्त्वा तं तदा देवी तत्रैवान्तरधीयत

॥१८॥

राजपुत्रो विरमितो मरणात्पावकात्ततः ।

अयोध्यायां तदाऽऽगत्य नारदेन महात्मना

॥१९॥

वृत्तान्तः कथितः सर्वो राज्ञे सत्वरमादितः ।

श्रुत्वा राजाथ पुत्रस्य तं तथा मरणोद्यमम्

॥२०॥

खेदमाधाय मनसि शुशोच बहुधा नृपः ।

सचिवानाह धर्मात्मा पुत्रशोकपरिप्लुतः

॥२१॥

ज्ञातं भवद्भिरत्युग्रं पुत्रस्य मम चेष्टितम् ।

त्यक्तो मया वने धीमान्पुत्रः सत्यव्रतो मम

॥२२॥

आज्ञयासौ गतः सद्यो राज्यार्हः परमार्थवित् ।

स्थितस्तत्रैव विज्ञाने धनहीनः क्षमान्वितः

॥२३॥

वसिष्ठेन तथा शप्तः पिशाचसदृशः कृतः ।

सोऽद्य दुःखेन सन्तप्तः प्रवेष्टुञ्च हुताशनम्

॥२४॥

उद्यतः श्रीमहादेव्या निषिद्धः संस्थितः पुनः ।

तस्माद् गच्छन्तु तं शीघ्रं ज्येष्ठपुत्रं महाबलम्

॥२५॥

आश्वास्य वचनैरत्र तरसैवानयन्त्विह ।

अभिषिच्य सुतं राज्ये औरसं पालनक्षमम्

॥२६॥

वनं यास्यामि शान्तोऽहं तपसे कृतनिश्चयः ।

इत्युक्त्वा मन्त्रिणः सर्वान्प्रेषयामास पार्थिवः

॥२७॥

तस्यैवानयनार्थं हि प्रीतिप्रवणमानसः ।

ते गत्वा तं समाश्वास्य मन्त्रिणः पार्थिवात्मजम्

॥२८॥

अयोध्यायां महात्मानं मानपूर्वं समानयन् ।

दृष्ट्वा सत्यव्रतं राजा दुर्बलं मलिनाम्बरम्

॥२९॥

जटाजूटधरं क्रूरं चिन्तातुरमचिन्तयत् ।

किं कृतं निष्ठुरं कर्म मया पुत्रो विवासितः

॥३०॥

राज्यार्हश्चातिमेधावी जानता धर्मनिश्चयम् ।

इति सञ्चिन्त्य मनसा तमालिङ्य महीपतिः

॥३१॥

आसने स्वसमीपशे समाश्वास्योपवेशयत् ।

उपविष्टं सुतं राजा प्रेमपूर्वमुवाच ह

॥३२॥

प्रेमगद्गदया वाचा नीतिशास्त्रविशारदः ।

राजोवाच ।

पुत्र धर्मे मतिः कार्या माननीया मुखोद्भवाः

॥३३॥

न्यायागतं धनं ग्राह्यं रक्षणीयाः सदा प्रजाः ।

नासत्यं क्वापि वक्तव्यं नामार्गे गमनं क्वचित्

॥३४॥

शिष्टप्रोक्तं प्रकर्तव्यं पूजनीयास्तपस्विनः ।

हन्तव्या दस्यवः क्रूरा इन्द्रियाणां तथा जयः

॥३५॥

कर्तव्यं कार्यसिद्ध्यर्थं राज्ञा पुत्र सदैव हि ।

मन्त्रस्तु सर्वथा गोप्यः कर्तव्यः सचिवैः सह

॥३६॥

नोपेक्ष्योऽल्पोऽपि कृतिना रिपुः सर्वात्मना सुत ।

न विश्वसेत्परासक्तं सचिवं च तथा नतम्

॥३७॥

चाराः सर्वत्र योक्तव्याः शत्रुमित्रेषु सर्वथा ।

धर्मे मतिः सदा कार्या दानं दद्याच्च नित्यशः

॥३८॥

शुष्कवादो न कर्तव्यो दुष्टसङ्गं च वर्जयेत् ।

यष्टव्या विविधा यज्ञाः पूजनीया महर्षयः

॥३९॥

न विश्वसेत्स्त्रियं क्वापि स्त्रैणं द्यूतरतं नरम् ।

अत्यादरो न कर्तव्यो मृगयायां कदाचन

॥४०॥

द्यूते मद्ये तथा गेये नूनं वारवधूषु च ।

स्वयं तद्विमुखो भूयात् प्रजास्तेभ्यश्च रक्षयेत्

॥४१॥

ब्राह्मे मुहूर्ते कर्तव्यमुत्थानं सर्वथा सदा ।

स्नानादिकं सर्वविधिं विधाय विधिवद्यथा

॥४२॥

पराशक्तेः परां पूजां भक्त्या कुर्यात्सुदीक्षितः ।

पुत्रैतज्जन्मसाफल्यं पराशक्तेः पदार्चनम्

॥४३॥

सकृत्कृत्वा महापूजां दैवीपादजलं पिबन् ।

न जातु जननीगर्भे गच्छेदिति विनिश्चयः

॥४४॥

सर्वं दृश्यं महादेवी द्रष्टा साक्षी च सैव हि ।

इति तद्भावभरितस्तिष्ठेन्निर्भयचेतसा

॥४५॥

कृत्वा नित्यविधिं सम्यग्गन्तव्यं सदसि द्विजान् ।

समाहूय च प्रष्टव्यो धर्मशास्त्रविनिर्णयः

॥४६॥

सम्पूज्य ब्राह्मणान्पूज्यान्वेदवेदान्तपारगान् ।

गोभूहिरण्यादिकं च देयं पात्रेषु सर्वदा

॥४७॥

अविद्वान्ब्राह्मणः कोऽपि नैव पूज्यः कदाचन ।

आहारादधिकं नैव देयं मूर्खाय कर्हिचित्

॥४८॥

न वा लोभात्त्वया पुत्र कर्तव्यं धर्मलङ्घनम् ।

अतः परं न कर्तव्यं क्वचिद्विप्रावमाननम्

॥४९॥

ब्राह्मणा भूमिदेवाश्च माननीयाः प्रयत्नतः ।

कारणं क्षत्रियाणां च द्विजा एव न संशयः

॥५०॥

अद्भ्योऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम् ।

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति

॥५१॥

तस्माद्राज्ञा विशेषेण माननीया मुखोद्भवाः ।

दानेन विनयेनैव सर्वथा भूतिमिच्छता

॥५२॥

दण्डनीतिः सदा कार्या धर्मशास्त्रानुसारतः ।

कोशस्य संग्रहः कार्यो नूनं न्यायागतस्य ह

॥५३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सत्यव्रताय राजनीत्युपदेशवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥