यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम्
व्यास उवाच
गतेऽथ वरुणे राजा रोगेणातीव पीडितः ।
दुःखाद्दुःखं परं प्राप्य व्यथितोऽभूद् भृशं तदा
॥१॥कुमारोऽसौ वने श्रुत्वा पितरं रोगपीडितम् ।
गमनाय मतिं राजंश्चकार स्नेहयन्त्रितः
॥२॥संवत्सरे व्यतीते तु पितरं द्रष्टुमादरात् ।
गन्तुकामं तु तं ज्ञात्वा शक्रस्तत्राजगाम ह
॥३॥वासवस्तु तदा रूपं कृत्वा विप्रस्य सत्वरः ।
वारयामास युक्त्या वै कुमारं गन्तुमुद्यतम्
॥४॥इन्द्र उवाच
राजपुत्र न जानासि राजनीतिं सुदुर्लभाम् ।
अतः करोषि मूढस्त्वं गमनाय मतिं वृथा
॥५॥पिता तव महाभाग ब्राह्मणैर्वेदपारगैः ।
कारयिष्यति होमं ते ज्वलितेऽथ विभावसौ
॥६॥आत्मा हि वल्लभस्तात सर्वेषां प्राणिनां खलु ।
तदर्थे वल्लभाः सन्ति पुत्रदारधनादयः
॥७॥आत्मनो देहरक्षार्थं हत्वा त्वां वल्लभं सुतम् ।
हवनं कारयित्वासौ रोगमुक्तो भविष्यति
॥८॥तस्मात्त्वया न गन्तव्यं राजपुत्र पितुर्गृहे ।
मृते पितरि गन्तव्यं राज्यार्थे सर्वथा पुनः
॥९॥एवं निषेधितस्तत्र वासवेन नृपात्मजः ।
वनमध्ये स्थितः कामं पुनः संवत्सरं नृप
॥१०॥अत्यन्तं दुःखितं श्रुत्वा हरिश्चन्द्रं तदाऽऽत्मजः ।
गमनाय मतिं चक्रे मरणे कृतनिश्चयः
॥११॥तुषाराड् द्विजरूपेण तत्रागत्य च रोहितम् ।
निवारयामास सुतं युक्तिवाक्यैः पुनः पुनः
॥१२॥हरिश्चन्द्रोऽतिदुःखार्तो वसिष्ठं स्वपुरोहितम् ।
पप्रच्छ रोगनाशाय तत्रोपायं सुनिश्चितम्
॥१३॥तमाह ब्रह्मणः पुत्रो यज्ञं कुरु नृपोत्तम ।
क्रयक्रीतेन पुत्रेण शापमोक्षो भविष्यति
॥१४॥पुत्रा दशविधां प्रोक्ता ब्राह्मणैर्वेदपारगैः ।
द्रव्येणानीय तस्मात्त्वं पुत्रं कुरु नृपोत्तम
॥१५॥वरुणोऽपि प्रसन्नः सन्सुखकारी भविष्यति ।
लोभात्कोऽपि द्विजः पुत्रं प्रदास्यति स्वराष्ट्रजः
॥१६॥एवं प्रमोदितो राजा वसिष्ठेन महामना ।
प्रधानं प्रेरयामास तदन्वेषणकाम्यया
॥१७॥अजीगर्तो द्विजः कश्चिद्विषये तस्य भूपतेः ।
तस्यासंश्च त्रयः पुत्रा निर्धनस्य विशेषतः
॥१८॥प्रधानेनाप्यसौ पृष्टः पुत्रार्थं दुर्बलो द्विजः ।
गवां शतं ददामीति देहि पुत्रं मखाय वै
॥१९॥शुनःपुच्छः शुनःशेपः शुनोलांगूल इत्यमी ।
तेषामेकतमं देहि ददामि तु गवां शतम्
॥२०॥अजीगर्तस्तु तच्छ्रुत्वा क्षुधया पीडितो भृशम् ।
पुत्रं च कतमं तेभ्यो विक्रेतुं वै मनो दधे
॥२१॥कार्याधिकारिणं ज्येष्ठं मत्वा नासावदादमुम् ।
कनिष्ठं नाप्यदान्माता ममैष इति वादिनी
॥२२॥मध्यमं च शुनःशेपं ददौ गवां शतेन च ।
आनिनाय पशुं चक्रे नरमेधे नराधिपः
॥२३॥रुदन्तं दुःखितं दीनं वेपमानं भृशातुरम् ।
यूपे बद्धं निरीक्ष्यामुं चुक्रुशुर्मुनयस्तदा
॥२४॥शामित्राय पशुं चक्रे नरमेधे नराधिपः ।
शमिता नाददे शस्त्रं तमालम्भयितुं शिशुम्
॥२५॥नाहं द्विजसुतं दीनं रुदन्तं करुणं भृशम् ।
हनिष्यामि स्वलोभार्थमित्युवाचाप्यसौ तदा
॥२६॥इत्युक्त्वा विररामासौ कर्मणो दुष्करादथ ।
राजा आभासदः प्राह किं कर्तव्यमिति द्विजाः
॥२७॥जातः किलकिलाशब्दो जनानां क्रोशतां तदा ।
क्रन्दमाने शुनःशेपे सभायां भृशमद्भुतम्
॥२८॥अजीगर्तस्तदोत्थाय तमुवाच नृपोत्तमम् ।
राजन् कार्यं करिष्यामि तवाहं सुस्थिरो भव
॥२९॥वेतनं द्विगुणं देहि हनिष्यामि पशुं किल ।
कर्तव्यं मखकार्यं वै मया तेऽद्य धनार्थिना
॥३०॥दुःखितस्य धनार्थस्य सदासूया प्रसूयते ।
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्य हरिश्चन्द्रो मुदान्वितः
॥३१॥तमुवाच ददाम्यद्य गवां शतमनुत्तमम् ।
तदाकर्ण्य पिता तस्य पुत्रं हन्तुं समुद्यतः
॥३२॥लोभेनाकुलचित्तोऽसौ शामित्रे कृतनिश्चयः ।
समुद्यतं च तं दृष्ट्वा जनाः सर्वे सभासदः
॥३३॥चुक्रुशुर्भृशदुःखार्ता हाहेति जगदुर्वचः ।
पिशाचोऽयं महापापी क्रूरकर्मा द्विजाकृतिः
॥३४॥यत्स्वयं स्वसुतं हन्तुमुद्यतः कुलपांसनः ।
धिक्चाण्डाल किमेतत्ते पापकर्म चिकीर्षितम्
॥३५॥हत्वा सुतं धनं प्राप्य किं सुखं ते भविष्यति ।
आत्मा वै जायते पुत्र अङ्गाद्वै वेदभाषितम्
॥३६॥तत्कथं पापबुद्धे त्वमात्मानं हन्तुमिच्छसि ।
एवं कोलाहले तत्र जाते कुशिकनन्दनः
॥३७॥समीपं नृपतेर्गत्वा तमुवाच दयापरः ।
विश्वामित्र उवाच ।
राजन्नमुं शुनःशेपं रुदन्तं भृशदुःखितम्
॥३८॥क्रतुस्ते भविता पूर्णो रोगनाशश्च सर्वथा ।
दयासमं नास्ति पुण्यं पापं हिंसासमं नहि
॥३९॥रागिणां रोचनार्थाय नोदनेयं विचारय ।
आत्मदेहस्य रक्षार्थं परदेहनिकृन्तनम्
॥४०॥न कर्तव्यं महाराज सर्वतः शुभमिच्छता ।
दयया सर्वभूतेषु सन्तुष्टो येन केन च
॥४१॥सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जगत्पतिः ।
आत्मवत्सर्वभूतेषु चिन्तनीयं नृपोत्तम
॥४२॥जीवितव्यं प्रियं नूनं सर्वेषां सर्वदा किल ।
त्वमिच्छसि सुखं कर्तुं देहे हत्वा त्वमुं द्विजम्
॥४३॥कथं नेच्छेदसौ देहं रक्षितुं स्वसुखास्पदम् ।
पूर्वजन्मकृतं वैरं नानेन सह ते नृप
॥४४॥येनामुं हन्तुकामस्त्वं द्विजपुत्रं निरागसम् ।
यो यं हन्ति विना वैरं स्वकामः सततं पुनः
॥४५॥हन्तारं हन्ति तं प्राप्य जननं जननान्तरे ।
जनकोऽस्य सुदुष्टात्मा येनासौ ते समर्पितः
॥४६॥स्वात्मजो धनलोभेन पापाचारः सुदुर्मतिः ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
॥४७॥यजेत चाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।
देशमध्ये च यः कश्चित्पापकर्म समाचरेत्
॥४८॥षष्ठांशस्तस्य पापस्य राजा भुङ्क्ते न संशयः ।
निषेधनीयो राज्ञासौ पापं कर्तुं समुद्यतः
॥४९॥न निषिद्धस्त्वया कस्मात्पुत्रं विक्रेतुमुद्यतः ।
सूर्यवंशे समुत्पन्नस्त्रिशङ्कुतनयः शुभः
॥५०॥आर्यस्त्वनार्यवत्कर्म कर्तुमिच्छसि पार्थिव ।
मोचनान्मुनिपुत्रस्य करणाद्वचनस्य मे
॥५१॥तव देहे सुखं राजन् भविष्यत्यविचारणात् ।
पिता ते शापयोगेन चाण्डालत्वमुपागतः
॥५२॥मयासौ तेन देहेन स्वर्लोकं प्रापितः किल ।
तेनैव प्रीतियोगेन कुरु मे वचनं नृप
॥५३॥मुञ्चैनं बालकं दीनं रुदन्तं भृशमातुरम् ।
याचितोऽसि मया नूनं यज्ञेऽस्मिन् राजसूयके
॥५४॥प्रार्थनाभङ्गजं दोषं कथं त्वं नावबुध्यसे ।
प्रार्थितं सर्वदा देयं मखेऽस्मिन्नृपसत्तम
॥५५॥अन्यथा पापमेव स्यात्तव राजन्न संशयः ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा कौशिकस्य नृपोतमः
॥५६॥प्रत्युवाच महाराज कौशिकं मुनिसत्तमम् ।
जलोदरेण गाधेय दुःखितोऽहं भृशं मुने
॥५७॥तस्मान्न मोचयाम्येनमन्यत्प्रार्थय कौशिक ।
न त्वया विग्रहः कार्यः कार्येऽस्मिन्मम सर्वथा
॥५८॥तच्छ्रुत्वा वचनं राज्ञो विश्वामित्रोऽतिकोपनः ।
बभूव दुःखसन्तप्तो वीक्ष्य दीनं द्विजात्मजम्
॥५९॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥