हरिश्चन्द्राख्यानश्रवणफलवर्णनम्
सूत उवाच
ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् ।
भार्यया सहितो राजा बद्धाञ्जलिपुटस्तदा
॥१॥चिन्तयन्परमेशानीं शताक्षीं जगदीश्वरीम् ।
पञ्चकोशान्तरगतां पुच्छब्रह्मस्वरूपिणीम्
॥२॥रक्ताम्बरपरीधानां करुणारससागरम् ।
नानायुधधरामम्बां जगत्पालनतत्पराम्
॥३॥तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः ।
धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः
॥४॥आगत्य सर्वे प्रोचुस्ते राजञ्छ्रुणु महाप्रभो ।
अहं पितामहः साक्षाद्धर्मश्च भवगान्स्वयम्
॥५॥साध्याः सविश्वे मरुतो लोकपालाः सचारणाः ।
नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ
॥६॥एते चान्येऽथ बहवो विश्वामित्रस्तथैव च ।
विश्वत्रयेण यो मैत्रीं कर्तुमिच्छति धर्मतः
॥७॥विश्वामित्रः स तेऽभीष्टमाहर्तुं सम्यगिच्छति ।
धर्म उवाच ।
मा राजन् साहसं कार्षीर्धर्मोऽहं त्वामुपागतः
॥८॥तितिक्षादमसत्त्वाद्यैस्त्वद्गुणैः परितोषितः ।
इन्द्र उवाच ।
हरिश्चन्द्र महाभाग प्राप्तः शक्रोऽस्मि तेऽन्तिकम्
॥९॥त्वयाद्य भार्यापुत्रेण जिता लोकाः सनातनाः ।
आरोह त्रिदिवं राजन् भार्यापुत्रसमन्वितः
॥१०॥सुदुष्प्रापं नरैरन्यैर्जितमात्मीयकर्मभिः ।
सूत उवाच ।
ततोऽमृतमयं वर्षमपमृत्युविनाशनम्
॥११॥इन्द्रः प्रासृजदाकाशाच्चितामध्यगते शिशौ ।
पुष्पवृष्टिश्च महती दुन्दुभिस्वन एव च
॥१२॥समुत्तस्थौ मृतः पुत्रो राज्ञस्तस्य महात्मनः ।
सुकुमारतनुः स्वस्थः प्रसन्नः प्रीतमानसः
॥१३॥ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं तदा ।
सभार्यः स्वश्रिया युक्तो दिव्यमालाम्बरावृतः
॥१४॥बभूव तत्क्षणादिन्द्रो भूपं चैवमभाषत
॥१५॥सभार्यस्त्वं सपुत्रश्च स्वर्लोकं सद्गतिं पराम् ।
समारोह महाभाग निजानां कर्मणां फलम्
॥१६॥हरिश्चन्द्र उवाच
देवराजाननुज्ञातः स्वामिना श्वपचेन हि ।
अकृत्वा निष्कृतिं तस्य नारोक्ष्ये वै सुरालयम्
॥१७॥धर्म उवाच
तवैवं भाविनं क्लेशमवगम्यात्ममायया ।
आत्मा श्वपचतां नीतो दर्शितं तच्च पक्कणम्
॥१८॥इन्द्र उवाच
प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि ।
तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम्
॥१९॥हरिश्चन्द्र उवाच
देवराज नमस्तुभ्यं वाक्यं चेदं निबोध मे ।
मच्छोकमग्नमनसः कौसले नगरे नराः
॥२०॥तिष्ठन्ति तानपास्यैवं कथं यास्याम्यहं दिवम् ।
ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा
॥२१॥तिष्ठन्ति तानपास्यैवं कथं यास्याम्यहं दिवम् ।
ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा
॥२१॥तुल्यमेभिर्महत्पापं भक्तत्यागादुदाहृतम् ।
भजन्तं भक्तमत्याज्यं त्यजतः स्यात्कथं सुखम्
॥२२॥तैर्विना न प्रयास्यामि तस्माच्छक्र दिवं व्रज ।
यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर
॥२३॥ततोऽहमपि यास्यामि नरकं वापि तैः सह ।
इन्द्र उवाच ।
बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप
॥२४॥कथं सङ्घातभोज्यं त्वं भूप स्वर्गमभीप्ससि ।
हरिश्चन्द्र उवाच ।
भुङ्क्ते शक्र नृपो राज्यं प्रभावात्प्रकृतेध्रुवम्
॥२५॥यजते च महायज्ञैः कर्म पूर्तं करोति च ।
तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम्
॥२६॥उपदादान्न संत्यक्ष्ये तानहं स्वर्गलिप्सया ।
तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम्
॥२७॥दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः ।
बहुकालोपभोज्यं च फलं यन्मम कर्मगम्
॥२८॥तदस्तु दिनमप्येकं तैः समं त्वप्रसादतः ।
सूत उवाच ।
एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः
॥२९॥प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः ।
गत्वा तु नगरं सर्वे चातुर्वर्ण्यसमाकुलम्
॥३०॥हरिश्चन्द्रस्य निकटे प्रोवाच विबुधाधिपः ।
आगच्छन्तु जनाः शीघ्रं स्वर्गलोकं सुदुर्लभम्
॥३१॥धर्मप्रसादात्सम्प्राप्तं सर्वैर्युष्माभिरेव तु ।
हरिश्चन्द्रोऽपि तान्सर्वाञ्जनान्नगरवासिनः
॥३२॥प्राह राजा धर्मपरो दिवमारुह्यतामिति ।
सूत उवाच ।
तदिन्द्रस्य वचः श्रुत्वा प्रीतास्तस्य च भूपतेः
॥३३॥ये संसारेषु निर्विण्णास्ते धुरं स्वसुतेषु वै ।
कृत्वा प्रहृष्टमनसो दिवमारुरुहुर्जनाः
॥३४॥विमानवरमारूढाः सर्वे भास्वरविग्रहाः ।
तदा सम्भूतहर्षास्ते हरिश्चन्द्रश्च पार्थिवः
॥३५॥राज्येऽभिषिच्य तनयं रोहिताख्यं महामनाः ।
अयोध्याख्ये पुरे रम्ये हृष्टपुष्टजनान्विते
॥३६॥तनयं सुहृदश्चापि प्रतिपूज्याभिनन्द्य च ।
पुण्येन लभ्यां विपुलां देवादीनां सुदुर्लभाम्
॥३७॥सम्प्राप्य कीर्तिमतुलां विमाने स महीपतिः ।
आसाञ्चक्रे कामगमे क्षुद्रघण्टाविराजिते
॥३८॥ततस्तर्हि समालोक्य श्लोकमन्त्रं तदा जगौ ।
दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित्
॥३९॥शुक्र उवाच
अहो तितिक्षामाहात्म्यमहो दानफलं महत् ।
यदागतो हरिश्चन्द्रो महेन्द्रस्य सलोकताम्
॥४०॥सूत उवाच
एतत्ते सर्वमाख्यानं हरिश्चन्द्रस्य चेष्टितम् ।
यः शृणोति च दुःखार्तः स सुखं लभतेऽन्वहम्
॥४१॥स्वर्गार्थी प्राप्नुयात् स्वर्गं सुतार्थी सुतमाप्नुयात् ।
भार्यार्थी प्राप्नुयाद्भार्यां राज्यार्थीं राज्यमाप्नुयात्
॥४२॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्राख्यानश्रवणफलवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥