अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्
व्यास उवाच
गते राजनि सा बाला पतिसेवापरायणा ।
बभूव च तथाग्नीनां सेवने धर्मतत्परा
॥१॥फलान्यादाय स्वादूनि मूलानि विविधानि च ।
ददौ सा मुनये बाला पतिसेवापरायणा
॥२॥पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचा ।
परिवेष्ट्य शुभायां तु बृस्यां स्थापितवत्यपि
॥३॥तिलान् यवकुशानग्रे परिकल्प्य कमण्डलुम् ।
तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम
॥४॥तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि ।
बृस्यां वा संस्तरे बाला भर्तारं संन्यवेशयत्
॥५॥पश्चादानीय पक्वानि फलानि च नृपात्मजा ।
भोजयामास च्यवनं नीवारान्नं सुसंस्कृतम्
॥६॥भुक्तवन्तं पतिं तृप्तं दत्त्वाचमनमादरात् ।
पश्चाच्च पूगं पत्राणि ददौ चादरसंयुता
॥७॥गृहीतमुखवासं तं संवेश्य च शुभासने ।
गृहीत्वाऽऽज्ञां शरीरस्य चकार साधनं ततः
॥८॥फलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधौ ।
प्रोवाच प्रणयोपेता किमाज्ञापयसे प्रभो
॥९॥पादसंवाहनं तेऽद्य करोमि यदि मन्यसे ।
एवं सेवापरा नित्यं बभूव पतितत्परा
॥१०॥सायं होमावसाने सा फलान्याहृत्य सुन्दरी ।
अर्पयामास मुनये स्वादूनि च मृदूनि च
॥११॥ततः शेषाणि बुभुजे प्रेमयुक्ता तदाज्ञया ।
सुस्पर्शास्तरणं कृत्वा शाययामास तं मुदा
॥१२॥सुप्ते सुखं प्रिये कान्ता पदसंवाहनं तदा ।
चकार पृच्छती धर्मं कुलस्त्रीणां कृशोदरी
॥१३॥पादसंवाहनं कृत्वा निशि भक्तिपरायणा ।
निद्रितं च मुनिं ज्ञात्वा सुष्वाप चरणान्तिके
॥१४॥शुचौ प्रतिष्ठितं वीक्ष्य तालवृन्तेन भामिनी ।
कुर्वाणा शीतलं वायुं सिषेवे स्वपतिं तदा
॥१५॥हेमन्ते काष्ठसम्भारं कृत्वाग्निज्वलनं पुरः ।
स्थापयित्वा तथापृच्छत्सुखं तेऽस्तीति चासकृत्
॥१६॥ब्राह्मे मुहूर्ते चोत्थाय जलं पात्रं च मृत्तिकाम् ।
समर्पयित्वा शौचार्थं समुत्थाप्य पतिं प्रिया
॥१७॥स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराभवत् ।
कृतशौचं पतिं ज्ञात्वा गत्वा जग्राह तं पुनः
॥१८॥आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे ।
मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि
॥१९॥दत्त्वाऽऽचमनपात्रं तु दन्तधावनमाहरत् ।
समर्प्य दन्तकाष्ठं च यथोक्तं नृपनन्दिनी
॥२०॥चकारोष्णं जलं शुद्धं समानीतं सुपावनम् ।
स्नानार्थं जलमाहृत्य पप्रच्छ प्रणयान्विता
॥२१॥किमाज्ञापयसे ब्रह्मन् कृतं वै दन्तधावनम् ।
उष्णोदकं सुसम्पन्नं कुरु स्नानं समन्त्रकम्
॥२२॥वर्तते होमकालोऽयं सन्ध्या पूर्वा प्रवर्तते ।
विधिवद्हवनं कृत्वा देवतापूजनं कुरु
॥२३॥एवं कन्या पतिं लब्ध्वा तपस्विनमनिन्दिता ।
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च
॥२४॥अग्नीनामतिथीनां च शुश्रूषां कुर्वती सदा ।
आराधयामास मुदा च्यवनं सा शुभानना
॥२५॥कस्मिंश्चिदथ काले तु रविजावश्विनावुभौ ।
च्यवनस्याश्रमाभ्याशे क्रीडमानौ समगतौ
॥२६॥जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति ।
गच्छन्तीं चारुसर्वाङ्गीं रविपुत्रावपश्यताम्
॥२७॥तां दृष्ट्वा देवकन्याभां गत्वा चान्तिकमादरात् ।
ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ
॥२८॥क्षणं तिष्ठ वरारोहे प्रष्टुं त्वां गजगामिनि ।
आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते
॥२९॥पुत्री कस्य पतिः कस्ते कथमुद्यानमागता ।
एकाकिनी तडागेऽस्मिन् स्नानार्थं चारुलोचने
॥३०॥द्वितीया श्रीरिवाभासि कान्त्या कमललोचने ।
इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्याहि शोभने
॥३१॥कोमलौ चरणौ कान्ते स्थितौ भूमावनावृतौ ।
हृदाये कुरुतः पीडां चलन्तौ चललोचने
॥३२॥विमानार्हासि तन्वङ्गि कथं पद्भ्यां व्रजस्यदः ।
अनावृतात्र विपिने किमर्थं गमनं तव
॥३३॥दासीशतसमायुक्ता कथं च त्वं विनिर्गता ।
राजपुत्र्यप्सरा वासि वद सत्यं वरानने
॥३४॥धन्या माता यतो जाता धन्योऽसौ जनकस्तव ।
वक्तुं त्वां नैव शक्तौ च भर्तुर्भाग्यं तवानघे
॥३५॥देवलिकाधिका भूमिरियं चैव सुलोचने ।
प्रचलंश्चरणस्तेऽद्य सम्पावयति भूतलम्
॥३६॥सौभाग्याश्च मृगाः कामं ये त्वां पश्यन्ति वै वने ।
ये चान्ये पक्षिणः सर्वे भूरियं चातिपावना
॥३७॥स्तुत्यालं तव चात्यर्थं सत्यं ब्रूहि सुलोचने ।
पिता कस्ते पतिः क्वासौ द्रष्टुमिच्छास्ति सादरम्
॥३८॥व्यास उवाच
तयोरिति वचः श्रुत्वा राजकन्यातिसुन्दरी ।
तावुवाच त्रपाक्रान्ता देवपुत्री नृपात्मजा
॥३९॥शर्यातितनयां मां वां वित्तं भार्यां मुनेरिह ।
च्यवनस्य सतीं कान्तां पित्रा दत्तां यदृच्छया
॥४०॥पतिरन्धोऽस्ति मे देवौ वृद्धश्चातीव तापसः ।
तस्य सेवामहोरात्रं करोमि प्रीतिमानसा
॥४१॥कौ युवां किमिहायातौ पतिस्तिष्ठति चाश्रमे ।
तत्रागत्य प्रकुरुतमाश्रमं चाद्य पावनम्
॥४२॥तदाकर्ण्य वचो दस्रावूचतुस्तां नराधिप ।
कथं त्वमपि कल्याणि पिता दत्ता तपस्विने
॥४३॥भ्राजसेऽस्मिन्वनोद्देशे विद्युत्सौदामिनी यथा ।
न देवेष्वपि तुल्या हि तव दृष्टास्ति भामिनि
॥४४॥त्वं दिव्याम्बरयोग्यासि शोभसे नाजिनैर्वृता ।
सर्वाभरणसंयुक्ता नीलालकवरूथिनी
॥४५॥अहो विधेर्दुष्कलितं विचेष्टितं यदत्र रम्भोरु वने विषीदसि ।
विशालनेत्रेऽन्धमिमं पतिं प्रिये मुनिं समासाद्य जरातुरं भृशम्
॥४६॥वृथा व्रतस्तेन भृशं न शोभसे नवं वयः प्राप्य सुनृत्यपण्डिते ।
मनोभवेनाशु शराः सुसन्धिताः पतन्ति कस्मिन्पतिरीदृशस्तव
॥४७॥त्वमन्धभार्या नवयौवनान्विता कृतासि धात्रा ननु मन्दबुद्धिना ।
न चैनमर्हस्यसितायतेक्षणे पतिं त्वमन्यं कुरु चारुलोचने
॥४८॥वृथैव ते जीवितमम्बुजेक्षणे पतिं च सम्प्राप्य मुनिं गतेक्षणम् ।
वने निवासं च तथाजिनाम्बर- प्रधारणं योग्यतरं न मन्महे
॥४९॥अतोऽनवद्याङ्ग्युभयोस्त्वमेकं वरं कुरुषावहिता सुलोचने ।
किं यौवनं मानिनि सङ्करोषि वृथा मुनिं सुन्दरि सेवमाना
॥५०॥किं सेवसे भाग्यविवर्जितं तं समुज्झितं पोषणरक्षणाभ्याम् ।
त्यक्त्वा मुनिं सर्वसुखापवर्जितं भजानवद्याङ्ग्युभयोस्त्वमेकम्
॥५१॥त्वं नन्दने चैत्ररथे वने च कुरुष्व कान्ते प्रथितं विहारम् ।
अन्धेन वृद्धेन कथं हि कालं विनेष्यसे मानिनि मानहीनम्
॥५२॥भूपात्मजा त्वं शुभलक्षणा च जानासि संसारविहारभावम् ।
भाग्येन हीना विजने वनेऽत्र कालं कथं वाहयसे वृथा च
॥५३॥तस्माद्भजस्व पिकभाषिणि चारुवक्त्रे एवं द्वयोस्तव सुखाय विशालनेत्रे ।
देवालयुषे च कृशोदरि भुङ्क्ष्व भोगान् त्यक्त्वा मुनिं जरठमाशु नृपेन्द्रपुत्रि
॥५४॥किं ते सुखं चात्र वने सुकेशि वृद्धेन सार्धं विजने मृगाक्षि ।
सेवा तथान्धस्य नवं वयश्च किं ते मतं भूपतिपुत्रि दुःखम्
॥५५॥शशिमुखि त्वमतीव सुकोमला फलजलाहरणं तव नोचितम्
॥५६॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥