मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ८

3
सप्तमस्कन्धः · 8

इक्ष्वाकुवंशवर्णनम्

जनमेजय उवाच

संशयोऽयं महान् ब्रह्मन् वर्तते मम मानसे ।

ब्रह्मलोकं गतो राजा रेवतीसंयुतः स्वयम्

॥१॥

मया पूर्वं श्रुतं कृत्स्नं ब्राह्मणेभ्यः कथान्तरे ।

ब्राह्मणो ब्रह्मविच्छान्तो ब्रह्मलोकमवाप्नुयात्

॥२॥

राजा कथं गतस्तत्र रेवतीसंयुतः स्वयम् ।

सत्यलोकेऽतिदुष्प्रापे भूर्लोकादिति संशयः

॥३॥

मृतः स्वर्गमवाप्नोति सर्वशास्त्रेषु निर्णयः ।

(मानुषेण तु देहेन ब्रह्मलोके गतिः कथम् ।

) स्वर्गात्पुनः कथं लोके मानुषे जायते गतिः

॥४॥

एतन्मे संस्ययं विद्वंश्छेत्तुमर्हसि साम्प्रतम् ।

यथा राजा गतस्तत्र प्रष्टुकामः प्रजापतिम्

॥५॥

व्यास उवाच

मेरोस्तु शिखरे राजन् सर्वे लोकाः प्रतिष्ठिताः ।

इन्द्रलोको वह्निलोको या च संयमिनी पुरी

॥६॥

तथैव सत्यलोकश्च कैलासश्च तथा पुनः ।

वैकुण्ठश्च पुनस्तत्र वैष्णवं पदमुच्यते

॥७॥

यथार्जुनः शक्रलोके गतः पार्थो धनुर्धरः ।

पञ्चवर्षाणि कौन्तेयः स्थितस्तत्र सुरालये

॥८॥

मानुषेणैव देहेन वासवस्य च सन्निधौ ।

तथैवान्येऽपि भूपालाः ककुत्स्थप्रमुखाः किल

॥९॥

स्वर्लोकगतयः पश्चाद्दैत्याश्चापि महाबलाः ।

जित्वेन्द्रसदनं प्राप्य संस्थितास्तत्र कामतः

॥१०॥

महाभिषः पुरा राजा ब्रह्मलोकं गतः स्वराट् ।

आगच्छन्तीं नृपो गङ्गामपश्यच्चातिसुन्दरीम्

॥११॥

वायुनाम्बरमस्यास्तु दैवादपहृतं नृप ।

किञ्चिन्नग्ना नृपेणाथ दृष्टा सा सुन्दरी तथा

॥१२॥

स्मितं चकार कामार्तः सा च किञ्चिज्जहास वै ।

ब्रह्मणा तौ तदा दृष्टौ शप्तौ जातौ वसुन्धराम्

॥१३॥

वैकुण्ठेऽपि सुराः सर्वे पीडिता दैत्यदानवैः ।

गत्वा हरिं जगन्नाथमस्तुवन्कमलापतिम्

॥१४॥

सन्देहो नात्र कर्तव्यः सर्वथा नृपसत्तम ।

गम्याः सर्वेऽपि लोकाः स्युर्मानवानां नराधिप

॥१५॥

अवश्यं कृतपुण्यानां तापसानां नराधिप ।

पुण्यसद्भाव एवात्र गमने कारणं नृप

॥१६॥

तथैव यजमानानां यज्ञेन भावितात्मनाम् ।

जनमेजय उवाच ।

रेवतो रेवतीं कन्यां गृहीत्वा चारुलोचनाम्

॥१७॥

ब्रह्मलोकं गतः पश्चात्किं कृतं तेने भूभुजा ।

ब्रह्मणा किं समादिष्टं कस्मै दत्ता सुता पुनः

॥१८॥

तत्सर्वं विस्तराद्बह्मन् कथय त्वं ममाधुना ।

व्यास उवाच ।

निशामय महीपाल राजा रेवतकः किल

॥१९॥

पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं गतो यदा ।

आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम्

॥२०॥

शृण्वन्नतृप्यद्धृष्टात्मा सभायां तु सकन्यकः ।

समाप्ते तत्र गान्धर्वे प्रणम्य परमेश्वरम्

॥२१॥

दर्शयित्वा सुतां तस्मै स्वाभिप्रायं न्यवेदयत् ।

राजोवाच ।

वरं कथय देवेश कन्येयं मम पुत्रिका

॥२२॥

देया कस्मै मया ब्रह्मन् प्रष्टुं त्वां समुपागतः ।

बहवो राजपुत्रा मे वीक्षिताः कुलसम्भवाः

॥२३॥

कस्मिंश्चिन्मे मनः कामं नोपतिष्ठति चञ्चलम् ।

तस्मात्त्वां देवदेवेश प्रष्टुमत्रागतोऽस्म्यहम्

॥२४॥

तदाज्ञापय सर्वज्ञ योग्यं राजसुतं वरम् ।

कुलीनं बलवन्तं च सर्वलक्षणसंयुतम्

॥२५॥

दातारं धर्मशीलं च राजपुत्रं समादिश ।

व्यास उवाच ।

तदाकर्ण्य जगत्कर्ता वचनं नृपतेस्तदा

॥२६॥

तमुवाच हसन्वाक्यं दृष्ट्वा कालस्य पर्ययम् ।

ब्रह्मोवाच ।

राजपुत्रास्त्वया राजन् वरा ये हृदये कृताः

॥२७॥

ग्रस्ताः कालेन ते सर्वे सपितृपौत्रबान्धवाः ।

सप्तविंशतिमोऽद्यैव द्वापरस्तु प्रवर्तते

॥२८॥

वंशजास्ते मृताः सर्वे पुरी दैत्यैर्विलुण्ठिता ।

सोमवंशोद्भवस्तत्र राजा राज्यं प्रशास्ति हि

॥२९॥

उग्रसेन इति ख्यातो मथुराधिपतिः किल ।

ययातिवंशसम्भूतो राजा माथुरमण्डले

॥३०॥

उग्रसेनात्मजः कंसः सुरद्वेषी महाबलः ।

दैत्यांशः पितरं सोऽपि कारागारं न्यवेशयत्

॥३१॥

स्वयं राज्यं चकारासौ नृपाणां मदगर्वितः ।

मेदिनी चातिभारार्ता ब्रह्माणं शरणं गता

॥३२॥

दुष्टराजन्यसैन्यायां भारेणातिसमाकुला ।

अंशावतरणं तत्र गदितं सुरसत्तमैः

॥३३॥

वासुदेवः समुत्पन्नः कृष्णः कमललोचनः ।

देवक्यां देवरूपिण्यां योऽसौ नारायणो मुनिः

॥३४॥

तपश्चचार दुःसाध्यं धर्मपुत्रः सनातनः ।

गङ्गातीरे नरसखः पुण्ये बदरिकाश्रमे

॥३५॥

सोऽवतीर्णो यदुकुले वासुदेवोऽपि विश्रुतः ।

तेनासौ निहतः पापः कंसः कृष्णेन सत्तम

॥३६॥

उग्रसेनाय राज्यं वै दत्तं हत्वा खलं सुतम् ।

कंसस्य श्वशुरः पापो जरासन्धो महाबलः

॥३७॥

आगत्य मथुरां क्रोधाच्चकार सङ्गरं मुदा ।

कृष्णेनासौ जितः संख्ये जरासन्धो महाबलः

॥३८॥

प्रेषयामास युद्धाय सबलं यवनं ततः ।

श्रुत्वाऽऽयान्तं महाशूरं ससैन्यं यवनाधिपम्

॥३९॥

[कृष्णस्तु मथुरां त्यक्त्वा पुरीं द्वारावतीमगात् ।

प्रभग्नां तां पुरीं कृष्णः शिल्पिभिः सह सङ्गतैः ।

कारयामास दुर्गाढ्यां हट्टशालाविमण्डिताम् ।

जीर्णोद्धारं पुरः कृत्वा वासुदेवः प्रतापवान् ।

उग्रसेनं च राजानं चकार वशवर्तिनम् ।

] यादवान्स्थापयामास द्वारवत्यां यदूत्तमः ।

वासुदेवस्तु तत्राद्य वर्तते बान्धवैः सह

॥४०॥

तास्याग्रतः स विख्यातो बलदेवो हलायुधः ।

शेषांशो मुसली वीरो वरोऽस्तु तव सम्मतः

॥४१॥

सङ्कर्षणाय देह्याशु कन्यां कमललोचनाम् ।

रेवतीं बलभद्राय विवाहविधिना ततः

॥४२॥

दत्त्वा पुत्रीं नृपश्रेष्ठ गच्छ त्वं बदरिकाश्रमम् ।

तपस्तप्तुं सुरारामं पावनं कामदं नृणाम्

॥४३॥

व्यास उवाच

इति राजा समादिष्टो ब्रह्मणा पद्मयोनिना ।

जगाम तरसा राजन् द्वारकां कन्ययान्वितः

॥४४॥

ददौ तां बलदेवाय कन्यां वै शुभलक्षणाम् ।

ततस्तप्त्वा तपस्तीव्रं नृपतिः कालपर्यये

॥४५॥

जगाम त्रिदशावासं त्यक्त्वा देहं सरित्तटे ।

राजोवाच ।

भगवन्महदाश्चर्यं भवता समुदाहृतम्

॥४६॥

रेवतस्तु स्थितस्तत्र ब्रह्मलोके सुतार्थतः ।

युगानां तु गतं तत्र शतमष्टोत्तरं किल

॥४७॥

कन्या वृद्धा न सञ्जाता राजा वातितरां नु किम् ।

एतावन्तं तथा कालमायुः पूर्णं तयोः कथम्

॥४८॥

व्यास उवाच

न जरा क्षुपित्पासा वा न मृत्युर्न भयं पुनः ।

न तु ग्लानिः प्रभवति ब्रह्मलोके सदानघ

॥४९॥

मेरुं गतस्य शर्यातेः सन्तती राक्षसैर्हता ।

गताः कुशस्थलीं त्यक्त्वा भयभीता इतस्ततः

॥५०॥

मनोश्च क्षुवतः पुत्र उत्पन्नो वीर्यवत्तरः ।

इक्ष्वाकुरिति विख्यातः सूर्यवंशकरस्तु सः

॥५१॥

वंशार्थं तप आतिष्ठद्देवीं ध्यात्वा निरन्तरम् ।

नारदस्योपदेशेन प्राप्य दीक्षामनुत्तमाम्

॥५२॥

तस्य पुत्रशतं राजन्निक्ष्वाकोरिति विश्रुतम् ।

विकुक्षिः प्रथमस्तेषां बलवीर्यसमन्वितः

॥५३॥

अयोध्यायां स्थितो राजा इक्ष्वाकुरिति विश्रुतः ।

शकुनिप्रमुखाः पुत्रा पञ्चाशद्बलवत्तराः

॥५४॥

उत्तरापथदेशस्य रक्षितारः कृताः किल ।

दक्षिणस्यां तथा राजन्नादिष्टास्तेन ते सुताः

॥५५॥

चत्वारिंशत्तथाष्टौ च रक्षणार्थं महात्मना ।

अन्यौ द्वौ संस्थितौ पार्श्वे सेवार्थं तस्य भूपतेः

॥५६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे इक्ष्वाकुवंशवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥