मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ३१

3
सप्तमस्कन्धः · 31

हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम्

जनमेजय उवाच

धराधराधीशमौलावाविरासीत्परं महः ।

यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे

॥१॥

को विरज्येत मतिमान् पिबञ्छक्तिकथामृतम् ।

सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत्

॥२॥

व्यास उवाच

धन्योऽसि कृतकृत्योऽसि शिक्षितोऽसि महात्मभिः ।

भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते

॥३॥

शृणु राजन्पुरा वृत्तं सतीदेहेऽग्निभर्जिते ।

भ्रान्तः शिवस्तु बभ्राम क्वचिद्देशे स्थिरोऽभवत्

॥४॥

प्रपञ्चभानरहितः समाधिगतमानसः ।

ध्यायन्देवीस्वरूपं तु कालं निन्ये स आत्मवान्

॥५॥

सौभाग्यरहितं जातं त्रैलोक्यं सचराचरम् ।

शक्तिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम्

॥६॥

आनन्दः शुष्कतां यातः सर्वेषां हृदयान्तरे ।

उदासीनाः सर्वलोकाश्चिन्ताजर्जरचेतसः

॥७॥

सदा दुःखोदधौ मग्ना रोगग्रस्तास्तदाभवन् ।

ग्रहाणां देवतानां च वैपरीत्येन वर्तनम्

॥८॥

अधिभूताधिदैवानां सत्यभावान्नृपाभवन् ।

अथाऽस्मिन्नेव काले तु तारकाख्यो महसुरः

॥९॥

ब्रह्मदत्तवरो दैत्योऽभवत्त्रैलोक्यनायकः ।

शिवौरसस्तु यः पुत्रः स ते हन्ता भविष्यति

॥१०॥

इति कल्पितमृत्युः स देवदेवैर्महासुरः ।

शिवौरससुताभावाज्जगर्ज च ननन्द च

॥११॥

तेन चोपद्रुताः सर्वे स्वस्थानात्प्रच्युताः सुराः ।

शिवौरससुताभावाच्चिन्तामापुर्दुरत्ययाम्

॥१२॥

नाङ्गना शङ्करस्यास्ति कथं तत्सुतसम्भवः ।

अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति

॥१३॥

इति चिन्तातुराः सर्वे जग्मुर्वैकुण्ठमण्डले ।

शशंसुर्हरिमेकान्ते स चोपायं जगाद ह

॥१४॥

कुतश्चिन्तातुराः सर्वे कामकल्पद्रुमा शिवा ।

जागर्ति भूवनेशानी मणिद्वीपाधिवासिनी

॥१५॥

अस्माकमनया देव तदुपेक्षास्ति नान्यथा ।

शिक्षैवेयं जगन्मात्रा कृतास्मच्छिक्षणाय च

॥१६॥

लालने ताडने मातुर्नाकारुण्यं यथार्भके ।

तद्वदेव जगन्मातुर्नियन्त्र्या गुणदोषयोः

॥१७॥

अपराधो भवत्येव तनयस्य पदे पदे ।

कोऽपरः सहते लोके केवलं मातरं विना

॥१८॥

तस्माद्यूयं पराम्बां तां शरणं यात मा चिरम् ।

निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति

॥१९॥

इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया ।

संयुतो निर्जगामाशु देवैः सह सुराधिपः

॥२०॥

आजगाम महाशैलं हिमवन्तं नगाधिपम् ।

अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः

॥२१॥

अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे ।

तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप

॥२२॥

केचित्समाधिनिष्णाताः केचिन्नामपरायणाः ।

केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः

॥२३॥

मन्त्रपारायणपराः केचित्कृच्छ्रादिकारिणः ।

अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः

॥२४॥

हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः ।

इत्येवं बहुवर्षाणि कालोऽगाज्जनमेजय

॥२५॥

अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने ।

प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम्

॥२६॥

चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतम् ।

कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम्

॥२७॥

विद्युत्कोटिसमानाभमरुणं तत्परं महः ।

नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत्

॥२८॥

आद्यन्तरहितं तत्तु न हस्ताद्यङ्गसंयुतम् ।

न च स्त्रीरूपमथवा न पुंरूपमथोभयम्

॥२९॥

दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते ।

पुनश्च धैर्यमालम्ब्य यावत्ते ददृशुः सुराः

॥३०॥

तावत्तदेव स्त्रीरूपेणाभाद्दिव्यं मनोहरम् ।

अतीव रमणीयाङ्गीं कुमारीं नवयौवनाम्

॥३१॥

उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् ।

रणत्किङ्किणिकाजालसिञ्जन्मञ्जीरमेखलाम्

॥३२॥

कनकाङ्गदकेयूरग्रैवेयकविभूषिताम् ।

अनर्घ्यमणिसम्भिन्नगलबन्धविराजिताम्

॥३३॥

तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् ।

नितम्बबिम्बसुभगां रोमराजिविराजिताम्

॥३४॥

कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् ।

कनत्कनकताटङ्कविटङ्कवदनाम्बुजाम्

॥३५॥

अष्टमीचन्द्रबिम्बाभललाटामायतभ्रुवम् ।

रक्तारविन्दनयनामुन्नसां मधुराधराम्

॥३६॥

कुन्दकुड्मलदन्ताग्रां मुक्ताहारविराजिताम् ।

रत्नसम्भिन्नमुकुटां चन्द्ररेखावतंसिनीम्

॥३७॥

मल्लिकामालतीमालाकेशपाशविराजिताम् ।

काश्मीरबिन्दुनिटिलां नेत्रत्रयविलासिनीम्

॥३८॥

पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् ।

रक्तवस्त्रपरीधानां दाडिमीकुसुमप्रभाम्

॥३९॥

सर्वशृङ्गारवेषाढ्यां सर्वदेवनमस्कृताम् ।

सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम्

॥४०॥

प्रसादसुमुखीमम्बां मन्दस्मितमुखाम्बुजाम् ।

अव्याजकरुणामूर्तिं ददृशुः पुरतः सुराः

॥४१॥

दृष्ट्वा तां करुणामुर्तिं प्रणेमुः सकलाः सुराः ।

वक्तुं नाशक्नुवन् किञ्चिद्वाष्पसंरुद्धनिःस्वनाः

॥४२॥

कथञ्चित्स्थैर्यमालम्ब्य भक्त्या चानतकन्धराः ।

प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम्

॥४३॥

देवा ऊचुः

नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्

॥४४॥

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।

दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः

॥४५॥

देवीं वाचमजनयन्त देवा- स्तां विश्वरूपाः पशवो वदन्ति ।

सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु

॥४६॥

कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।

सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम्

॥४७॥

महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।

तन्नो देवी प्रचोदयात्

॥४८॥

नमो विराट्स्वरूपिण्यै नमः सूत्रात्ममूर्तये ।

नमोऽव्याकृतरूपिण्यै नमः श्रीब्रह्ममूर्तये

॥४९॥

यदज्ञानाज्जगद्भाति रज्जुसर्पस्रगादिवत् ।

यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वरीम्

॥५०॥

नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम् ।

अखण्डानन्दरूपां तां वेदतात्पर्यभूमिकाम्

॥५१॥

पञ्चकोशातिरिक्तां तामवस्थात्रयसाक्षिणीम् ।

नुमस्त्वंपदलक्ष्यार्थां प्रत्यगात्मस्वरूपिणीम्

॥५२॥

नमः प्रणवरूपायै नमो ह्रीङ्कारमूर्तये ।

नानामन्त्रात्मिकायै ते करुणायै नमो नमः

॥५३॥

इति स्तुता तदा देवैर्मणिद्वीपाधिवासिनी ।

प्राह वाचा मधुरया मत्तकोकिलनिःस्वना

॥५४॥

श्रीदेव्युवाच

वदन्तु विबुधाः कार्यं यदर्थमिह सङ्गताः ।

वरदाहं सदा भक्तकामकल्पद्रुमास्मि च

॥५५॥

तिष्ठन्त्यां मयि का चिन्ता युष्माकं भक्तिशालिनाम् ।

समुद्धरामि मद्भक्तान्दुःखसंसारसागरात्

॥५६॥

इति प्रतिज्ञां मे सत्यां जानीथ विबुधोत्तमाः ।

इति प्रेमाकुलां वाणीं श्रुत्वा सन्तुष्टमानसाः

॥५७॥

निर्भया निर्जरा राजन्नूचुर्दुःखं स्वकीयकम् ।

देवा ऊचुः ।

नाज्ञातं किञ्चिदप्यत्र भवत्यास्ति जगत्त्रये

॥५८॥

सर्वज्ञया सर्वसाक्षिरूपिण्या परमेश्वरि ।

तारकेणासुरेन्द्रेण पीडिताः स्मो दिवानिशम्

॥५९॥

शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणा शिवे ।

शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि

॥६०॥

सर्वज्ञपुरतः किं वा वक्तव्यं पामरैर्जनैः ।

एतदुद्देशतः प्रोक्तमपरं तर्कयाम्बिके

॥६१॥

सर्वदा चरणाम्भोजे भक्तिः स्यात्तव निश्चला ।

प्रार्थनीयमिदं मुख्यमपरं देहहेतवे

॥६२॥

इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी ।

मम शक्तिस्तु या गौरी भविष्यति हिमालये

॥६३॥

शिवाय सा प्रदेया स्यात्सा वः कार्यं विधास्यति ।

भक्तिर्यच्चरणाम्भोजे भूयाद्युष्माकमादरात्

॥६४॥

हिमालयो हि मनसा मामुपास्तेऽतिभक्तितः ।

ततस्तस्य गृहे जन्म मम प्रियकरं मतम्

॥६५॥

व्यास उवाच

हिमालयोऽपि तच्छ्रुत्वात्यनुग्रहकरं वचः ।

बाष्पैः संरुद्धकण्ठाक्षो महाराज्ञीं वचोऽब्रवीत्

॥६६॥

महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि ।

नोचेत्क्वाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी

॥६७॥

असम्भाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे ।

अश्वमेधादिपुण्यैर्वा पुण्यैर्वा तत्समाधिजैः

॥६८॥

अद्य प्रपञ्चे कीर्तिः स्याज्जगन्माता सुताभवत् ।

अहो हिमालयस्यास्य धन्योऽसौ भाग्यवानिति

॥६९॥

यस्यास्तु जठरे सन्ति ब्रह्माण्डानां च कोटयः ।

सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि

॥७०॥

न जानेऽस्मत्पितॄणां किं स्थानं स्यान्निर्मितं परम् ।

एतादृशानां वासाय येषां वंशेऽस्ति मादृशः

॥७१॥

इदं यथा च दत्तं मे कृपया प्रेमपूर्णया ।

सर्ववेदान्तसिद्धं च त्वद्रूपं ब्रूहि मे तथा

॥७२॥

योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् ।

वदस्व परमेशानि त्वमेवाहं यतो भवेः

॥७३॥

व्यास उवाच

इति तस्य वचः श्रुत्वा प्रसन्नमुखपङ्कजा ।

वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम्

॥७४॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां सप्तमस्कन्धे हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥