कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम्
व्यास उवाच
इति तस्य वचः श्रुत्वा भूपतेः कौशिको मुनिः ।
प्रहस्य प्रत्युवाचेदं हरिश्चन्द्रं तथा नृप
॥१॥राजंस्तीर्थमिदं पुण्यं पावनं पापनाशनम् ।
स्नानं कुरु महाभाग पितॄणां तर्पणं तथा
॥२॥कालः शुभतमोऽस्तीह तीर्थे स्नात्वा विशांपते ।
दानं ददस्व शक्त्यात्र पुण्यतीर्थेऽतिपावने
॥३॥प्राप्य तीर्थं महापुण्यमस्नात्वा यस्तु गच्छति ।
स भवेदात्महा भूय इति स्वायम्भुवोऽब्रवीत्
॥४॥तस्मात्तीर्थवरे राजन् कुरु पुण्यं स्वशक्तितः ।
दर्शयिष्यामि मार्गं ते गन्तासि नगरं ततः
॥५॥आगमिष्यामहं मार्गदर्सनार्थं तवानघ ।
त्वया सहाद्य काकुत्स्थ तव दानेन तोषितः
॥६॥तच्छ्रुत्वा वचनं राजा मुनेः कपटमण्डितम् ।
वासांस्युत्तार्य विधिवत्स्नातुमभ्याययौ नदीम्
॥७॥बन्धयित्वा हयं वृक्षे मुनिवाक्येन मोहितः ।
अवश्यंभावियोगेन तद्वशस्तु तदाभवत्
॥८॥राजा स्नानविधिं कृत्वा सन्तर्प्य पितृदेवताः ।
विश्वामित्रमुवाचेदं स्वामिन् दानं ददामि ते
॥९॥यदिच्छसि महाभाग तत्ते दास्यामि साम्प्रतम् ।
गावो भूमिर्हिरण्यं च गजाश्वरथवाहनम्
॥१०॥नादेयं मे किमप्यस्ति कृतमेतद्व्रतं पुरा ।
राजसूये मखश्रेष्ठे मुनीनां सन्निधावपि
॥११॥तस्मात्त्वमिह सम्प्ताप्तस्तीर्थेऽस्मिन्प्रवरे मुने ।
यत्तेऽस्ति वाञ्छितं ब्रूहि ददामि अव वाञ्छितम्
॥१२॥विश्वामित्र उवाच
मया पूर्वं श्रुता राजन् कीर्तिस्ते विपुला भुवि ।
वसिष्ठेन च सम्प्रोक्ता दाता नास्ति महीतले
॥१३॥हरिश्चन्द्रो नृपश्रेष्ठः सूर्यवंशे महीपतिः ।
तादृशो नृपतिर्दाता न भूतो न भविष्यति
॥१४॥पृथिव्यां परमोदारस्त्रिशङ्कुतनयो यथा ।
अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिवः
॥१५॥पुत्रस्य च महाभाग तदर्थं देहि मे धनम् ।
राजोवाच ।
विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव
॥१६॥यदिच्छसि धनं कामं दाता तस्यामि निश्चितम् ।
व्यास उवाच ।
इत्युक्तः कौशिकस्तेन वञ्चनातत्परो मुनिः
॥१७॥उद्भाव्य मायां गान्धर्वीं पार्थिवायाप्यदर्शयत् ।
कुमारः सुकामारश्च कन्या च दशवार्षिकी
॥१८॥एतयोः कार्यमप्यद्य कर्तव्यं नृपसत्तम ।
राजसूयाधिकं पुण्यं गृहस्थस्य विवाहतः
॥१९॥भविष्यति तवाद्यैव विप्रपुत्रविवाहितः ।
तच्छ्रुत्वा वचनं राजा मायया तस्य मोहितः
॥२०॥तथेति च प्रतिज्ञाय नोवाचाल्पं वचस्तथा ।
तेन दर्शितमार्गोऽसौ नगरं प्रति जग्मिवान्
॥२१॥विश्वामित्रोऽपि राजानं वञ्चयित्वाश्रमं ययौ ।
कृतोद्वाहविधिस्तावद्विश्वामित्रोऽब्रवीन्नृपम्
॥२२॥वेदीमध्ये नृपाद्य त्वं देहि दानं यथेप्सितम् ।
राजोवाच ।
किं तेऽभीष्टं द्विज ब्रूहि ददामि वाञ्छितं किल
॥२३॥अदेयमै संसरे यशः कामोऽस्मि साम्प्रतम् ।
व्यर्थं हि जीवितं तस्य विभवं प्राप्य येन वै
॥२४॥नोपार्जितं यशः शुद्धं परलोकसुखप्रदम् ।
विश्वामित्र उवाच ।
राज्यं देहि महाराज वराय सपरिच्छदम्
॥२५॥गजाश्वरथरत्नाढ्यं वेदीमध्येऽतिपावने ।
व्यास उवाच ।
मोहितो मायया तस्य श्रुत्वा वाक्यं मुनेर्नृपः
॥२६॥दत्तमित्युक्तवान् राज्यमविचार्य यदृच्छया ।
गृहीतमिति तं प्राह विश्वामित्रोऽतिनिष्ठुरः
॥२७॥दक्षिणां देहि राजेन्द्र दानयोग्यां महामते ।
दक्षिणारहितं दानं निष्फलं मनुरब्रवीत्
॥२८॥तस्माद्दानफलाय त्वं यथोक्तां देहि दक्षिणाम् ।
इत्युक्तस्तु तदा राजा तमुवाचातिविस्मितः
॥२९॥ब्रूहि कियद्धनं तुभ्यं देयं स्वामिन् मयाधुना ।
दक्षिणानिष्क्रयं साधो वद तावत्प्रमाणकम्
॥३०॥दानपूर्त्यै प्रदास्यामि स्वस्थो ब् हव तपोधन ।
विश्वामित्रस्तु तच्छ्रुत्वा तमाह मेदिनीपतिम्
॥३१॥हेमभारद्वयं सार्धं दक्षिणां देहि साम्प्रतम् ।
दास्यामीति प्रतिश्रुत्य तस्मै राजातिविस्मितः
॥३२॥तदैव सैनिकास्तस्य वीक्षमाणाः समागताः ।
दृष्ट्वा महीपतिं व्यग्रं तुष्टुवुस्ते मुदान्विताः
॥३३॥व्यास उवाच
श्रुत्वा तेषां वचो राजा नोक्त्वा किञ्चिच्छुभाशुभम् ।
चिन्तयन्स्वकृतं कर्म ययावन्तःपुरे ततः
॥३४॥किं मया स्वीकृतं दानं सर्वस्वं यत्समर्पितम् ।
वञ्चितोऽहं द्विजेनात्र वने पाटच्चरैरिव
॥३५॥राज्यं सोपस्करं तस्मै मया सर्वं रतिश्रुतम् ।
भारद्वयं सुवर्णस्य सार्धं च दक्षिणा पुनः
॥३६॥किं करोमि मतिर्भ्रष्टा न ज्ञातं कपटं मुनेः ।
प्रतारितोऽहं सहसा ब्राह्मणेन तपस्विना
॥३७॥न जाने दैवकार्यं वै हा दैव किं भविष्यति ।
इति चिन्तापरो राजा गृहं प्राप्तोऽतिविह्वलः
॥३८॥पतिं चिन्तापरं दृष्त्वा राज्ञी पप्रच्छ कारणम् ।
किं प्रभो विमना भासि का चिन्ता ब्रूहि साम्प्रतम्
॥३९॥वनात्पुत्रः समायातो राजसूयः कृतः पुरा ।
कस्माच्छोचसि राजेन्द्र शोकस्य कारणं वद
॥४०॥नारातिर्विद्यते क्वापि बलवान्दुर्बलोऽपि वा ।
वरुणोऽपि सुसन्तुष्टः कृतकृत्योऽसि भूतले
॥४१॥विन्तया क्षीयते देहो नास्ति चिन्तासमा मृतिः ।
त्यज्यतां नृपशार्दूल स्वस्थो भव विचक्षण
॥४२॥तन्निशम्य प्रियावाक्यं प्रीतिपूर्वं नराधिपः ।
प्रोवाच किञ्चिच्चिन्तायाः कारणं च शुभाशुभम्
॥४३॥भोजनं न चकाराऽसौ चिन्ताविष्टस्तथा नृपः ।
सुप्त्वापि शयने शुभ्रे लेभे निद्रां न भूमिपः
॥४४॥प्रातरुत्थाय चिन्तार्तो यावत्सन्ध्यादिकाः क्रियाः ।
करोति नृपतिस्तावद्विश्वामित्रः समागतः
॥४५॥क्षत्रा निवेदितो राज्ञे मुनिः सर्वस्वहारकः ।
आगत्योवाच राजानं प्रणमन्तं पुनः पुनः
॥४६॥विश्वामित्र उवाच
राजंस्त्यज स्वराज्यं मे देहि वाचा प्रतिश्रुतम् ।
सुवर्णं स्पृश राजेन्द्र सत्यवाग्भव साम्प्रतम्
॥४७॥हरिश्चन्द्र उवाच
स्वामिन् राज्यं तवेदं मे मया दत्तं किलाधुना ।
त्यक्त्वान्यत्र गमिष्यामि मा चिन्ता कुरु कौशिक
॥४८॥सर्वस्वं मम ते ब्रह्मन् गृहीतं विधिवद्विभो ।
सुवर्णदक्षिणां दातुमशक्तोऽस्म्यधुना द्विज
॥४९॥दानं ददामि ते तावद्यावन्मे स्याद्धनागमः ।
पुनश्चेत्कालयोगेन तदा दास्यामि दक्षिणाम्
॥५०॥इत्युक्त्वा नृपतिः प्राह पुत्रं भार्यां च माधवीम् ।
राज्यमस्मै प्रदत्तं वै मया वेद्यां सुविस्तरम्
॥५१॥हस्त्यश्वरथसंयुक्तं रत्नहेमसमन्वितम् ।
त्यक्त्वा त्रीणि शरीराणि सर्वं चास्मै समर्पितम्
॥५२॥त्यक्त्वायोध्यां गमिष्यामि कुत्रचिद्वनगह्वरे गृह्णात्विदं मुनिः सम्यग्राज्यं सर्वसमृद्धिमत्
॥५३॥इत्याभाष्य सुतं भार्यां हरिश्चन्द्रः स्वमन्दिरात् ।
विनिर्गतः सुधर्मात्मा मानयंस्तं द्विजोत्तमम्
॥५४॥व्रजन्तं भूपतिं वीक्ष्य भार्यापुत्रावुभावपि ।
चिन्तातुरौ सुदीनास्यौ जग्मतुः पृष्ठतस्तदा
॥५५॥हाहाकारो महानासीन्नगरे वीक्ष्य तांस्तथा ।
चुक्रुशुः प्राणिनः सर्वे साकेतपुरवासिनः
॥५६॥हा राजन् किं कृतं कर्म कुतः क्लेशः समागतः ।
वञ्चितोऽसि महाराज विधिनापण्डितेन ह
॥५७॥सर्वे वर्णास्तदा दुःखमाप्नुयुस्तं महीपतिम् ।
विलोक्य भार्यया सार्धं पुत्रेण च महात्मना
॥५८॥निनिन्दुर्ब्राह्मणं तं तु दुराचारं पुरौकसः ।
धूर्तोऽयमिति भाषन्तो दुःखार्ता ब्राह्मणादयः
॥५९॥निर्गत्य नगरात्तस्माद्विश्वामित्रः क्षितीश्वरम् ।
गच्छन्तं तमुवाचेदं समेत्य निष्ठुरं वचः
॥६०॥दक्षिणायाः सुवर्णं मे दत्त्वा गच्छ नराधिप ।
नाहं दास्यामि वा ब्रूहि मया त्यक्तं सुवर्णकम्
॥६१॥राज्यं गृहाण वा सर्वं लोभश्चेद्धृति वर्तते ।
दत्तं चेन्मन्यसे राजन् देहि यत्तत्प्रतिश्रुतम्
॥६२॥एवं ब्रुवन्तं गाधेयं हरिश्चन्द्रो महीपतिः ।
प्रणिपत्य सुदीनात्मा कृताञ्जलिपुटोऽब्रवीत्
॥६३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादश साहस्र्यां संहितायां सप्तमस्कन्धे कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥