हरिश्चन्द्रोपाख्यानवर्णनम्
व्यास उवाच
तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः ।
तदादाय धनं पूर्णं कुपितः कौशिको ययौ
॥१॥विश्वामित्रे गते राजा ततः शोकमुपागतः ।
श्वासोच्छ्वासं मुहुः कृत्वा प्रोवाचोच्चैरधोमुखः
॥२॥वित्तक्रीतेन यस्यार्तिर्मया प्रेतेन गच्छति ।
स ब्रवीतु त्वरायुक्तो यामे तिष्ठति भास्करः
॥३॥अथाजगाम त्वरितो धर्मश्चाण्डालरूपधृक् ।
दुर्गन्धो विकृतोरस्कः श्मश्रुलो दन्तुरोऽघृणी
॥४॥कृष्णो लम्बोदरः स्निग्धः करालः पुरुषाधमः ।
हस्तजर्जरयष्टिश्च शवमाल्यैरलङ्कृतः
॥५॥चाण्डाल उवाच
अहं गृह्णामि दासत्वे भृत्यार्थः सुमहान्मम ।
क्षिप्रमाचक्ष्व मौल्यं किमेतत्ते सम्प्रदीयते
॥६॥व्यास उवाच
तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिर्घृणम् ।
वदन्तमतिदुःशीलं कस्त्वमित्याह पार्थिवः
॥७॥चाण्डाल उवाच
चाण्डालोऽहमिह ख्यातः प्रवीरेति नृपोत्तम ।
शासने सर्वदा तिष्ठ मृतचैलापहारकः
॥८॥एवमुक्तस्तदा राजा वचनं चेदमब्रवीत् ।
ब्राह्मणः क्षत्रियो वापि गृह्णात्विति मतिर्मम
॥९॥उत्तमस्योत्तमो धर्मो मध्यमस्य च मध्यमः ।
अधमस्याधमश्चैव इति प्राहुर्मनीषिणः
॥१०॥चाण्डाल उवाच
एवमेव त्वया धर्मः कथितो नृपसत्तम ।
अविचार्य त्वया राजन्नधुनोक्तं ममाग्रतः
॥११॥विचारयित्वा यो ब्रूते सोऽभीष्टं लभते नरः ।
सामान्यमेव तत्प्रोक्तमविचार्य त्वयानघ
॥१२॥यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः ।
हरिश्चन्द्र उवाच ।
असत्यान्नरके गच्छेत्सद्यः क्रूरे नराधमः
॥१३॥ततश्चाण्डालता साध्वी न वरा मे ह्यसत्यता ।
व्यास उवाच ।
तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः
॥१४॥क्रोधामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् ।
चाण्डालोऽयं मनस्थं ते दातुं वित्तमुपस्थितः
॥१५॥कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा ।
राजोवाच ।
भगवन्सूर्यवंशोत्थमात्मानं वेद्मि कौशिक
॥१६॥कथं चाण्डालदासत्वं गमिष्ये वित्तकामतः ।
विश्वामित्र उवाच ।
यदि चाण्डालवित्तं त्वमात्मविक्रयजं मम
॥१७॥न प्रदास्यसि चेत्तर्हि शप्स्यामि त्वामसंशयम् ।
चाण्डालादथवा विप्राद्देहि मे दक्षिणाधनम्
॥१८॥विना चाण्डालमधुना नान्यः कश्चिद्धनप्रदः ।
धनेनाहं विना राजन्न यास्यामि न संशयः
॥१९॥इदानीमेव मे वित्तं न प्रदास्यसि चेन्नृप ।
दिनेऽर्धघटिकाशेषे तत्त्वां शापाग्निना दहे
॥२०॥व्यास उवाच
हरिश्चन्द्रस्ततो राजा मृत्ववच्छ्रितजीवितः ।
प्रसीदेति वदन्पादौ ऋषेर्जग्राह विह्वलः
॥२१॥हरिश्चन्द्र उवाच
दासोऽस्म्यार्तोऽस्मि दीनोऽस्मि त्वद्भक्तश्च विशेषतः ।
प्रसादं कुरु विप्रर्षे कष्टश्चाण्डालसङ्करः
॥२२॥भवेयं वित्तशेषेण तव कर्मकरो वशः ।
तवैव मुनिशार्दूल प्रेष्यश्चित्तानुवर्तकः
॥२३॥विश्वामित्र उवाच
एवमस्तु महाराज ममैव भव किङ्करः ।
किंतु मद्वचनं कार्यं सर्वदैव नराधिप
॥२४॥व्यास उवाच
एवमुक्तेऽथ वचने राजा हर्षसमन्वितः ।
अमन्यत पुनर्जातमात्मानं प्राह कौशिकम्
॥२५॥तवादेशं करिष्यामि सदैवाहं न संशयः ।
आदेशय द्विजश्रेष्ठ किं करोमि तवानघ
॥२६॥विश्वामित्र उवाच
चाण्डालागच्छ मद्दासमौल्यं किं मे प्रयच्छसि ।
गृहाण दासं मौल्येन मया दत्तं तवाधुना
॥२७॥नास्ति दासेन मे कार्यं वित्ताशा वर्तते मम ।
व्यास उवाच ।
एवमुक्ते तदा तेन स्वपचो हृष्टमानसः
॥२८॥आगत्य सन्निधौ तूर्णं विश्वामित्रमभाषत ।
चाण्डाल उवाच ।
दशयोजनविस्तीर्णे प्रयागस्य च मण्डले
॥२९॥भूमिं रत्नमयीं कृत्वा दास्ये तेऽहं द्विजोत्तम ।
अस्य विक्रयणेनेयमार्तिश्च प्रहता त्वया
॥३०॥व्यास उवाच
ततो रत्नसहस्राणि सुवर्णमणिमौक्तिकैः ।
चाण्डालेन प्रदत्तानि जग्राह द्विजसत्तमः
॥३१॥हरिश्चन्द्रस्तथा राजा निर्विकारमुखोऽभवत् ।
अमन्यत तथा धैर्याद्विश्वामित्रो हि मे पतिः
॥३२॥तत्तदेव मया कार्यं यदयं कारयिष्यति ।
अथान्तरिक्षे सहसा वागुवाचाशरीरिणी
॥३३॥अनृणोऽसि महाभाग दत्ता सा दक्षिणा त्वया ।
ततो दिवः पुष्पवृष्टिः पपात नृपमूर्धनि
॥३४॥साधु साध्विति तं देवाः प्रोचुः सेन्द्रा महौजसः ।
हर्षेण महताऽऽविष्टो राजा कौशिकमब्रवीत्
॥३५॥राजोवाच
त्वं हि माता पिता चैव त्वं हि बन्धुर्महामते ।
यदर्थं मोचितोऽहं ते क्षणाच्चैवानृणीकृतः
॥३६॥किं करोमि महाबाहो श्रेयो मे वचनं तव ।
एवमुक्ते तु वचने नृपं मुनिरभाषत
॥३७॥विश्वामित्र उवाच
चाण्डालवचनं कार्यमद्यप्रभृति ते नृप ।
स्वस्ति तेऽस्विति तं प्रोच्य तदादाय धनं ययौ
॥३८॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥