मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ४०

3
सप्तमस्कन्धः · 40

देवीगीतायां बाह्यपूजाविधिवर्णनम्

श्री देव्युवाच

प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् ।

कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम्

॥१॥

सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम् ।

नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः

॥२॥

प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् ।

अन्तः पदव्यामनुसञ्चरन्ती- मानन्दरूपामबलां प्रपद्ये

॥३॥

ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् ।

मां ध्यायेदथ शौचादिक्रियाः सर्वाः समापयेत्

॥४॥

अग्निहोत्रं ततो हूत्वा मत्प्रीत्यर्थं द्विजोत्तमः ।

होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत्

॥५॥

भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च ।

हृल्लेखामातृकान्यासं नित्यमेव समाचरेत्

॥६॥

मूलाधारे हकारं च हृदये च रकारकम् ।

भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत्

॥७॥

तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् ।

कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः

॥८॥

ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते ।

हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः

॥९॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।

एते पञ्च महाप्रेताः पादमूले मम स्थिताः

॥१०॥

पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि ।

अहं त्वव्यक्तचिद्रूपा तदतीतास्ति सर्वथा

॥११॥

ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा ।

ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि

॥१२॥

जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् ।

पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत्

॥१३॥

जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः ।

दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम्

॥१४॥

तदनुज्ञां समादाय बाह्यपीठे ततः परम् ।

हृदिस्थां भवितां मूर्तिं मम दिव्यां मनोहराम्

॥१५॥

आवाहयेत्ततः पीठे प्राणस्थापनविद्यया ।

असनावाहने चार्घ्यं पाद्याद्याचमनं तथा

॥१६॥

स्नानं वासोद्वयं चैव भूषणानि च सर्वशः ।

गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः

॥१७॥

यन्त्रस्थानामावृतीनां पूजनं सम्यगाचरेत् ।

प्रतिवारमशक्तानां शुक्रवारो नियम्यते

॥१८॥

मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः ।

तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत्

॥१९॥

पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् ।

गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः

॥२०॥

नैवेद्यैस्तर्पणैश्चैव ताम्बूलैर्दक्षिणादिभिः ।

तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च

॥२१॥

कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो ।

देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः

॥२२॥

महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः ।

क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः

॥२३॥

पुलकाङ्कितसर्वाङ्गैर्बाष्परुद्धाक्षिनिःस्वनः ।

नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः

॥२४॥

वेदपारायणैश्चैव पुराणैः सकलैरपि ।

प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम्

॥२५॥

निजं सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् ।

नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः

॥२६॥

बटुकान्पामरानन्यान्देवीबुद्ध्या तु भोजयेत् ।

नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत्

॥२७॥

सर्वं हृल्लेखया कुर्यात् पूजनं मम सुब्रत ।

हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता

॥२८॥

हृल्लेखादर्पणे नित्यमहं तत्प्रतिबिम्बिता ।

तस्माद्हृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम्

॥२९॥

गुरुं सम्पूज्य भूषाद्यैः कृतकृत्यत्वमावहेत् ।

य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम्

॥३०॥

न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि ।

देहान्ते तु मणिद्वीपं मम यात्येव सर्वथा

॥३१॥

ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् ।

इति ते कथितं राजन् महादेव्याः प्रपूजनम्

॥३२॥

विमृश्यैतदशेषेणाप्यधिकारानुरूपतः ।

कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि

॥३३॥

इदं तु गीताशास्त्रं मे नाशिष्याय वदेत् क्वचित् ।

नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे

॥३४॥

एतत्प्रकाशनं मातुरुद्घाटनमुरोजयोः ।

तस्मादवश्यं यत्नेन गोपनीयमिदं सदा

॥३५॥

देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि ।

सुशीलाय सुवेषाय देवीभक्तियुताय च

॥३६॥

श्राद्धकाले पठेदेतद्ब्राह्मणानाम् समीपतः ।

तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम्

॥३७॥

व्यास उवाच

इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत ।

देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन्

॥३८॥

ततो हिमालये जज्ञे देवी हैमवती तु सा ।

या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च

॥३९॥

ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः ।

समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप

॥४०॥

तत्र देवैः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् ।

तेषामनुग्रहार्थाय निर्गता तु रमा ततः

॥४१॥

वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमोऽभवत् ।

इति ते कथितं राजन् देवीमाहात्म्यमुत्तमम्

॥४२॥

गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् ।

न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः

॥४३॥

गीता रहस्यभूतेयं गोपनीया प्रयत्नतः ।

सर्वमुक्तं स्मसेन यत्पृष्टं तत्त्वयानघ ।

पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि

॥४४॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां बाह्यपूजाविधिवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥