मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ५

3
सप्तमस्कन्धः · 5

अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम्

व्यास उवाच

तयोस्तद्भाषितं श्रुत्वा वेपमाना नृपात्मजा ।

धैर्यमालम्ब्य तौ तत्र बभाषे मितभाषिणी

॥१॥

देवौ वां रविपुत्रौ च सर्वज्ञौ सुरसम्मतौ ।

सतीं मां धर्मशीलां च नैवं वदितुमर्हथः

॥२॥

पित्रा दत्ता सुरश्रेष्ठौ मुनये योगधर्मिणे ।

कथं गच्छामि तं मार्गं पुंश्चलीगणसेवितम्

॥३॥

द्रष्टायं सर्वलोकस्य कर्मसाक्षी दिवाकरः ।

कश्यपाच्चैव सम्भूतो नैवं भाषितुमर्हथः

॥४॥

कुलकन्या पतिं त्यक्त्वा कथमन्यं भजेन्नरम् ।

असारेऽस्मिन्हि संसारे जानन्तौ धर्मनिर्णयम्

॥५॥

यथेच्छं गच्छतं देवौ शापं दास्यामि वानघौ ।

सुकन्याहं च शर्यातेः पतिभक्तिपरायणा

॥६॥

व्यास उवाच

इत्याकर्ण्य वचस्तस्या नासत्यौ विस्मितौ भृशम् ।

तावब्रूतां पुनस्त्वेनां शङ्कमानौ भयं मुनेः

॥७॥

राजपुत्रि प्रसन्नौ ते धर्मेण वरवर्णिनि ।

वरं वरय सुश्रोणि दास्यावः श्रेयसे तव

॥८॥

जानीहि प्रमदे नूनं आवां देवभिषग्वरौ ।

युवानं रूपसम्पन्नं प्रकुर्यावः पतिं तव

॥९॥

ततस्त्रयाणामस्माकं पतिमेकतमं वृणु ।

समानरूपदेहानां मध्ये चातुर्यपण्डिते

॥१०॥

सा तर्योवचनं श्रुत्वा विस्मिता स्वपतिं तदा ।

गत्वोवाच तयोर्वाक्यं ताभ्यामुक्तं यदद्भुतम्

॥११॥

सुकन्योवाच

स्वामिन् सूर्यसुतौ देवौ सम्प्राप्तौ च्यवनाश्रमे ।

दृष्टौ मया दिव्यदेहौ नासत्यौ भृगुनन्दन

॥१२॥

वीक्ष्य मां चारुसर्वाङ्गीं जातौ कामातुरावुभौ ।

कथितं वचनं स्वामिन् पतिं ते नवयौवनम्

॥१३॥

दिव्यदेहं करिष्यावश्चक्षुष्मन्तं मुनिं किल ।

एतेन समयेनाद्य तं शृणु त्वं मयोदितम्

॥१४॥

समावयवरूपं च करिष्यावः पतिं तव ।

तत्र त्रयाणामस्माकं पतिमेकतमं वृणु

॥१५॥

तच्छ्रुत्वाहमिहायाता प्रष्टुं त्वां कार्यमद्भुतम् ।

किं कर्तव्यमतः साधो ब्रूह्यस्मिन्कार्यसङ्कटे

॥१६॥

देवमायापि दुर्ज्ञेया न जाने कपटं तयोः ।

यदाज्ञापय सर्वज्ञ तत्करोमि तवेप्सितम्

॥१७॥

च्यवन उवाच

गच्छ कान्तेऽद्य नासत्यौ वचनान्मम सुव्रते ।

आनयस्व समीपं मे शीघ्रं देवभिषग्वरौ

॥१८॥

क्रियतामाशु तद्वाक्यं नात्र कार्या विचारणा व्यास उवाच ।

एवं सा समनुज्ञाता तत्र गत्वा वचोऽब्रवीत्

॥१९॥

क्रियतामाशु नासत्यौ समयेन सुरोत्तमौ ।

तच्छ्रुत्वा चाश्विनौ वाक्यं तस्यास्तौ तत्र चागतौ

॥२०॥

ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ।

रूपार्थं च्यवनस्तूर्णं ततोऽम्भः प्रविवेश ह

॥२१॥

अश्विनावपि पश्चात्तत्प्रविष्टौ सर उत्तमम् ।

ततस्ते निःसृतास्तस्मात्सरसस्तत्क्षणात्त्रयः ।

तुल्यरूपा दिव्य देहा युवानः सदृशाः किल ।

दिव्यकुण्डलभूषाढ्याः समानावयवास्तथा

॥२३॥

तेऽब्रुवन्सहिताः सर्वे वृणीष्व वरवर्णिनि ।

अस्माकमीप्सितं भद्रे पतिं त्वममलानने

॥२४॥

यस्मिन्वाप्यधिका प्रीतिस्तं वृणुष्व वरानने ।

व्यास उवाच ।

सा दृष्ट्वा तुल्यरूपांस्तान्समानवयसस्तथा

॥२५॥

एकस्वरांस्तुल्यवेषांस्त्रीन्वै देवसुतोपमान् ।

सा तु संशयमापन्ना वीक्ष्य तान्सदृशाकृतीन्

॥२६॥

अजानन्ती पतिं सम्यग्व्याकुला समचिन्तयत् ।

किं करोमि त्रयस्तुल्याः कं वृणोमि न वेद्म्यहम्

॥२७॥

पतिं देवसुता ह्येते संशये पतितास्म्यहम् ।

इन्द्रजालमिदं सम्यग्देवाभ्यामिह कल्पितम्

॥२८॥

कर्तव्यं किं मया चात्र मरणं समुपागतम् ।

न मया पतिमुत्सृज्य वरणीयः कथञ्चन

॥२९॥

देवस्त्वाधुनिकः कश्चिदित्येषा मम धारणा ।

इति सञ्चिन्त्य मनसा परां विश्वेश्वरीं शिवाम्

॥३०॥

दध्यौ भगवतीं देवीं तुष्टाव च कृशोदरी ।

सुकन्योवाच ।

शरणं त्वां जगन्मातः प्राप्तास्मि भृशदुःखिता

॥३१॥

रक्ष मेऽद्य सतीधर्मं नमामि चरणौ तव ।

नमः पद्मोद्भवे देवि नमः शङ्करवल्लभे

॥३२॥

विष्णुप्रिये नमो लक्ष्मि वेदमातः सरस्वति ।

इदं जगत्त्वया सृष्टं सर्वं स्थावरजङ्गमम्

॥३३॥

पासि त्वमिदमव्यग्रा तथात्सि लोकशान्तये ।

ब्रह्मविष्णुमहेशानां जननी त्वं सुसम्मता

॥३४॥

बुद्धिदासि त्वमज्ञानां ज्ञानिनां मोक्षदा सदा ।

आज्ञा त्वं प्रकृतिः पूर्णा पुरुषप्रियदर्शना

॥३५॥

भुक्तिमुक्तिप्रदासि त्वं प्राणिनां विशदात्मनाम् ।

अज्ञानां दुःखदा कामं सत्त्वानां सुखसाधना

॥३६॥

सिद्धिदा योगिनामम्ब जयदा कीर्तिदा पुनः ।

शरणं त्वां प्रपन्नास्मि विस्मयं परमं गता

॥३७॥

पतिं दर्शय मे मातर्मग्नास्मि शोकसागरे ।

देवाभ्यां चरितं कूटं कं वृणोमि विमोहिता

॥३८॥

पतिं दर्शय सर्वज्ञे विदित्वा मे सतीव्रतम् ।

व्यास उवाच ।

एवं स्तुता तदा देवा तथा त्रिपुरसुन्दरी

॥३९॥

हृदयेऽस्यास्तदा ज्ञानं ददावाशु सुखोदयम् ।

निश्चित्य मनसा तुल्यवयोरूपधरान्सती

॥४०॥

प्रसमीक्ष्य तु तान् सर्वान्वव्रे बाला स्वकं पतिम् ।

वृतेऽथ च्यवने देवौ सन्तुष्टौ तौ बभूवतुः

॥४१॥

सतीधर्मं समालोक्य सम्प्रीतौ ददतुर्वरम् ।

भगवत्याः प्रसादेन प्रसन्नौ तौ सुरौत्तमौ

॥४२॥

मुनिमामन्त्र्य तरसा गमनायोद्यतावुभौ ।

लब्ध्वा तु च्यवनो रूपं नेत्रे भार्यां च यौवनम्

॥४३॥

हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ।

उपकारः कृतोऽयं मे युवाभ्यां सुरसत्तमौ

॥४४॥

किं ब्रवीमि सुखं प्राप्तं संसारेऽस्मिन्ननुत्तमे ।

प्राप्य भार्यां सुकेशान्तां दुःखं मेऽभवदन्वहम्

॥४५॥

अन्धस्य चातिवृद्धस्य भोगहीनस्य कानने ।

युवाभ्यां नयने दत्ते यौवनं रूपमद्भुतम्

॥४६॥

सम्पादितं ततं किञ्चिदुपकर्तुमहं ब्रुवे ।

उपकारिणि मित्रे यो नोपकुर्यात्कथञ्चन

॥४७॥

तं धिगस्तु नरं देवौ भवेच्च ऋणवान्भुवि ।

तस्माद्वां वाञ्छितं किञ्चिद्दातुमिच्छामि साम्प्रतम्

॥४८॥

आत्मनो ऋणमोक्षाय देवेशौ नूतनस्य च ।

प्रार्थितं वां प्रदास्यामि यदलभ्यं सुरासुरैः

॥४९॥

ब्रुवाथां वां मनोद्दिष्टं प्रीतोऽस्मि सुकृतेन वाम् ।

श्रुत्वा तौ तु मुनेर्वाक्यमभिमन्त्र्य परस्परम्

॥५०॥

तमूचतुर्मुनिश्रेष्ठं सुकन्यासहितं स्थितम् ।

मुने पितुः प्रसादेन सर्वं नो मनसेप्सितम्

॥५१॥

उत्कण्ठा सोमपानस्य वर्तते नौ सुरैः सह ।

भिषजाविति देवेन निषिद्धौ चमसग्रहे

॥५२॥

शक्रेण वितते यज्ञे ब्रह्मणः कनकाचले ।

तस्मात्त्वमपि धर्मज्ञ यदि शक्तोऽसि तापस

॥५३॥

कार्यमेतद्धि कर्तव्यं वाञ्छितं नौ सुसम्मतम् ।

एतद्विज्ञाय वा ब्रह्मन्कुरु वां सोमपायिनौ

॥५४॥

पिपासास्ति सुदुष्प्रापपा त्वत्तः समुपयास्यति ।

च्यवनस्तु तयोः प्राह तच्छ्रुत्वा वचनं मृदु

॥५५॥

यदहं रूपसम्पन्नो वयसा च समन्वितः ।

कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिति

॥५६॥

तस्माद्युवां करिष्यामि प्रीत्याहं सोमपायिनौ ।

मिषतो देवराजस्य सत्यमेतद्ब्रवीम्यहम्

॥५७॥

राज्ञस्तु वितते यज्ञे शर्यातेरमितद्युतेः ।

इत्याकर्ण्य वचो हृष्टौ तौ दिवं प्रतिजग्मतुः

॥५८॥

च्यवनस्तां गृहीत्वा तु जगामाश्रममण्डलम्

॥५९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥