मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय १०

3
सप्तमस्कन्धः · 10

सत्यव्रताख्यानवर्णनम्

व्यास उवाच

बभूव चक्रवर्ती स नृपतिः सत्यसंगरः ।

मांधाता पृथिवीं सर्वामजयन्नृपतीश्वरः

॥१॥

दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च ।

इंद्रेणास्य कृतं नाम त्रसदस्युरिति स्फुटम्

॥२॥

तस्य बिंदुमती भार्या शशबिंदोः सुताऽभवत् ।

पतिव्रता सुरूपा च सर्वलक्षणसंयुता

॥३॥

तस्यामुत्पादयामास मांधाता द्वौ सुतौ नृप ।

पुरुकुत्सं सुविख्यातं मुचुकुंदं तथाऽपरम्

॥४॥

पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः ।

पितृभक्तिरतश्चाभूद् बृहदश्वस्तदात्मजः

॥५॥

हर्यश्वस्तस्य पुत्रोऽभूद्धार्मिकः परमार्थवित् ।

तस्याऽऽत्मजस्त्रिधन्वा भूदरुणस्तस्य चात्मजः

॥६॥

अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः ।

सोऽभूदिच्छाचरः कामी मंदात्मा ह्यतिलोलुपः

॥७॥

स पापात्मा विप्रभार्यां हृतवान्काममोहितः ।

विवाहे तस्य विघ्नं स चकार नृपतेः सुतः

॥८॥

मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप ।

ऊचुर्भृशं सुदुःखार्ता हा हताः स्मेति चासकृत्

॥९॥

पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः ।

किं कृतं मम पुत्रेण भवतामशुभं द्विजाः

॥१०॥

तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम् ।

तदोचुस्त्वरुणं विप्राः कृताशीर्वचना भृशम्

॥११॥

ब्राह्मणा ऊचुः

राजंस्तव सुतेनाद्य विवाहे प्रहृता किल ।

विवाहिता विप्रकन्या बलेन बलिनां वर

॥१२॥

व्यास उवाच

श्रुत्वा तेषां वचस्तथ्यं राजा परमधार्मिकः ।

पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा

॥१३॥

गच्छ दूरं सुमंदात्मन्दुराचार गृहान्मम ।

न स्थातव्यं त्वया पाप विषये मम सर्वथा

॥१४॥

कुपितं पितरं प्राह क्व गच्छामिति वै मुहुः ।

अरुणास्तमथोवाच श्वपाकैः सह वर्तय

॥१५॥

श्वपचस्य कृतं कर्म द्विजदारापहारणम् ।

तस्मात्तैः सह संसर्गं कृत्वा तिष्ठ यथासुखम्

॥१६॥

नहि पुत्रेण पुत्रार्थी त्वया च कुलपांसना ।

यथेष्टं व्रज दुष्टात्मन्कीतनाशः कृतस्त्वया

॥१७॥

स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः ।

निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ

॥१८॥

सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते ।

धनुर्बाणधरः श्रीमान्कवची करुणालयः

॥१९॥

यदा निष्कासितः पित्रा कुपितेन महात्मना ।

गुरुणाऽथ वसिष्ठेन प्रेरितोऽसौ महीपतिः

॥२०॥

तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः ।

वसिष्ठे धर्मशास्त्रज्ञे निवारणपराङ्मुखे

॥२१॥

केनचित्कारणेनाथ पिता तस्य महीपतिः ।

पुत्रर्थेऽसौ तपस्तप्तुं पुरं त्यक्त्वा वनं गत

॥२२॥

न ववर्ष तदा तस्मिन्विषये पाकशासनः ।

समा द्वादश राजेंद्र तेनाऽधर्मेण सर्वथा

॥२३॥

विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप ।

संन्यस्य कौशिकीतीरे चचार विपुलं तपः

॥२४॥

कातरा तत्र संजाता भार्या कौशिकस्य ह ।

कुटुंबभरणार्थाय दुःखिता वरवर्णिनी

॥२५॥

बालकान्क्षुधयाऽऽक्रांतान्रुदतः पश्यती भृशम् ।

याचामानांश्च नीवारान्कष्टमाप पति व्रता

॥२६॥

चिंतयामास दुःखार्ता तोकान्वीक्ष्य क्षुधाऽऽतुरान् ।

नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम्

॥२७॥

न मे त्राताऽस्ति पुत्राणां पतिर्मे नास्ति सन्निधौ ।

रुदंति बालकाः कामं धिङ्मे जीवनमद्य वै

॥२८॥

धनहीना च मां त्यक्त्वा तपस्तप्तं गतः पतिः ।

न जानाति समर्थोऽपि दुःखितां धनवर्जिताम्

॥२९॥

बालानां भरणं केन करोमि पतिना विना ।

मरिष्यंति सुताः सर्वे क्षुधया पीडिता भृशम्

॥३०॥

एकं सुतं तु विक्रीय द्रव्येण कियता पुनः ।

पालयामि सुतानन्यानेष मे विहितो विधिः

॥३१॥

सर्वेषां मारणं नाद्धा युक्तं मम विपर्यये ।

कालस्य कलनायाहं विक्रीणामि तथाऽऽत्मजम्

॥३२॥

हृदयं कठिनं कृत्वा संचिंत्य मनसा सती ।

सा दर्भरज्ज्वा बद्धाथ गले पुत्रं विनिर्गता

॥३३॥

मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।

शेषस्य भरणार्थाय गृहीत्वा चलिता गृहात्

॥३४॥

दृष्टा सत्यव्रतेनाऽऽर्ता तापसी शोकसंयुता ।

पप्रच्छ नृपतिस्तां तु किं चिकीर्षसि शोभने

॥३५॥

रुदंतं बालकं कंठे बद्ध्वा नयसि काऽधुना ।

किमर्थं चारुसर्वांगि सत्यं ब्रूहि ममाऽग्रतः

॥३६॥

ऋषिपत्न्युवाच

विश्वामित्रस्य भार्याऽहं पुत्रोऽयं मे नृपात्मज ।

विक्रेतुमौरसं कामं गमिष्ये विषमेऽ सुतम्

॥३७॥

अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तं नृप क्वचित् ।

विक्रीणामि क्षुधार्तेन शेषस्य भरणाय वै

॥३८॥

राजोवाच

पतिव्रते रक्ष पुत्रं दास्यामि भरणं तव ।

तावदेव पतिस्तेऽत्र वनाच्चैवाऽऽगमिष्यति

॥३९॥

वृक्षे तवाऽऽश्रमाभ्याशे भक्ष्यं किंचिन्निरंतरम् ।

वंधयित्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम्

॥४०॥

इत्युक्ता सा तदा तेन राज्ञा कौशिककामिनी ।

विबंधं तययं कृत्वा जगामाऽऽश्रममंडलम्

॥४१॥

सोऽभवद्गालवो नाम गलबंधान्महातपाः ।

सा तु स्वस्याऽऽश्रमे गत्वा मुमोद बालकैर्वृता

॥४२॥

सत्यव्रतस्तु भक्त्या च कृपया च परिप्लुतः ।

विश्वामित्रस्य च मुनेः कलत्रं तद्बभार ह

॥४३॥

वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा ।

विश्वामित्रवनाभ्याशे मांसं वृक्षे बबंध ह

॥४४॥

ऋषिपत्नी गृहीत्वा तन्मांसं पुत्रानदा त्ततः ।

निर्वृतिं परमां प्राप प्राप्य भक्ष्यमनुत्तमम्

॥४५॥

अयोध्यां चैव राज्यं च तथैवांतः पुरं मुनिः ।

गते तप्तुं नृपे तस्मिन्व सिष्ठः पर्यरक्षत

॥४६॥

सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद्बहिः ।

पितुराज्ञां समास्थाय पशुघ्नव्रतवान्वने

॥४७॥

सत्यव्रतो ह्यकस्माच्च कस्यचित्कारणान्नृपः ।

वसिष्ठे चाऽधिकं मन्युं धारयामास नित्यदा

॥४८॥

त्याज्यमानं वने पित्रा धर्मिष्ठं च प्रियं सुतम् ।

न वारयामास मुनिर्वसिष्ठः कारणेन ह

॥४९॥

पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे ।

जानन्नपि स धर्मात्मा विप्रदारपरिग्रहे

॥५०॥

कस्मिंश्चिद्दिवसेऽरण्ये मृगाभावं महीपतिः ।

वसिष्ठस्य च गां दोग्ध्रीमपश्यद्वनमध्यगाम्

॥५१॥

तां जघान क्षुधार्तस्य क्रोधान्मोहाच्च दस्युवत् ।

वृक्षे बबंध तन्मांसं नीत्वा स्वयम भक्षयत्

॥५२॥

ऋषिषत्नी सुतान्सर्वान्भोजयामास तत्तदा ।

शंकमाना मृगस्येति न गोरिति च सुव्रता

॥५३॥

वसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा कुद्धस्तमब्रवीत् ।

दुरात्मन्किं कृतं पापं धेनुघातात्पिशाचवत्

॥५४॥

एवं ते शंकवः क्रूरा पतंतु त्वरितास्त्रयः ।

गोवधाहारहरणात्पितुः क्रोधात्तथा भृशम्

॥५५॥

त्रिशंकुरिति नाम्ना वै भुवि ख्यातो भविष्यसि ।

पिशाचरूपमात्मानं दर्शयन्सर्व देहिनाम्

॥५६॥

व्यास उवाच

एवं शप्तो वसिष्ठेन तदा सत्यव्रतो नृपः ।

चचार च तपस्तीव्रं तस्मिन्नेवाऽऽश्रमे थितः

॥५७॥

कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मंत्रमनुत्तमम् ।

ध्यायन्भगवतीं देवीं प्रकृतिं परमां शिवाम्

॥५८॥

इति श्रीदेवीभागवते महापुराणे सप्तमस्कंधे दशमोऽध्यायः ॥ १० ॥