मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय १२

3
सप्तमस्कन्धः · 12

त्रिशङ्कूपाख्यानवर्णनम्

एवं प्रबोधितः पित्रा त्रिशङ्कुः प्रणतो नृपः ।

तथेति पितरं प्राह प्रेमगद्गदया गिरा

॥१॥

विप्रानाहूय मन्त्रज्ञान्वेदशास्त्रविशारदान् ।

अभिषेकाय सम्भारान् कारयामास सत्वरम्

॥२॥

सलिलं सर्वतीर्थानां समानाय्य विशांपतिः ।

प्रकृतीश्च समाहूय सामन्तान्भूपतींस्तथा

॥३॥

पुण्येऽह्नि विधिवत्तस्मै ददावासनमुत्तमम् ।

अभिषिच्य सुतं राज्ये त्रिशङ्कुं विधिवत्पिता

॥४॥

तृतीयमाश्रमं पुण्यं जग्राह भार्यया युतः ।

वने त्रिपथगाकूले चचार दुश्चरं तपः

॥५॥

काले प्राप्ते ययौ स्वर्गं पूजितस्त्रिदशैरपि ।

इन्द्रासनसमीपस्थो रराज रविवत्सदा

॥६॥

राजोवाच पूर्वं भगवता प्रोक्तं कथायोगेन साम्प्रतम् ।

सत्यव्रतो वसिष्ठेन शप्तो दोग्ध्रीवधात्किल

॥७॥

कुपितेने पिशाचत्वं प्रापितो गुरुणा ततः ।

कथं मुक्तः पिशाचत्वादित्येतत्संशयः प्रभो

॥८॥

न सिंहासनयोग्यो हि भवेच्छापसमन्वितः ।

मुनिना मोचितः शापात्केनान्येन च कर्मणा

॥९॥

एतन्मे ब्रूहि विप्रर्षे शापमोक्षणकारणम् ।

आनीतस्तु कथं पित्रा स्वगृहे तादृशाकृतिः

॥१०॥

व्यास उवाच

वसिष्ठेन च शप्तोऽसौ सद्यः पैशाचतां गतः ।

दुर्वेषश्चातिदुर्धर्षः सर्वलोकभयङ्करः

॥११॥

यदैवोपासिता देवी भक्त्या सत्यव्रतेन ह ।

तया प्रसन्नया राजन् दिव्यदेहः कृतः क्षणात्

॥१२॥

पिशाचत्वं गतं तस्य पापं चैव क्षयं गतम् ।

विपाप्मा चातितेजस्वी सम्भूतस्तत्कृपामृतात्

॥१३॥

वसिष्ठोऽपि प्रसन्नात्मा जातः शक्तिप्रसादतः ।

पितापि च बभूवास्य प्रेमयुक्तस्त्वनुग्रहात्

॥१४॥

राज्यं शशास धर्मात्मा मृते पितरि पार्थिवः ।

ईजे च विविधैर्यज्ञैर्देवदेवीं सनातनीम्

॥१५॥

तस्य पुत्रो बभूवाथ हरिश्चन्द्रः सुशोभनः ।

लक्षणैः शास्त्रनिर्दिष्टैः संयुतश्चातिसुन्दरः

॥१६॥

युवराजं सुतं कृत्वा त्रिशङ्कुः पृथिवीपतिः ।

मानुषेण शरीरेण स्वर्गं भोक्तुं मनो दधे

॥१७॥

वसिष्ठस्याश्रमं गत्वा प्रणम्य विधिवन्नृपः ।

उवाच वचनं प्रीतः कृताञ्जलिपुटस्तदा

॥१८॥

राजोवाच

ब्रह्मपुत्र महाभाग सर्वमन्त्रविशारद ।

विज्ञप्तिं मे सुमनसा श्रोतुमर्हसि तापस

॥१९॥

इच्छा मेऽद्य समुत्पन्ना स्वर्गलोकसुखाय च ।

अनेनैव शरीरेण भोगान्भोक्तुममानुषान्

॥२०॥

अप्सरोभिश्च संवासः क्रीडितुं नन्दने वने ।

देवगन्धर्वगानं च श्रोतव्यं मधुरं किल

॥२१॥

याजय त्वं मखेनाशु तादृशेन महामुने ।

यथानेन शरीरेण वसे लोकं त्रिविष्टपम्

॥२२॥

समर्थोऽसि मुनिश्रेष्ठ कुरु कार्यं ममाधुना ।

प्रापयाशु मखं कृत्वा देवलोकं दुरासदम्

॥२३॥

वसिष्ठ उवाच

राजन् मानुषदेहेन स्वर्गे वासः सुदुर्लभः ।

मृतस्य हि ध्रुवं स्वर्गः कथितः पुण्यकर्मणा

॥२४॥

तस्माद् बिभेमि सर्वज्ञ दुर्लभाच्च मनोरथात् ।

अप्सरोभिश्च संवासो जीवमानस्य दुर्लभः

॥२५॥

कुरु यज्ञान्महाभाग मृतः स्वर्गमवाप्स्यसि ।

व्यास उवाच ।

इत्याकर्ण्य वचस्तस्य राजा परमदुर्मनाः

॥२६॥

उवाच वचनं भूयो वसिष्ठं पूर्वरोषितम् ।

न त्वं याजयसे ब्रह्मन् गर्वावेशाच्च मां यदि

॥२७॥

अन्यं पुरोहितं कृत्वा यक्ष्येऽहं किल साम्प्रतम् ।

तच्छ्रुत्वा वचनं तस्य वसिष्ठः कोपसंयुतः

॥२८॥

शशाप भूपतिं चेति चाण्डालो भव दुर्मते ।

अनेन त्वं शरीरेण श्वपचो भव सत्वरम्

॥२९॥

स्वर्गकृन्तन पापिष्ठ सुरभीवधदूषित ।

ब्रह्मपत्नीहरोच्छिन्न धर्ममार्गविदूषक

॥३०॥

न ते स्वर्गगतिः पाप मृतस्यापि कथञ्चन ।

व्यास उवाच ।

इत्युक्तो गुरुणा राजंस्त्रिशङ्कुस्तत्क्षणादपि

॥३१॥

तत्र तेन शरीरेण बभूव श्वपचाकृतिः ।

कुण्डलेऽश्ममये वापि जाते तस्य च तत्क्षणात्

॥३२॥

देहे चन्दनगन्धश्च विगन्धो ह्यभवत्तदा ।

नीलवर्णेऽथ सञ्जाते दिव्ये पीताम्बरे तनौ

॥३३॥

राजवर्णोऽभवद्देहः शापात्तस्य महात्मनः ।

शक्त्युपासकरोषेण फलमेतदभून्नृप

॥३४॥

तस्माच्छ्रीशक्तिभक्तो हि नावमान्यः कदाचन ।

गायत्रीजपनिष्ठो हि वसिष्ठो मुनिसत्तमः

॥३५॥

दृष्ट्वा निन्द्यं निजं देहं राजा दुःखमवाप्तवान् ।

न जगाम गृहे दीनो वनमेवाभितो ययौ

॥३६॥

चिन्तयामास दुःखार्तास्त्रिशङ्कुः शोकविह्वलः ।

किं करोमि क्व गच्छामि देहो मेऽतीव निन्दितः

॥३७॥

कर्तव्यं नैव पश्यामि येन मे दुःखसंक्षयः ।

गृहे गच्छामि चेत्पुत्रः पीडितोऽद्य भविष्यति

॥३८॥

भार्यापि श्वपचं दृष्ट्वा नाङ्गीकारं करिष्यति ।

सचिवा नादरिष्यन्ति वीक्ष्य मामीदृशं पुनः

॥३९॥

ज्ञातयो बन्धुवर्गश्च सङ्गतो न भजिष्यति ।

सर्वैस्तक्तस्य मे नूनं जीवितान्मरणं वरम्

॥४०॥

विषं वा भक्षयित्वाद्य पतित्वा वा जलाशये ।

कृत्वा वा कण्ठपाशं च देहत्यागं करोम्यहम्

॥४१॥

अग्नौ वा ज्वलिते देहं जुहोमि विधिवद् बलात् ।

कृत्वा वानशनं प्राणांस्त्यजामि दूषितान्भृशम्

॥४२॥

आत्महत्या भवेन्नूनं पुनर्जन्मनि जन्मनि ।

श्वपचत्वं च शापश्च हत्यादोषाद्भवेदपि

॥४३॥

पुनर्विचार्य भूपालश्चेतसा समचिन्तयत् ।

आत्महत्या न कर्तव्या सर्वथैव मयाधुना

॥४४॥

भोक्तव्यं स्वकृतं कर्म देहेनानेन कानने ।

भोगेनास्य विपाकस्य भविता सर्वथा क्षयः

॥४५॥

प्रारब्धकर्मणां भोगादन्यथा न क्षयो भवेत् ।

तस्मान्मयात्र भोक्तव्यं कृतं कर्म शुभाशुभम्

॥४६॥

कुर्वन्पुण्याश्रमाभ्याशे तीर्थानां सेवनं तथा ।

स्मरणं चाम्बिकायास्तु साधूनां सेवनं तथा

॥४७॥

एवं कर्मक्षयं नूनं करिष्यामि वने वसन् ।

भाग्ययोगात्कदाचित्तु भवेत्साधुसमागमः

॥४८॥

इति सञ्चिन्त्य मनसा त्यक्त्वा स्वनगरं नृपः ।

गङ्गातीरे गतः कामं शोचंस्तत्रैव संस्थितः

॥४९॥

हरिश्चन्द्रस्तदा ज्ञात्वा पितुः शापस्य कारणम् ।

दुःखितः सचिवांस्तत्र प्रेषयामास पार्थिवः

॥५०॥

सचिवास्तत्र गत्वाऽऽशु तमूचुः प्रश्रयान्विताः ।

प्रणम्य श्वपचाकारं निःश्वसन्तं मुहुर्मुहुः

॥५१॥

राजन् पुत्रेण ते नूनं प्रेषितान्समुपागतान् ।

अवेहि सचिवांस्त्वं नो हरिश्चन्द्राज्ञया स्थितान्

॥५२॥

युवराजसुतः प्राह यत्तच्छृणु नराधिप ।

आनयध्वं नृपं यूयं सम्मान्य पितरं मम

॥५३॥

तस्माद्राजन् समागच्छ राज्यं प्रति गतव्यथः ।

सेवां सर्वे करिष्यन्ति सचिवाश्च प्रजास्तथा

॥५४॥

गुरुं प्रसादयिष्यामः स यथा तु दयेत वै ।

प्रसन्नोऽसौ महातेजा दुःखस्यान्तं करिष्यति

॥५५॥

इति पुत्रेण ते राजन् कथितं बहुधा किल ।

तस्माद् गमनमेवाशु रोचतां निजसद्मनि

॥५६॥

व्यास उवाच

इति तेषां नृपः श्रुत्वा भाषितं श्वपचाकृतिः ।

स्वगृहं गमनायासौ न मतिं कृतवानतः

॥५७॥

तानुवाच तदा वाक्यं व्रजन्तु सचिवाः पुरम् ।

गत्वा पुरं महाभागा ब्रुवन्तु वचनाच्च मे

॥५८॥

नागमिष्याम्यहं पुत्र कुरु राज्यमतन्द्रितः ।

मानयन्ब्राह्मणान्देवान्यजन्यज्ञैरनेकशः

॥५९॥

नाहं श्वपचवेषेण गर्हितेन महात्मभिः ।

आगमिष्याम्ययोध्यायां सर्वे गच्छन्तु मा चिरम्

॥६०॥

पुत्रं सिंहासने स्थाप्य हरिश्चन्द्रं महाबलम् ।

कुर्वन्तु राज्यकर्माणि यूयं तत्र ममाज्ञया

॥६१॥

इत्यादिष्टास्ततस्ते तु रुरुदुश्चातुरा भृशम् ।

सचिवा निर्ययुस्तूर्णं नत्वा तं च वनाश्रमात्

॥६२॥

अयोध्यायामुपागत्य पुण्येऽह्नि विधिपूर्वकम् ।

अभिषेकं तदा चक्रुर्हरिश्चन्द्रस्य मूर्ध्नि ते

॥६३॥

अभिषिक्तस्तु तेजस्वी सचिवैश्च नृपाज्ञया ।

राज्यं चकार धर्मिष्ठः पितरं चिन्तयन्भृशम्

॥६४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे त्रिशङ्कूपाख्यानवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥