मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय २५

3
सप्तमस्कन्धः · 25

चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम्

सूत उवाच

एकदा तु गतो रन्तुं बालकैः सहितो बहिः ।

वाराणस्या नातिदूरे रोहिताख्यः कुमारकः

॥१॥

क्रीडां कृत्वा ततो दर्भान् ग्रहीतुमुपचक्रमे ।

कोमलानल्पमूलांश्च साग्राञ्छक्त्यनुसारतः

॥२॥

आर्यप्रीत्यर्थमित्युक्त्वा हस्तयुग्मेन यत्नतः ।

सलक्षणाश्च समिधो बर्हिरिध्मं सलक्षणम्

॥३॥

पलाशकाष्ठान्यादाय त्वग्निहोमार्थमादरात् ।

मस्तके भारकं कृत्वा खिद्यमानः पदे पदे

॥४॥

उदकस्थानमासाद्य तदा बालस्तृषान्वितः ।

भुवि भारं विनिक्षिप्य जलस्थाने तदा शिशुः

॥५॥

कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकम् ।

वल्मीकोपरि विन्यस्तभारो हर्तुं प्रचक्रमे

॥६॥

विश्वामित्राज्ञया तावत्कृष्णसर्पो भयावहः ।

महाविषो महाघोरो वल्मीकान्निर्गतस्तदा

॥७॥

तेनासौ बालको दष्टस्तदैव च पपात ह ।

रोहिताख्यं मृतं दृष्ट्वा ययुर्बाला द्विजालयम्

॥८॥

त्वरिता भयसंविग्नाः प्रोचुस्तन्मातुरग्रतः ।

हे विप्रदासि ते पुत्रः क्रीडां कर्तुं बहिर्गतः

॥९॥

अस्माभिः सहितस्तत्र सर्पदष्टो मृतस्ततः ।

इति सा तद्वचः श्रुत्वा वज्रपातोपमं तदा

॥१०॥

पपात मूर्च्छिता भूमौ छिन्नेव कदली यथा ।

अथ तां ब्राह्मणो रुष्टः पानीयेनाभ्यषिञ्चत

॥११॥

मुहूर्ताच्चेतनां प्राप्ता ब्राह्मणस्तामथाब्रवीत् ।

ब्राह्मण उवाच ।

अलक्ष्मीकारकं निन्द्यं जानती त्वं निशामुखे

॥१२॥

रोदनं कुरुषे दुष्टे लज्जा ते हृदये न किम् ।

ब्राह्मणेनैवमुक्ता सा न किञ्चिद्वाक्यमब्रवीत्

॥१३॥

रुरोद करुणं दीना पुत्रशोकेन पीडिता ।

अश्रुपूर्णमुखी दीना धूसरा मुक्तमूर्धजा

॥१४॥

अथ तां कुपितो विप्रो राजपत्नीमभाषत ।

धिक्त्वां दुष्टे क्रयं गृह्य मम कार्यं विलुम्पसि

॥१५॥

अशक्ता चेत्कथं तर्हि गृहीतं मम तद्धनम् ।

एवं निर्भर्त्सिता तेन क्रूरवाक्यैः पुनः पुनः

॥१६॥

रुदिता कारणं प्राह विप्रं गद्गदया गिरा ।

स्वामिन् मम सुतो बालः सर्पदष्टो मृतो बहिः

॥१७॥

अनुज्ञां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम् ।

दुर्लभं दर्शनं तेन सञ्जातं मम सुव्रत

॥१८॥

इत्युक्त्वा करुणं बाला पुनरेव रुरोद ह ।

पुनस्तां कुपितो विप्रो राजपत्नीमभाषत

॥१९॥

ब्राह्मण उवाच

शठे दुष्टसमाचारे किं न जानासि पातकम् ।

यः स्वामिवेतनं गृह्य तस्य कार्यं विलुम्पति

॥२०॥

नरके पच्यते सोऽथ महारौरवपूर्वके ।

उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत्

॥२१॥

किमनेनाथवा कार्यं धर्मसंकीर्तनेन मे ।

यस्तु पापरतो मूर्खः क्रूरो नीचोऽनृतः शठः

॥२२॥

तद्वाक्यं निष्फलं तस्मिन्भवेद् बीजमिवोषरे ।

एहि ते विद्यते किञ्चित्परलोकभयं यदि

॥२३॥

एवमुक्ताथ सा विप्रं वेपमानाब्रवीद्वचः ।

कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भव

॥२४॥

प्रस्थापय मुहूर्तं मां यावद् द्रक्ष्यामि बालकम् ।

एवमुक्त्वाथ सा मूर्ध्ना निपत्य द्विजपादयोः

॥२५॥

रुरोद करुणं बाला पुत्रशोकेन पीडिता ।

अथाह कुपितो विप्रः क्रोधसंरक्तलोचनः

॥२६॥

विप्र उवाच

किं ते पुत्रेण मे कार्यं गृहकर्म कुरुष्व मे ।

किं न जानासि मे क्रोधं कशाघातफलप्रदम्

॥२७॥

एवमुक्ता स्थिता धैर्याद् गृहकर्म चकार ह ।

अर्धरात्रो गतस्तस्याः पादाभ्यङ्गादिकर्मणा

॥२८॥

ब्राह्मणेनाथ सा प्रोक्ता पुत्रपार्श्वं व्रजाधुना ।

तस्य दाहादिकं कृत्वा पुनरागच्छ सत्वरम्

॥२९॥

न लुप्येत यथा प्रातर्गृहकर्म ममेति च ।

ततस्त्वेकाकिनी रात्रौ विलपन्ती जगाम ह

॥३०॥

दृष्ट्वा मृतं निजं पुत्रं भृशं शोकेन पीडिता ।

यूथभ्रष्टा कुरङ्गीव विवत्सा सौरभी यथा

॥३१॥

वाराणस्या बहिर्गत्वा क्षणाद् दृष्ट्वा निजं सुतम् ।

शयानं रङ्कवद्भूमौ काष्ठदर्भतृणोपरि

॥३२॥

विललापातिदुःखार्ता शब्दं कृत्वा सुनिष्ठुरम् ।

एहि मे सम्मुखं कस्माद्रोषितोऽसि वदाधुना

॥३३॥

आयास्यभिमुखो नित्यमम्बेत्युक्त्वा पुनः पुनः ।

गत्वा स्खलत्पदा तस्य पपातोपरि मूर्छिता

॥३४॥

पुनः सा चेतनां प्राप्य दोर्भ्यामालिङ्ग्य बालकम् ।

तन्मुखे वदनं न्यस्य रुरोदार्तस्वनैस्तदा

॥३५॥

कराभ्यां ताडनं चक्रे मस्तकस्योदरस्य च ।

हा बाल हा शिशो वत्स हा कुमारक सुन्दर

॥३६॥

हा राजन् क्व गतोऽसि त्वं पश्येमं बालकं निजम् ।

प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम्

॥३७॥

तथापश्यन्मुखं तस्य भूयो जीवितशङ्कया ।

निर्जीववदनं ज्ञात्वा मूर्छिता निपपात ह

॥३८॥

हस्तेन वदनं गृह्य पुनरेवमभाषत ।

शयनं त्यज हे बाल शीघ्रं जागृहि भीषणम्

॥३९॥

निशार्धं वर्धते चेदं शिवाशतनिनादितम् ।

भूतप्रेतपिशाचादिडाकिनीयूथनादितम्

॥४०॥

मित्राणि ते गतान्यस्तात्त्वमेकस्तु कुतः स्थितः ।

सूत उवाच ।

एवमुक्त्वा पुनस्तन्वी करुणं प्ररुरोद ह

॥४१॥

हा शिशो बाल हा वत्स रोहिताख्य कुमारक ।

रे पुत्र प्रतिशब्दं मे कस्मात्त्वं न प्रयच्छसि

॥४२॥

तवाहं जननी वत्स किं न जानासि पश्य माम् ।

देशत्यागाद्राज्यनाशात्पुत्र भर्त्रा स्वविक्रयात्

॥४३॥

यद्दासीत्वाच्च जीवामि त्वां दृष्ट्वा पुत्र केवलम् ।

ते जन्मसमये विप्रैरादिष्टं यत्त्वनागतम्

॥४४॥

दीर्घायुः पृथिवीराजः पुत्रपौत्रसमन्वितः ।

शौर्यदानरतिः सत्त्वो गुरुदेवद्विजार्चकः

॥४५॥

मातापित्रोस्तु प्रियकृत्सत्यवादी जितेन्द्रियः ।

इत्यादि सकलं जातमसत्यमधुना सुत

॥४६॥

चक्रमत्स्यावातपत्रश्रीवत्सस्वस्तिकध्वजाः ।

तव पाणितले पुत्र कलशश्चामरं तथा

॥४७॥

लक्षणानि तथान्यानि त्वद्धस्ते यानि सन्ति च ।

तानि सर्वाणि मोघानि सञ्जातान्यधुना सुत

॥४८॥

हा राजन्पृथिवीनाथ क्व ते राज्यं क्व मन्त्रिणः ।

क्व ते सिंहासनं छत्रं क्व ते खड्गः क्व तद्धनम्

॥४९॥

क्व सायोध्या क्व हर्म्याणि क्व गजाश्वरथप्रजाः ।

सर्वमेतत्तथा पुत्र मां त्यक्त्वा क्व गतोऽसि रे

॥५०॥

हा कान्त हा नृपागच्छ पश्येमं स्वसुतं प्रियम् ।

येन ते रिङ्गता वक्षः कुंकुमेनावलेपितम्

॥५१॥

स्वशरीररजःपङ्कैर्विशालं मलिनीकृतम् ।

येन ते बालभावेन मृगनाभिविलेपितः

॥५२॥

भ्रंशितो भालतिलकस्तवाङ्कस्थेन भूपते ।

यस्य वक्त्रं मृदा लिप्तं स्नेहाद्वै चुम्बितं मया

॥५३॥

तन्मुखं मक्षिकालिङ्ग्यं पश्ये कीटैर्विदूषितम् ।

हा राजन् पश्य तं पुत्रं भुविस्थं रङ्कवन्मृतम्

॥५४॥

हा देव किं मया कृत्यं कृतं पूर्वभवान्तरे ।

तस्य कर्मफलस्येह न पारमुपलक्षये

॥५५॥

हा पुत्र हा शिशो वत्स का कुमारक सुन्दर ।

एवं तस्या विलापं ते श्रुत्वा नगरपालकाः

॥५६॥

जागृतास्त्वरितास्तस्याः पार्श्वमीयुः सुविस्मिताः ।

जना ऊचुः ।

का त्वं बालस्य कस्यायं पतिस्ते कुत्र तिष्ठति

॥५७॥

एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि ।

एवमुक्ताथ सा तन्वी न किञ्चिद्वाक्यमब्रवीत्

॥५८॥

भूयोऽपि पृष्टा सा तूष्णीं स्तब्धीभूता बभूव ह ।

विललापातिदुःखार्ता शोकाश्रुप्लुतलोचना

॥५९॥

अथ ते शङ्कितास्तस्यां रोमाञ्चिततनूरुहाः ।

संत्रस्ताः प्राहुरन्योन्यमुद्धृतायुधपाणयः

॥६०॥

नूनं स्त्री न भवत्येषा यतः किञ्चिन्न भाषते ।

तस्माद्वध्या भवेदेषा यत्नतो बालघातिनी

॥६१॥

शुभा चेत्तर्हि किं ह्यत्र निशार्धे तिष्ठते बहिः ।

भक्षार्थमनया नूनमानीतः कस्यचिच्छिशुः

॥६२॥

इत्युक्त्वा तैर्गृहिता सा गाढं केशेषु सत्वरम् ।

भुजयोरपरैश्चैव कैश्चापि गलके तथा

॥६३॥

खेचरी यास्यतीत्युक्तं बहुभिः शस्त्रपाणिभिः ।

आकृष्य पक्कणे नीता चाण्डालाय समर्पिता

॥६४॥

हे चाण्डाल बहिर्दृष्टा ह्यस्माभिर्बालघातिनी ।

वध्यतां वध्यतामेष शीघ्रं नीत्वा बहिःस्थले

॥६५॥

चाण्डालः प्राह तां दृष्ट्वा ज्ञातेयं लोकविश्रुता ।

न दृष्टपूर्वा केनापि लोकडिम्भान्यनेकधा

॥६६॥

भक्षितान्यनया भूरि भवद्भिः पुण्यमार्जितम् ।

ख्यातिर्वः शाश्वती लोके गच्छध्वं च यथासुखम्

॥६७॥

द्विजस्त्रीबालगोघाती स्वर्णस्तेयी च यो नरः ।

अग्निदो वर्त्मघाती च मद्यपो गुरुतल्पगः

॥६८॥

महाजनविरोधी च तस्य पुण्यप्रदो वधः ।

द्विजस्यापि स्त्रियो वापि न दोषो विद्यते वधे

॥६९॥

अस्या वधश्च मे योग्य इत्युक्त्वा गाडबन्धनैः ।

बद्ध्वा केशेष्वथाकृष्य रज्जुभिस्तामताडयत्

॥७०॥

हरिश्चन्द्रमथोवाच वाचा परुषया तदा ।

रे दास वध्यतामेषा दुष्टात्मा मा विचारय

॥७१॥

तद्वाक्यं भूपतिः श्रुत्वा वज्रपातोपमं तदा ।

वेपमानोऽथ चाण्डालं प्राह स्त्रीवधशङ्कितः

॥७२॥

न शक्तोऽहमिदं कर्तुं प्रेष्यं देहि ममापरम् ।

असाध्यमपि यत्कर्म तत्करिष्ये त्वयोदितम्

॥७३॥

श्रुत्वा तदुक्तं वचनं श्वपचो वाक्यमब्रवीत् ।

मा भैषीस्त्वं गृहाणासिं वधोऽस्याः पुण्यदो मतः

॥७४॥

बालानामेव भयदा नेयं रक्ष्या कदाचन ।

तच्छ्रुत्वा वचनं तस्य राजा वचनमब्रवीत्

॥७५॥

स्त्रियो रक्ष्याः प्रयत्नेन न हन्तव्याः कदाचन ।

स्त्रीवधे कीर्तितः पापं मुनिभिर्धर्मतत्परैः

॥७६॥

पुरुषो यः स्त्रियं हन्याज्ज्ञानतोऽज्ञानतोऽपि वा ।

नरके पच्यते सोऽथ महारौरवपूर्वके

॥७७॥

चाण्डाल उवाच

मा वदासिं गृहाणैनं तीक्ष्णं विद्युत्समप्रभम् ।

यत्रैकस्मिन्वधं नीते बहूनां तु सुखं भवेत्

॥७८॥

तस्य हिंसा कृतं नूनं बहुपुण्यप्रदा भवेत् ।

भक्षितान्यनया भूरि लोके डिम्भानि दुष्टया

॥७९॥

तत्क्षिप्रं वध्यतामेषा लोकः स्वस्थो भविष्यति ।

राजोवाच ।

चाण्डालाधिपते तीव्रं व्रतं स्त्रीवधवर्जनम्

॥८०॥

आजन्मतस्ततो यत्नं न कुर्यां स्त्रीवधे तव ।

चाण्डाल उवाच ।

स्वामिकार्यं विना दुष्ट किं कार्यं विद्यतेऽपरम्

॥८१॥

गृहीत्वा वेतनं मेऽद्य कस्मात्कार्यं विलुम्पसि ।

यः स्वामिवेतनं गृह्य स्वामिकार्यं विलुम्पति

॥८२॥

नरकान्निष्कृतिस्तस्य नास्ति कल्पायुतैरपि ।

राजोवाच ।

चाण्डालनाथ मे देहि प्राप्यमन्यत्सुदारुणम्

॥८३॥

स्वशत्रुं ब्रूहि तं क्षिप्रं घातयिष्याम्यसंशयम् ।

घातयित्वा तु तं शत्रुं तव दास्यामि मेदिनीम्

॥८४॥

देव देवोरगैः सिद्धैर्गन्धर्वैरपि संयुतम् ।

देवेन्द्रमपि जेष्यामि निहत्य निशितैः शरैः

॥८५॥

एतच्छ्रुत्वा ततो वाक्यं हरिश्चन्द्रस्य भूपतेः ।

चाण्डालः कुपितः प्राह वेपमानं महीपतिम्

॥८६॥

चाण्डाल उवाच

(नैतद्वाक्यं सुघटितं यद्वाक्यं दासकीर्तितम्) चाण्डालदासतां कृत्वा सुराणां भाषसे वचः ।

दास किं बहुना नूनं शृणु मे गदतो वचः

॥८७॥

निर्लज्ज तव चेदस्ति किञ्चित्पापभयं हृदि ।

किमर्थं दासतां यातश्चाण्डालस्य तु वेश्मनि

॥८८॥

गृहाणैनं ततः खड्गमस्याश्छिन्धि शिरोऽम्बुजम् ।

एवमुक्त्वाथ चाण्डालो राज्ञे खड्गं न्यवेदयत्

॥८९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥